ॐ जय जगदीश हरे
Om Jai Jagdish Hare
आरती संग्रह
👁 6Loading…
Purusha Suktam (Taittiriya)
Vishnu suktam in Sanskrit.
Dharmasthan is a digital devotional platform for devotees, families, and community mandals. Reading is free and requires no account.
Source: Verified against SD, VG
Traditional / public-domain text published for cultural preservation.
Content status: verified
Purusha Suktam (Taittiriya)
ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः ।
स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे ।
ॐ शान्तिः शान्तिः शान्तिः ।
हरिः ॐ ।
ॐ सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । १
पुरुष एवेदं सर्वम् । यद्भूतं यच्च भव्यम्।
उतामृतत्वस्येशानः । यदन्नेनातिरोहति । २
एतावानस्य महिमा । अतो ज्यायांश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । ३
त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुनः ।
ततो विश्वङ्व्यक्रामत् । साशनानशने अभि । ४
तस्माद्विराडजायत । विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः । ५
यत्पुरुषेण हविषा । देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मः शरद्धविः । ६
सप्तास्यासन्परिधयः । त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् । ७
तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः ।
तेन देवा अयजन्त । साध्या ऋषयश्च ये । ८
तस्माद्यज्ञात्सर्वहुतः । संभृतं पृषदाज्यम् ।
पशूंस्तांश्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये । ९
तस्माद्यज्ञात्सर्वहुतः । ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत । १०
तस्मादश्वा अजायन्त । ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् । तस्माज्जाता अजावयः । ११
यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते । १२
ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः । पद्भ्यां शूद्रो अजायत । १३
चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत । १४
नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकां अकल्पयन् । १५
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे ।
सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते । १६
धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । १७
यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्ते । यत्र पूर्वे साध्याः सन्ति देवाः । १८
॥ ॐ नमो नारायणाय ॥
॥ उत्तरनारायणम् ॥
अद्भ्यः संभूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि ।
तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे । १
वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् ।
तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेयऽनाय । २
प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते ।
तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति
वेधसः । ३
यो देवेभ्य आतपति । यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये । ४
रुचं ब्राह्मम् जनयन्तः । देवा अग्रे तदब्रुवन् ।
यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन् वशे । ५
ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे ।
नक्षत्राणि रूपम् । अश्विनौ व्यात्तम् । इष्टम् मनिषाण ।
अमुं मनिषाण । सर्वम् मनिषाण । ६
ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीस्स्वस्तिरस्तु नः ।
स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे ।
ॐ शान्तिः शान्तिः शान्तिः ।
Purusha Suktam (Taittiriya) is a traditional devotional Aarti sung in worship of Vishnu. Devotees recite it during morning and evening prayers to invoke blessings, peace, and spiritual harmony.
Yes. Reading Purusha Suktam (Taittiriya) lyrics, transliteration, and English meanings is completely free on Dharmasthan with no registration or payment required.
Yes. You can read it directly here, use our dedicated solo read mode (pustak view), or include it in curated playlists for festival celebrations.
Information verified as of October 2026.
Read with purity of heart and devotion 🙏
More Vishnu Aartis →ॐ जय जगदीश हरे
आरती संग्रह
👁 6विष्णु / नारायण गायत्री मन्त्र
आरती संग्रह
नृसिंह गायत्री मन्त्र
आरती संग्रह
शान्ताकारं भुजगशयनम् (विष्णु ध्यान श्लोक)
आरती संग्रह
ॐ नमो भगवते वासुदेवाय (द्वादशाक्षरी मन्त्र)
आरती संग्रह
ॐ नमो नारायणाय (अष्टाक्षरी मन्त्र)
आरती संग्रह