Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः ८

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः ८

संस्कृतEnglish
Ask AI

1उपयामगृहीतो ऽसि ।आदित्येभ्यस् त्वा ।विष्ण ऽ उरुगायैष ते सोमस् तꣳ रक्षस्व मा त्वा दभन् ॥

2कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ऽ ।आदित्येभ्यस् त्वा ॥

3कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी ।तुरीयादित्य सवनं त ऽ इन्द्रियम् आ तस्थाव् अमृतं दिवि ।आदित्येभ्यस् त्वा ॥

4यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः ।आ वोऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत् ।आदित्येभ्यस् त्वा ॥

5विवस्वन्न् आदित्यैष ते सोमपीथस् तस्मिन् मत्स्व ।श्रद् अस्मै नरो वचसे दधातन यद् आशीर्दा दम्पती वामम् अश्नुतः ।पुमान् पुत्रो जायते विन्दते वस्व् अधा विश्वाहार् अप ऽ एधते गृहे ॥

6वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यꣳ सावीः ।वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥

7उपयामगृहीतोऽसि सावित्रोऽसि चनोधाश् चनोधा ऽ असि चनो मयि धेहि ।जिन्व यज्ञं जिन्व यज्ञपतिं भगाय देवाय त्वा सवित्रे ॥

8उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षाय नमः ।विश्वेभ्यस् त्वा देवेभ्यः ऽ।एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

9उपयामगृहीतो ऽसि बृहस्पतिसुतस्य देव सोम त ऽ इन्दोर् इन्द्रियावतं पत्नीवतो ग्रहाँ२ ऽ ऋध्यासम् ।अहं परस्ताद् अहम् अवस्ताद् यद् अन्तरिक्षं तद् उ मे पिताभूत् ।अहꣳ सूर्यम् उभयतो ददर्शाहं देवानां परमं गुहा यत् ॥

10अग्ना3इ पत्नीवन्त् सजूर् देवेन त्वष्ट्रा सोमं पिब स्वाहा ।प्रजापतिर् वृषासि रेतोधा रेतो मयि धेहि प्रजापतेस् त वृष्णो रेतोधसो रेतोधाम् अशीय ॥

11उपयामगृहीतो ऽसि हरिर् असि हारियोजनो हरिभ्यां त्वा ।हर्योर् धाना स्थ सहसोमा ऽ इन्द्राय ॥

12यस् ते ऽ अश्वसनिर् भक्षो यो गोसनिस् तस्य त ऽ इष्टयजुष स्तुतसोमस्य शस्तोक्थस्योपहूतस्योपहूतो भक्षयामि ॥

13देवकृतस्यैनसो ऽवयजनम् असि ।मनुष्यकृतस्यैनसो ऽवयजनम् असि ।पितृकृतस्यैनसो ऽवयजनम् असि ।आत्मकृतस्यैनसो ऽवयजनम् असि ।एनसऽ-एनसो ऽवयजनम् असि ।यच् चाहम् एनो विद्वाꣳश् चकार यच् चाविद्वाꣳस् तस्य सर्वस्यैनसो ऽवयजनम् असि ।

14सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन ।त्वष्टा सुदत्रो वि दधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥

15सम् इन्द्र णो मनसा नेषि गोभिः सꣳ सूरिभिर् मघवन्त् सꣳ स्वस्त्या ।सं ब्रह्मणा देवकृतं यद् अस्ति सं देवाना सुमतौ यज्ञियाना स्वाहा ॥

16सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन ।त्वष्टा सुदत्रो विदधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥

17धाता रातिः सवितेदं जुषन्तां प्रजापतिर् निधिपा देवो ऽ अग्निः ।त्वष्टा विष्णुः प्रजया सꣳरराणा यजमानाय द्रविणं दधात स्वाहा ॥

18सुगा वो देवाः सदना ऽ अकर्म य ऽ आजग्मेदꣳ सवनं जुषाणाः ।भरमाणा वहमाना हवीꣳष्य् अस्मे धत्त वसवो वसूनि स्वाहा ॥

19याँ२ ऽ आवह ऽ उशतो देव देवाँस् तान् प्रेरय स्वे ऽ अग्ने सधस्थे ।जक्षिवासः पपिवासश् च विश्वे ऽसुं घर्मꣳ स्वरातिष्ठतानु स्वाहा ॥

20वयꣳ हि त्वा प्रयति ऽ यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह ।ऋधग् अया ऽ ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान्त् स्वाहा ॥

21देवा गातुविदो गातुं वित्त्वा गातुम् इत ।मनसस्पत ऽ इमं देव यज्ञꣳ स्वाहा वाते धाः ॥

22यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ।एष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस् तज् जुषस्व स्वाहा ॥

23माहिर् भूर् मा पृदाकुः ।उरुꣳ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा ऽ उ ।अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ।नमो वरुणायाभिष्ठितो वरुणस्य पाशः ॥

24अग्नेर् अनीकम् अप ऽ आ विवेशापां नपात् प्रतिरक्षन्न् असुर्यम् ।दमे-दमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच् चरण्यत् स्वाहा ॥

25समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत् स्वाहा ॥

26देवीर् आप ऽ एष वो गर्भस् तꣳ सुप्रीतꣳ सुभृतं बिभृत ।देव सोमैष ते लोकस् तस्मिञ् छं च वक्ष्व परि च वक्ष्व ॥

27अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।अव देवैर् देवकृतम् एनो ऽयासिषम् अव मर्त्यैर् मर्त्यकृतं पुरुराव्णो देव रिषस् पाहि ।देवाना समिद् असि ॥

28एजतु दशमास्यो गर्भो जरायुणा सह ।यथायं वायुर् एजति यथा समुद्र ऽ एजति ।एवायं दशमास्यो ऽ अस्रज् जरायुणा सह ॥

29यस्यै ते यज्ञियो गर्भो यस्यै योनिर् हिरण्ययी ।अङ्गान्य् अह्रुता यस्य तं मात्रा सम् अजीगमꣳ स्वाहा ॥

30पुरुदस्मो विषुरूप ऽ इन्दुर् अन्तर् महिमानम् आनञ्ज धीरः ।एकपदीं द्विपदीं त्रिपदीं चतुष्पदीम् अष्टापदीं भुवनानु प्रथन्ता स्वाहा ॥

31मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।स सुगोपातमो जनः ॥

32मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् ।पिपृतां नो भरीमभिः ॥

33आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी ।अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ।उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

34युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।अथा न ऽ इन्द्र सोमपा गिराम् उपश्रुतिं चर ।उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

35इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ।ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ।उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

36यस्मान् न जातः परो ऽ अन्यो ऽ अस्ति य ऽ आविवेश भुवनानि विश्वा ।प्रजापतिः प्रजया सꣳरराणस् त्रीणि ज्योतीषि सचते स षोडशी ॥

37इन्द्रश् च सम्राड् वरुणश् च राजा तौ ते भक्षं चक्रतुर् अग्र् ऽ एतम् ।तयोर् अहम् अनु भक्षं भक्षयामि वाग् देवी जुषाणा सोमस्य तृप्यतु ।सह प्राणेन स्वाहा ॥

38अग्ने पवस्व स्वपा ऽ अस्मे वर्चः सुवीर्यम् ।दधद् रयिं मयि पोषम् ।उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे ।ऽ एष ते योनिर् अग्नये त्वा वर्चसे ।अग्ने वर्चस्विन् वर्चस्वाꣳस् त्वं देवेष्व् असि वर्चस्वान् अहं मनुष्येषु भूयासम् ॥

39उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे ऽ अवेपयः ।सोमम् इन्द्र चमू सुतम् ।उपयामगृहीतो ऽसीन्द्राय त्वौजसे ।ऽ एष ते योनिर् इन्द्राय त्वौजसे ।इन्द्रौजिष्ठौजिष्ठस् त्वं देवेष्व् अस्य् ओजिष्ठो ऽहं मनुष्येषु भूयासम् ॥

40अदृश्रम् अस्य केतवो वि रश्मयो जनाꣳ ऽ अनु ।भ्राजन्तो अग्नयो यथा ।उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय ।एष ते योनिः सूर्याय त्वा भ्राजाय ।सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् ॥

41उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ।उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय ।एष ते योनिः सूर्याय त्वा भ्राजाय ।(सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् )॥ ?

42आजिघ्रकलशं मह्यात्वाविशन्त्विन्दवः।पुनरूर्जा निवर्त्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर् माविशताद् रयिः ॥

43इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिते सरस्वति महि विश्रुति ।एता ते ऽ अघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ॥

44वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।यो ऽ अस्माँ२ ऽ अभिदासत्य् अधरं गमया तमः ।उपयामगृहीतो ऽसीन्द्राय त्वा विमृधे ।ऽ एष ते योनिर् इन्द्राय त्वा विमृधे ॥

45वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम ।स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ।उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे ।ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥

46विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ।उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे ।ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥

47उपयामगृहीतो ऽस्य् अग्नये त्वा गायत्रच्छन्दसं गृह्णामि ।इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि ।विश्वेभ्यस् त्वा देवेभ्यो जगच्छन्दसं गृह्णामि ।अनुष्टुप् ते ऽभिगरः ॥

48व्रेशीनां त्वा पत्मन्न् आ धूनोमि कुकूननानां त्वा पत्मन्न् आ धूनोमि भन्दनानां त्वा पत्मन्न् आ धूनोमि मदिन्तमानां त्वा पत्मन्न् आ धूनोमि मधुन्तमानां त्वा पत्मन्न् आ धूनोमि शुक्रं त्वा शुक्र ऽ आ धूनोम्य् अह्नो रूपे सूर्यस्य रश्मिषु ॥

49ककुभꣳ रूपं वृषभस्य रोचते बृहच् छुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः ।यत् ते सोमादाभ्यं नाम जागृवि तस्मै त्वा गृह्णामि तस्मै ते सोम सोमाय स्वाहा ॥

50उशिक् त्वं देव सोमाग्नेः प्रियं पाथो ऽपीहि ।वशी त्वं देव सोमेन्द्रस्य प्रियं पाथो ऽपीहि ।अस्मत्सखा त्वं देव सोम विश्वेषां देवानां प्रियं पाथो ऽपीहि ॥

51इह रतिर् इह रमध्वम् इह धृतिर् इह स्वधृतिः स्वाहा ।उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् ।रायस्पोषम् अस्मासु दीधरत् स्वाहा ॥

52सत्रस्य ऽ ऋद्धिर् अस्य् अगन्म ज्योतिर् अमृता ऽ अभूम दिवं पृथिव्या ऽ अध्य् आरुहामाविदाम देवान्त् स्वर् ज्योतिः ॥

53युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् ।दूरे चत्ताय छन्त्सद् गहनं यद् इनक्षत् ।अस्माकꣳ शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ।भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः ॥

54परमेष्ठ्य् अभिधीतः ।प्रजापतिर् वाचि व्याहृतायाम् ।अन्धो ऽ अच्छेतः ।सविता सन्याम् ।विश्वकर्मा दीक्षायाम् ।पूषा सोमक्रयण्याम् ॥

55इन्द्रश् च मरुतश् च क्रयायोपोत्थितः ।ऽ असुरः पण्यमानः ।मित्रः क्रीतः ।विष्णुः शिपिविष्ट ऽ ऊराव् आसन्नः ।विष्णुर् नरन्धिषः प्रोह्यमाणः ॥

56सोम ऽ आगतः ।वरुण ऽ आसन्द्याम् आसन्नः ।ऽ अग्निर् आग्नीध्रे ।ऽ इन्द्रो हविर्धाने ।ऽ अथर्वोपावह्रियमाणः ॥

57विश्वे देवा ऽ अꣳशुषु न्युप्तः ।विष्णुर् आप्रीतपा ऽ आप्याय्यमानः ।यमः सूयमानः ।विष्णुः संभ्रियमाणः ।वायुः पूयमानः ।शुक्रः पूतः ।शुक्रं क्षीरश्रीः ।मन्थी सक्तुश्रीः ॥

58विश्वे देवाश् चमसेषून्नीतः ।ऽ असुर् होमायोद्यतः ।रुद्रो हूयमानः ।वातो ऽभ्यावृत्तः ।नृचक्षाः प्रतिख्यातः ।भक्षो भक्ष्यमाणः ।पितरो नाराशꣳसाः सन्नः ॥

59सिन्धुर् अवभृथायोद्यतः ।समुद्रो ऽभ्यवह्रियमाणः ।सलिलः प्रप्लुतः ।ययोर् ओजसा स्कभिता रजाꣳसि वीर्येभिर् वीरतमा शविष्ठा ।या पत्येते ऽ अप्रतीता सहोभिर् विष्णू ऽ अगन् वरुणा पूर्वहूतौ ॥

60देवान् दिवम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु मनुष्यान् अन्तरिक्षम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु पितॄन् पृथिवीम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु यं कं च लोकम् अगन् यज्ञस् ततो मे भद्रं अभूत् ॥

61चतुस्त्रिꣳशत् तन्तवो ये वितत्निरे य ऽ इमं यज्ञꣳ स्वधया ददन्ते ।तेषां छिन्नꣳ सम् व् एतद् दधामि स्वाहा घर्मो ऽ अप्य् एतु देवान् ॥

62यज्ञस्य दोहो विततः पुरुत्रा सो ऽ अष्टधा दिवम् अन्वा ततान ।स यज्ञ धुक्ष्व महि मे प्रजयाꣳ रायस्पोषं विश्वम् आयुर् अशीय स्वाहा ॥

63आ पवस्व हिरण्यवद् अश्ववत् सोम वीरवत् ।वाजं गोमन्तम् आ भर स्वाहा ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ७अध्यायः ९

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras