Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः ५

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः ५

संस्कृतEnglish
Ask AI

1अग्नेस् तनूर् असि विष्णवे त्वा सोमस्य तनूर् असि विष्णवे त्वातिऽतिथेर् आतिथ्यम् असि विष्णवे श्येनाय त्वा सोमभृते विष्णवे त्वाऽग्नये त्वा रायस्पोषदे विष्णवे त्वा ॥

2अग्नेर् जनित्रम् असि ।वृषणौ स्थः ।ऽउर्वश्य् असि ।आयुर् असि ।ऽ पुरूरवा असि ।गायत्रेण त्वा छन्दसा मन्थामि ।त्रैष्टुभेन त्वा छन्दसा मन्थामि ।जागतेन त्वा छन्दसा मन्थामि ॥

3भवतं नः समनसौ सचेतसाव् अरेपसौ ।मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥

4अग्नाव् अग्निश् चरति प्रविष्ट ऽ ऋषीणां पुत्रो ऽअभिशस्तिपावा ।स नः स्योनः सुयजा यजेह देवेभ्यो हव्यꣳ सदम् अप्रयुच्छन्त् स्वाहा ॥

5आपतये त्वा परिपतये गृह्णामि तनूनप्त्र्ये शाक्वराय शक्वन ऽ ओजिष्ठाय ।अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽनभिशस्त्य् अभिशस्तिपा ऽ अनभिशस्तेन्यम् अञ्जसा सत्यम् उप गेषꣳ स्विते मा धाः ॥

6अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् इयꣳ सा मयि यो मम तनूर् एषा सा त्वयि ।सह नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिः ॥

7अꣳशुर्-अꣳशुष्टे देव सोमाप्यायताम् इन्द्रायैकधनविदे ।आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ।आ प्याययास्मान्त् सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय ।एष्टा रायः प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो द्यावापृथिवीभ्याम् ॥

8या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥

9तप्तायनी मे ऽसि ।वित्तायनी मे ऽसि ।अवतान् मा नाथितात् ।अवतान् मा व्यथितात् ।विदेद् अग्निर् नभो नाम ।अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि ।योऽस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।विदेद् अग्निर् नभो नाम ।अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि ।यो द्वितीयस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।विदेद् अग्निर् नभो नाम ।अग्नेऽअङ्गिर ऽ आयुना नाम्नेहि ।यस् तृतीयस्यां पृथिव्याम् असि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।अनु त्वा देववीतये ॥

10सिꣳह्य् असि सपत्नसाही देवेभ्यः कल्पस्व ।सिꣳह्य् असि सपत्नसाही देवेभ्यः शुन्धस्व ।सिꣳह्य् असि सपत्नसाही देवेभ्यः शुम्भस्व ॥

11इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु ।प्रचेतास् त्वा रुद्रैः पश्चात् पातु ।मनोजवास् त्वा पितृभिर् दक्षिणतः पातु ।विश्वकर्मा त्वादित्यैर् उत्तरतः पातु ।इदम् अहं तप्तं वार् बहिर्धा यज्ञान् निः सृजामि ॥

12सिꣳह्य् असि स्वाहा ।सिꣳह्य् अस्य् आदित्यवनिः स्वाहा ।सिꣳह्य् असि ब्रह्मवनिः क्षत्रवनिः स्वाहा ।सिꣳह्य् असि सुप्रजावनी रायस्पोषवनिः स्वाहा ।सिꣳह्य् अस्य् आवह देवान् यजमानाय स्वाहा ।भूतेभ्यस् त्वा ॥

13ध्रुवो ऽसि पृथिवीं दृꣳह ।ध्रुवक्षिद् अस्य् अन्तरिक्षं दृꣳह ।अच्युतक्षिद् असि दिवं दृꣳह ।अग्नेः पुरीषम् असि ॥

14युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।वि होत्रा दधे वयुनाविद् एक ऽइन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥

15इदं विष्णुर् विचक्रमे त्रेधा नि दधे पदम् ।समूढम् अस्य पासुरे स्वाहा ॥

16इरावती धेनुमती हि भूतꣳ सूयवसिनी मनवे दशस्या ।व्यस्कभ्ना रोदसी विष्णव् एते दाधर्त्थ पृथिवीम् अभितो मयूखैः स्वाहा ॥

17देवश्रुतौ देवेष्व् आ घोषतम् ।प्राची प्रेतम् अध्वरं कल्पयन्ती ऽ ऊर्ध्वं यज्ञं नयतं मा जिह्वरतम् ।स्वं गोष्ठम् आ वदतं देवी दुर्ये ऽ आयुर् मा निर्वादिष्टं प्रजां मा निर्वादिष्टम् ।अत्र रमेथां वर्ष्मन् पृथिव्याः ॥

18विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाꣳसि ।यो ऽ अस्कभायद् उत्तरꣳ सधस्थं विचक्रमाणस् त्रेधोरुगायः ।विष्णवे त्वा ॥

19दिवो वा विष्ण ऽ उत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात् ।उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणाद् ओत सव्यात् ।विष्णवे त्वा ॥

20प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥

21विष्णो रराटम् असि ।विष्णोः श्नप्त्रे स्थः ।विष्णोः स्यूर् असि ।विष्णोर् ध्रुवो सि ।वैष्णवम् असि विष्णवे त्वा ॥

22देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।आ ददे नार्य् असि ।इदम् अहꣳ रक्षसां ग्रीवा ऽ अपिकृन्तामि ।बृहन्न् असि बृहद्रवा बृहतीम् इन्द्राय वाचं वद ॥

23रक्षोहणं वलगहनं वैष्णवीम् ।इदम् अहं तं वलगम् उत् किरामि यं मे निष्ट्यो यम् अमात्यो निचखान ।इदम् अहं तं वलगम् उत् किरामि यं मे समानो यम् असमानो निचखान ।इदम् अहं तं वलगम् उत् किरामि यं मे सबन्धुर् यम् असबन्धुर् निचखान ।इदम् अहं तं वलगम् उत् किरामि यं मे सजातो यम् असजातो निचखान ।उत् कृत्यां किरामि ॥

24स्वराड् असि सपत्नहा ।सत्रराड् अस्य् अभिमातिहा ।जनराड् असि रक्षोहा ।सर्वराड् अस्य् अमित्रहा ॥

25रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान् ।रक्षोहणो वो वलगहनो ऽव नयामि वैष्णवान् ।रक्षोहणो वो वलगहनो ऽव स्तृणामि वैष्णवान् ।रक्षोहणौ वां वलगहना ऽ उप दधामि वैष्णवी ।रक्षोहणौ वां वलगहनौ पर्य् ऊहामि वैष्णवी ।वैष्णवम् असि ।वैष्णवा स्थ ॥

26देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।आ ददे नार्य् असि ।इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि ।यवो ऽसि यवयास्मद् द्वेषो यवयारातीः ।दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा ।शुन्धन्तां लोकाः पितृषदनाः ।पितृषदनम् असि ॥

27उद् दिवꣳ स्तभानान्तरिक्षं पृण दृꣳहस्व पृथिव्याम् ।द्युतानास् त्वा मारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा ।ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्य् ऊहामि ।ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह ॥

28ध्रुवासि ध्रुवो ऽयं यजमानो ऽस्मिन्न् आयतने प्रजया पशुभिर् भूयात् ।घृतेन द्यावापृथिवी पूर्येथाम् ।इन्द्रस्य छदिर् असि विश्वजनस्य छाया ॥

29परि त्वा गिर्वणो गिर ऽ इमा भवन्तु विश्वतः ।वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥

30इन्द्रस्य स्यूर् असि ।इन्द्रस्य ध्रुवो ऽसि ।ऐन्द्रम् असि ।वैश्वदेवम् असि ॥

31विभूर् असि प्रवाहणः ।वह्निर् असि हव्यवाहनः ।श्वात्रो ऽसि प्रचेताः ।तुथो ऽसि विश्ववेदाः ॥

32उशिग् असि कविः ।अङ्घारिर् असि बम्भारिः ।अवस्यूर् असि दुवस्वान् ।शुन्ध्यूर् असि मार्जालीयः ।सम्राड् असि कृशानुः ।परिषद्योऽसि पवमानः ।नभोऽसि प्रतक्वा ।मृष्टो ऽसि हव्यसूदनः ।ऽऋतधामासि स्वर्ज्योतिः ॥

33समुद्रो ऽसि विश्वव्यचाः ।ऽअजो ऽस्य् एकपात् ।अहिर् असि बुध्न्यः ।वाग् अस्य् ऐन्द्रम् असि सदो ऽसि ।ऋतस्य द्वारौ मा मा संताप्तम् ।अध्वनाम् अध्वपते प्र मा तिर स्वस्ति मे ऽस्मिन् पथि देवयाने भूयात् ॥

34मित्रस्य मा चक्षुषेक्षध्वम् ।अग्नयः सगराः सगरा स्थ सगरेण नाम्ना रुद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वो स्तु मा मा हिꣳसिष्ट ॥

35ज्योतिर् असि विश्वरूपं विश्वेषां देवाना समित् ।त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य ऽउरु यन्तासि वरूथꣳ स्वाहा ।जुषाणो ऽअप्तुर् आज्यस्य वेतु स्वाहा ॥

36अग्ने नय सुपथा राये ऽअस्मान् विश्वानि देव वयुनानि विद्वान् ।युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम ॥

37अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽएतु प्रभिन्दन् ।अयं वाजान् जयतु वाजसाताव् अयꣳ शत्रून् जयतु जर्हृषाणः स्वाहा ॥

38उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि ।घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥

39देव सवितर् एष ते सोमस् तꣳ रक्षस्व मा त्वा दभन् ।एतत् त्वं देव सोम देवो देवाँ2 ऽ उपागा ऽ इदम् अहं मनुष्यान्त् सह रायस्पोषेण स्वाहा निर् वरुणस्य पाशान् मुच्ये ॥

40अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् मय्य् अभूद् एषा सा त्वयि यो मम तनूस् त्वय्य् अभूद् इयꣳ सा मयि ।यथायथं नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् अमꣳस्तानु तपस् तपस्पतिः ॥

41उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि ।घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥

42अत्य् अन्याꣳ ऽ अगां नान्याꣳ ऽ उपागाम् अर्वाक् त्वा परेभ्यो ऽविदं परो ऽवरेभ्यः ।तं त्वा जुषामहे देव वनस्पते देवयज्यायै देवास् त्वा देवयज्यायै जुषन्तां विष्णवे त्वा ।ओषधे त्रायस्व ।स्वधिते मैनꣳ हिꣳसीः ॥

43द्यां मा लेखीर् अन्तरिक्षं मा हिꣳसीः पृथिव्या सं भव ।अयꣳ हि त्वा स्वधितिस् तेतिजानः प्रणिनाय महते सौभगाय ।अतस् त्वं देव वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयꣳ रुहेम ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ४अध्यायः ६

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras