Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः ६

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः ६

संस्कृतEnglish
Ask AI

1देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।आ ददे नार्य् असि ।इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि ।यवो ऽसि यवयास्मद् द्वेषो यवयारातीः ।दिवेऽत्वान्तरिक्षाय त्वा पृथिव्यै त्वा ।शुन्धन्तां लोकाः पितृषदनाः ।पितृषदनम् असि ॥

2अग्रेणीर् असि स्वावेश ऽ उन्नेतॄणाम् एतस्य वित्ताद् अधि त्वा स्थास्यति ।देवस् त्वा सविता मध्व् आनक्तु ।सुपिप्पलाभ्यस् त्वौषधीभ्यः ।द्याम् अग्रेणास्पृक्ष ऽ आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृꣳहीः ॥

3या ते धामान्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा ऽ अयासः ।अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अव भारि भूरि ।ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्य् ऊहामि ।ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह ॥

4विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।इन्द्रस्य युज्यः सखा ॥

5तद् विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयो दिवीव चक्षुर् आततम् ॥

6परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानꣳ रायो मनुष्याणाम् ।दिवः सूनुर् असि ।एष ते पृथिव्यां लोक ऽ आरण्यस् ते पशुः ॥

7उपावीर् असि ।उप देवान् दैवीर् विशः प्रागुर् उशिजो वह्नितमान् ।देव त्वष्टर् वसु रम हव्या ते स्वदन्ताम् ॥

8रेवती रमध्वं बृहस्पते धारया वसूनि ।ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि धर्षा मानुषः ॥

9देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।अग्नीषोमाभ्यां जुष्टं नि युनज्मि ।अद्भ्यस् त्वौषधीभ्योऽनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः ।अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ॥

10अपां पेरुर् असि ।आपो देवीः स्वदन्तु स्वात्तं चित् सद् देवहविः ।सं ते प्राणो वातेन गच्छताꣳ सम् अङ्गानि यजत्रैः सं यज्ञपतिर् आशिषा ॥

11घृतेनाक्तौ पशूँस् त्रायेथा ।रेवति यजमाने प्रियं धा ऽ आ विश ।उरोर् अन्तरिक्षात् सजूर् देवेन वातेनास्य हविषस् त्मना यज समस्य तन्वा भव ।वर्षो वर्षीयसि यज्ञे यज्ञपतिं धाः ।स्वाहा देवेभ्यः ।देवेभ्यः स्वाहा ॥

12माहिर् भूर् मा पृदाकुः ।नमस् तऽ आतानानर्वा प्रेहि ।घृतस्य कुल्याऽ उपऽ ऋतस्य पथ्याऽ अनु ॥

13देवीर् आपः शुद्धा वोढ्वꣳ सुपरिविष्टा देवेषु ।सुपरिविष्टा वयं परिवेष्टारो भूयास्म ॥

14वाचं ते शुन्धामि ।प्राणं ते शुन्धामि ।चक्षुस् ते शुन्धामि ।श्रोत्रं ते शुन्धामि ।नाभिं ते शुन्धामि ।मेढ्रं ते शुन्धामि ।पायुं ते शुन्धामि ।चरित्राꣳस् ते शुन्धामि ॥

15मनस्तऽ आ प्यायताम् ।वाक् तऽ आ प्यायताम् ।प्राणस् तऽ आ प्यायताम् ।चक्षुस्तऽ आ प्यायताम् ।श्रोत्रं तऽ आ प्यायताम् ।यत् ते क्रूरं यद् आस्थितं तत् त ऽआ प्यायतां निष्ट्यायतां तत् ते शुध्यतु ।शम् अहोभ्यः ।ओषधे त्रायस्व ।स्वधिते मैनꣳ हिꣳसीः ॥

16रक्षसां भागो ऽसि ।निरस्तꣳ रक्षः ।ऽ इदम् अहꣳ रक्षोऽ भितिष्ठामीदम् अहꣳ रक्षोऽ व बाधऽ इदम् अहꣳ रक्षो ऽधमं तमो नयामि ।घृतेन द्यावापृथिवी प्रोर्णुवाथाम् ।वायो वे स्तोकानाम् ।अग्निर् आज्यस्य वेतु स्वाहा ।स्वाहाकृते ऽ ऊर्ध्वनभसं मारुतं गच्छतम् ॥

17इदम् आपः प्रवहतावद्यं च मलं च यत् ।यच् चाभिदुद्रोहानृतं यच् च शेपे ऽ अभीरुणम् ।आपो मा तस्माद् एनसः पवमानश् च मुञ्चतु ॥

18सं ते मनो मनसा सं प्राणः प्राणेन गच्छताम् ।रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिणन् वातस्य त्वा ध्राज्यै पूष्णो रꣳह्या ऽ ऊष्मणो व्यथिषत् ।प्रयुतं द्वेषः ॥

19घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविर् असि स्वाहा ।दिशः ।प्रदिशः ।ऽ आदिशः ।विदिशः ।ऽ उद्दिशः ।दिग्भ्यः स्वाहा ॥

20ऐन्द्रः प्राणो ऽ अङ्गे ऽ अङ्गे नि दीध्यद् ऐन्द्र ऽ उदानो ऽ अङ्गे ऽ अङ्गे निधीतः ।देव त्वष्टर् भूरि ते सꣳ-समेतु सलक्ष्मा यद् विषुरूपं भवाति ।देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥

21समुद्रं गच्छ स्वाहा ।ऽ अन्तरिक्षं गच्छ स्वाहा ।देवꣳ सवितारं गच्छ स्वाहा ।मित्रावरुणौ गच्छ स्वाहा ।ऽ अहोरात्रे गच्छ स्वाहा ।छन्दाꣳसि गच्छ स्वाहा ।द्यावापृथिवी गच्छ स्वाहा ।यज्ञं गच्छ स्वाहा ।सोमं गच्छ स्वाहा ।दिव्यं नभो गच्छ स्वाहा ।अग्निं वैश्वानरं गच्छ स्वाहा ।मनो मे हार्दि यच्छ ।दिवं ते धूमो गच्छतु स्वर् ज्योतिः पृथिवीं भस्मना पृण स्वाहा ॥

22मापो मौषधीर् हिꣳसीः ।धाम्नो-धाम्नो राजꣳस् ततो वरुण नो मुञ्च ।यद् आहुर् अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु +दुर्मित्रियास् तस्मै सन्तु यो स्मान् द्वेष्टि यं च वयं द्विष्मः ॥

23हविष्मतीर् इमा ऽ आपो हविष्माꣳ2 ऽ आ विवासति ।हविष्मान् देवो ऽ अध्वरो हविष्माꣳ2 ऽ अस्तु सूर्यः ॥

24अग्नेर्वोऽ पन्नगृहस्य सदसि सादयामि ।इन्द्राग्न्योर् भागधेयी स्थ ।मित्रावरुण्योर् भागधेयी स्थ ।विश्वेषां देवानां भागधेयी स्थ ।अमूर् या ऽ उप सूर्ये याभिर् वा सूर्यः सह ।ता नो हिन्वन्त्व् अध्वरम् ॥

25हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यच्छ ॥

26सोम राजन् विश्वास् त्वं प्रजा ऽ उपाव रोह ।विश्वास् त्वां प्रजा उपाव रोहन्तु ।शृणोत्व् अग्निः समिधा हवं मे शृण्वन्त्व् आपो धिषणाश् च देवीः ।श्रोता ग्रावाणो विदुषो न यज्ञꣳ शृणोतु देवः सविता हवं मे स्वाहा ॥

27देवीर् आपो ऽ अपां नपाद् यो व ऽ ऊर्मिर् हविष्य ऽ इन्द्रियावान् मदिन्तमः ।तं देवेभ्यो देवत्रा दत्त शुक्रपेभ्यो येषां भाग स्थ स्वाहा ॥

28कार्षिर् असि ।समुद्रस्य त्वाक्षित्या ऽ उन् नयामि ।सम् आपो ऽ अद्भिर् अग्मत सम् ओषधीभिर् ओषधीः ॥

29यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः ।स यन्ता शश्वतीर् इषः स्वाहा ॥

30देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।आ ददे रावासि गभीरम् इमम् अध्वरं कृधीन्द्राय सुषूतमम् ।उत्तमेन पविनोर्जस्वन्तं मधुमन्तं पयस्वन्तम् ।निग्राभ्या स्थ देवश्रुतस् तर्पयत मा ॥

31मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर् मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गणान् मे तर्पयत गणा मे मा वितृषन् ॥

32इन्द्राय त्वा वसुमते रुद्रवते ।ऽ इन्द्राय त्वादित्यवते ।ऽ इन्द्राय त्वाभिमातिघ्ने ।श्येनाय त्वा सोमभृते ।ऽ अग्नये त्वा रायस्पोषदे ॥

33यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे ।तेनास्मै यजमानायोरु राये कृध्य् अधि दात्रे वोचः ॥

34श्वात्रा स्थ वृत्रतुरो राधोगूर्ता ऽ अमृतस्य पत्नीः ।ता देवीर् देवत्रेमं यज्ञं नयतोपहूताः सोमस्य पिबत ॥

35मा भेर् मा सं विक्था ऽ ऊर्जं धत्स्व धिषणे वीड्वी सती वीडयेथामूर्जं दधाथाम् ।पाप्मा हतो न सोमः ॥

36प्राग् अपाग् उदग् अधराक् सर्वतस् त्वा दिश ऽ आ धावन्तु ।अम्ब नि ष्पर सम् अरीर् विदाम् ॥

37त्वम् अङ्ग प्र शꣳसिषो देवः शविष्ठ मर्त्यम् ।न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ५अध्यायः ७

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras