Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः ७

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः ७

संस्कृतEnglish
Ask AI

1वाचस् पतये पवस्व वृष्णो अꣳशुभ्यां गभस्तिपूतः ।देवो देवेभ्यः पवस्व येषां भागो ऽसि ॥

2मधुमतीर् न ऽ इषस् कृधि ।यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ।स्वाहा ।उर्व् अन्तरिक्षम् अन्व् एमि ॥

3स्वांकृतो ऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।देवेभ्यस् त्वा मरीचिपेभ्यः ।देवाशो यस्मै त्वेडे तत् सत्यम् उपरिप्रुता भङ्गेन हतो ऽसौ फट् ।प्राणाय त्वा ।व्यानाय त्वा ॥

4उपयामगृहीतो ऽस्य् अन्तर्यच्छ मघवन् पाहि सोमम् ।उरुष्य राय ऽएषो यजस्व ॥

5अन्तस् ते द्यावापृथिवी दधाम्य् अन्तर्दधाम्य् उर्व् अन्तरिक्षम् ।सजूर् देवेभिर् अवरैः परैश्चान्तर्यामे मघवन् मादयस्व ॥

6स्वांकृतोऽसि विश्वेभ्य ऽ इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।देवेभ्यस् त्वा मरीचिपेभ्यः ।ऽ उदानाय त्वा ॥

7आ वायो भूष शुचिपा ऽ उप नः सहस्रं ते नियुतो विश्ववार ।उपो तेऽअन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ।वायवे त्वा ॥

8इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् ।इन्दवो वाम् उशन्ति हि ।उपयामगृहीतोऽसि वायव ऽ इन्द्रवायुभ्यां त्वा ।एष ते योनिः ।सजोषोभ्यां त्वा ॥

9अयं वां मित्रावरुणा सुतः सोम ऽ ऋतावृधा ।ममेद् इह श्रुतꣳ हवम् ।उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वा ॥

10राया वयꣳ ससवाꣷसो मदेम हव्येन देवा यवसेन गावः ।तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ।एष ते योनिर् ऋतायुभ्यां त्वा ॥

11या वां कशा मधुमत्याश्विना सूनृतावती ।तया यज्ञं मिमिक्षतम् ।उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा ।एष ते योनिर् माध्वीभ्यां त्वा ॥

12तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदꣳ स्वर्विदम् ।प्रतीचीनं वृजनं दोहसे धुनिम् आशुं जयन्तम् अनु यासु वर्धसे ।उपयामगृहीतो ऽसि शण्डाय त्वा ।एष ते योनिर् वीरतां पाहि ।अपमृष्टः शण्डः ।देवास् त्वा शुक्रपाः प्रणयन्तु ।अनाधृष्टासि ॥

13सुवीरो वीरान् प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।संजग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषा ।निरस्तः शण्डः ।शुक्रस्याधिष्ठानम् असि ॥

14अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्याम ।सा प्रथमा सꣳस्कृतिर् विश्ववारा स प्रथमो वरुणो मित्रो ऽ अग्निः ॥

15स प्रथमो बृहस्पतिश् चिकित्वाꣳस् तस्मा ऽ इन्द्राय सुतम् आ जुहोत स्वाहा ।तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत् स्वाहा ।अयाड् अग्नीत् ॥

16अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।इमम् अपाꣳ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ।उपयामगृहीतो ऽसि मर्काय त्वा ॥

17मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।आ यः शर्याभिस् तुविनृम्णो ऽ अस्याश्रीणीतादिशं गभस्तौ ।एष ते योनिः प्रजाः पाहि ।अपमृष्टो मर्कः ।देवास् त्वा मन्थिपाः प्रणयन्तु ।अनाधृष्टासि ॥

18सुप्रजाः प्रजाः प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।संजग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा ।निरस्तो मर्कः ।मन्थिनो ऽधिष्ठानम् असि ॥

19ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ ।अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥

20उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणः पाहि यज्ञं पाहि यज्ञपतिं विष्णुस् त्वाम् इन्द्रियेण पातु विष्णुं त्वं पाह्य् अभि सवनानि पाहि ॥

21सोमः पवते सोमः पवते ऽस्मै ब्रह्मणे ऽस्मै क्षत्रायास्मै सुन्वते यजमानाय पवत ऽ इष ऽ ऊर्जे पवते ऽ द्भ्य ऽ ओषधीभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते विश्वेभ्यस् त्वा देवेभ्यः ऽ ।एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

22उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत ऽ उक्थाव्यं गृह्णामि ।यत् त ऽ इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वा ।एष ते योनिर् उक्थेभ्यस् त्वा ।देवेभ्यस् त्वा देवाव्यं गृह्णामि यज्ञस्यायुषे गृह्णामि ॥

23मित्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।इन्द्राय त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।इन्द्राग्निभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।इन्द्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।इन्द्राबृहस्पतिभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।इन्द्राविष्णुभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ॥

24मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् ।कविꣳ सम्राजम् अतिथिं जनानाम् आसन्ना पात्रं जनयन्त देवाः ॥

25उपयामगृहीतो ऽसि ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तमः ।ऽ एष ते योनिर् वैश्वानराय त्वा ।ध्रुवं ध्रुवेण मनसा वाचा सोमम् अव नयामि ।अथा न ऽ इन्द्र ऽ इद् विशो ऽसपत्नाः समनसस् करत् ॥

26यस् ते द्रप्स स्कन्दति यस् ते ऽ अꣳशुर् ग्रावच्युतो धिषणयोर् उपस्थात् ।अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतꣳ स्वाहा ।देवानाम् उत्क्रमणम् असि ॥

27प्राणाय मे वर्चोदा वर्चसे पवस्व ।व्यानाय मे वर्चोदा वर्चसे पवस्व ।उदानाय मे वर्चोदा वर्चसे पवस्व ।वाचे मे वर्चोदा वर्चसे पवस्व ।क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्व ।श्रोत्राय मे वर्चोदा वर्चसे पवस्व ।चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् ॥

28आत्मने मे मे वर्चोदा वर्चसे पवस्व ।ओजसे मे वर्चोदा वर्चसे पवस्व ।आयुषे मे वर्चोदा वर्चसे पवस्व ।विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथाम् ॥

29को ऽसि कतमो ऽसि कस्यासि को नामासि ।यस्य ते नामामन्महि यं त्वा सोमेनातीतृपाम ।भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्या सुवीरो वीरैः सुपोषः पोषैः ॥

30उपयामगृहीतो ऽसि मधवे त्वा ।उपयामगृहीतो ऽसि माधवाय त्वा ।उपयामगृहीतो ऽसि शुक्राय त्वा ।उपयामगृहीतो ऽसि शुचये त्वा ।उपयामगृहीतो ऽसि नभसे त्वा ।उपयामगृहीतो ऽसि नभस्याय त्वा ।उपयामगृहीतो ऽसीषे त्वा ।उपयामगृहीतो ऽस्य् ऊर्जे त्वा ।उपयामगृहीतो ऽसि सहसे त्वा ।उपयामगृहीतो ऽसि सहस्याय त्वा ।उपयामगृहीतो ऽसि तपसे त्वा ।उपयामगृहीतो ऽसि तपस्याय त्वा ।उपयामगृहीतो स्य् अꣳहसस्पतये त्वा ॥

31इन्द्राग्नी ऽ आ गतꣳ सुतं गीर्भिर् नभो वरेण्यम् ।अस्य पातं धियेषिता ।उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वा ।एष ते योनिर् इन्द्राग्निभ्यां त्वा ॥

32आ घा ये ऽ अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।येषाम् इन्द्रो युवा सखा ।उपयामगृहीतो ऽस्य् अग्नीन्द्राभ्यां त्वा ।एष ते योनिर् अग्नीन्द्राभ्यां त्वा ॥

33ओमासश् चर्षणीधृतो विश्वे देवास ऽ आ गत ।दाश्वाꣳसो दाशुषः सुतम् ।उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

34विश्वे देवास ऽ आ गत शृणुता म इमꣳ हवम् ।एदं बर्हिर् नि षीदत ।उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

35इन्द्र मरुत्व ऽ इह पाहि सोमं यथा शार्याते ऽ अपिबः सुतस्य ।तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ।उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।ऽ एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

36मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यꣳ शासम् इन्द्रम् ।विश्वासाहम् अवसे नूतनायोग्रꣳ सहोदाम् इह तꣳ हुवेम ।उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।एष ते योनिर् इन्द्राय त्वा मरुत्वते ।उपयामगृहीतो ऽसि मरुतां त्वौजसे ॥

37सजोषा ऽ इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।जहि शत्रूꣳन्२ ऽ अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ।उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

38मरुत्वाꣳ२ ऽ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधं मदाय ।आसिञ्चस्व जठरे मध्व ऽ ऊर्मिं त्वꣳ राजासि प्रतिपत्सुतानाम् ।उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

39महाꣳ२ ऽ इन्द्रो नृवद् आ चर्षणिप्रा ऽ उत द्विबर्हा ऽ अमिनः सहोभिः ।अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ।उपयामगृहीतो ऽसि महेन्द्राय त्वा ।एष ते योनिर् महेन्द्राय त्वा ॥

40महाꣳ२ ऽ इन्द्रो य ऽ ओजसा पर्जन्यो वृष्टिमाँ२ ऽ इव ।स्तोमैर् वत्सस्य वावृधे ।उपयामगृहीतो ऽसि महेन्द्राय त्वा ।एष ते योनिर् महेन्द्राय त्वा ॥

41उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यꣳ स्वाहा ॥

42चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।आप्रा द्यावापृथिवी ऽ अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च स्वाहा ॥

43अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम स्वाहा ॥

44अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽ एतु प्रभिन्दन् ।अयं वाजान् जयतु वाजसाताव् अयꣳ शत्रून् जयतु जर्हृषाणः स्वाहा ॥

45रूपेण वो रूपम् अभ्यागां तुथो वो विश्ववेदा वि भजतु ।ऋतस्य पथा प्रेत चन्द्रदक्षिणाः ।वि स्वः पश्य व्यन्तरिक्षम् ।यतस्व सदस्यैः ॥

46ब्राह्मणम् अद्य विदेयं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयꣳ सुधातुदक्षिणम् ।अस्मद्राता देवत्रा गच्छत प्रदातारम् आ विशत ॥

47अग्नये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीयायुर् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।रुद्राय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय प्राणो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ।बृहस्पतये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय त्वग् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।यमाय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय हयो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ॥

48को ऽदात् कस्मा अदात् कामो ऽदात् कामायादात् ।कामो दाता कामः प्रतिग्रहीता कामैतत् ते ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ६अध्यायः ८

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras