Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः ९

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः ९

संस्कृतEnglish
Ask AI

What is Adhyaya 9 of the Yajurveda about?

The Vajapeya, the “drink of strength” sacrifice (9.1–34), and the beginning of the Rajasuya, the consecration of a king (9.35–40).

1देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु स्वाहा ॥

2ध्रुवसदं त्वा नृषदं मनःसदम् ।उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।अप्सुषदं त्वा घृतसदं व्योमसदम् ।उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।पृथिवीसदं त्वाऽन्तरिक्षसदं दिविसदं देवसदं नाकसदम् ।उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥

3अपाꣳ रसम् उद्वयसꣳ सूर्ये सन्तꣳ समाहितम् ।अपाꣳ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् ।उपयामगृहीतो सीन्द्राय त्वा जुष्टं गृह्णामि ।एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥

4ग्रहा ऽ ऊर्जाहुतयो व्यन्तो विप्राय मतिम् ।तेषां विशिप्रियाणां वो ऽ हम् इषमूर्जꣳ सम् अग्रभम् ।उपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णामि ।एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तम् ।विपृचौ स्थो वि मा पाप्मना पृङ्क्तम् ॥

5इन्द्रस्य वज्रो ऽसि वाजसास् त्वयाऽयम् वाजꣳ सेत् ।वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥

6अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवत वाजिनः ।देवीर् आपो यो व ऽ ऊर्मिः प्रतूर्तिः ककुन्मान् वाजसास् तेनायं वाजꣳ सेत् ॥

7वातो वा मनो वा गन्धर्वाः सप्तविꣳशतिः ।ते ऽ अग्रेऽ श्वम् अयुञ्जꣳस् ते ऽ अस्मिन् जवम् आदधुः ॥

8वातरꣳहा भव वाजिन् युज्यमान ऽ इन्द्रस्येव दक्षिणः श्रियैधि ।युञ्जन्तु त्वा मरुतो विश्ववेदस ऽ आ ते त्वष्टा पत्सु जवं दधातु ॥

9जवो यस् ते वाजिन् निहितो गुहा यः श्येने परीत्तो ऽ अचरच् च वाते ।तेन नो वाजिन् बलवान् बलेन वाजजिच् च भव समने च पारयिष्णुः ।वाजिनो वाजजितो वाजꣳ सरिष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत ॥

10देवस्याहꣳ सवितुः सवे सत्यसवसो बृहस्पतेर् उत्तमं नाकꣳ रुहेयम् ।देवस्याहꣳ सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकꣳ रुहेयम् ।देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् उत्तमं नाकम् अरुहम् ।देवस्याहꣳ सवितुः सवे सत्यप्रसवस ऽ इन्द्रस्योत्तमं नाकम् अरुहम् ॥

11बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयत ।इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयत ॥

12एषा वः सा सत्या संवाग् अभूद् यया बृहस्पतिं वाजम् अजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो वि मुच्यध्वम् ।एषा वः सा सत्या संवाग् अभूद् ययेन्द्रं वाजम् अजीजपताजीजपतेन्द्रं वाजं वनस्पतयो वि मुच्यध्वम् ॥

13देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् वाजजितो वाजं जेषम् ।वाजिनो वाजजितोऽध्वन स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत ॥

14एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो ऽ अपिकक्ष आसनि ।क्रतुं दधिक्रा ऽ अनु सꣳसनिष्यदत् पथाम् अङ्काꣳस्य् अन्व् आपनीफणत् स्वाहा ॥

15उत स्मास्य द्रवतस् तुरणयतः पर्णं न वेर् अनु वाति प्रगर्धिनः ।श्येनस्येव ध्रजतो ऽ अङ्कसं परि दधिक्राव्णः स होर्जा तरित्रः स्वाहा ॥

16शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।जम्भयन्तो हिं वृकꣳ रक्षासि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥

17ते नो ऽ अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।सहस्रसा मेधसाता सनिष्यवो महो ये धनꣳ समिथेषु जभ्रिरे ॥

18वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः ।अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥

19आ मा वाजस्य प्रसवो जगम्याद् एमे द्यावापृथिवी विश्वरूपे ।आ मा गन्तां पितरा मातरा चा मा सोमो ऽ अमृतत्वेन गम्यात् ।वाजिनो वाजजितो वाजꣳ ससृवाꣳसो बृहस्पतेर् भागम् अव जिघ्रत निमृजानाः ॥

20आपये स्वाहा ।स्वापये स्वाहा ।ऽअपिजाय स्वाहा ।क्रतवे स्वाहा ।वसवे स्वाहा ।ऽअहर्पतये स्वाहा ।ऽअह्ने मुग्धाय स्वाहा ।मुग्धाय वैनꣳशिनाय स्वाहा ।विनꣳशिन ऽ आन्त्यायनाय स्वाहा ।ऽऽअन्त्याय भौवनाय स्वाहा ।भुवनस्य पतये स्वाहा ।ऽअधिपतये स्वाहा ॥

21आयुर् यज्ञेन कल्पताम् ।प्राणो यज्ञेन कल्पताम् ।चक्षुर् यज्ञेन कल्पताम् ।श्रोत्रं यज्ञेन कल्पताम् ।पृष्ठं यज्ञेन कल्पताम् ।यज्ञो यज्ञेन कल्पताम् ।प्रजापतेः प्रजा ऽ अभूम ।स्वर्देवा ऽ अगन्म ।अमृता ऽ अभूम ॥

22अस्मे वो ऽ अस्त्व् इन्द्रियम् अस्मे नृम्णम् उत क्रतुर् अस्मे वर्चाꣳसि सन्तु वः ।नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्यै ।ऽइयं ते राट् ।यन्तासि यमनो ध्रुवो ऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा ॥

23वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमꣳ राजानम् ओषधीष्व् अप्सु ।ता ऽ अस्मभ्यं मधुमतीर् भवन्तु वयꣳ राष्ट्रे जागृयाम पुरोहिताः स्वाहा ॥

24वाजस्येमां प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् ।अदित्सन्तं दापयति प्रजानन् स नो रयिꣳ सर्ववीरं नि यच्छतु स्वाहा ॥

25वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः ।सनेमि राजा परियाति विद्वान् प्रजां पुष्टिं वर्धयमानो ऽ अस्मे स्वाहा ॥

26सोमꣳ राजानमवसेऽग्निमन्वारभामहे।आदित्यान् विष्णुꣳ सूर्यं ब्रह्माणं च बृहस्पतिꣳ स्वाहा ॥

27अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय ।वाचं विष्णुꣳ सरस्वती सवितारं च वाजिनꣳ स्वाहा ॥

28अग्ने ऽ अच्छावदेह नः प्रति नः सुमना भव ।प्र नो यच्छ सहस्रजित्त्वꣳ हि धनदा ऽ असि स्वाहा ॥

29प्र नो यच्छत्व् अर्यमा प्र पूषा प्र बृहस्पतिः ।प्र वाग् देवी ददातु नः स्वाहा ॥

30देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।सरस्वत्यै वाचो यन्तुर् यन्त्रिये दधामि बृहस्पतेष् ट्वा साम्राज्येनाभि षिञ्चाम्य् असौ ॥

31अग्निर् एकाक्षरेण प्राणम् उद् अजयत् तम् उज् जेषम् ।अश्विनौ द्व्यक्षरेण द्विपदो मनुष्यान् उद् अजयतां तान् उज् जेषम् ।विष्णुस् त्र्यक्षरेण त्रीꣳल् लोकान् उद् अजयत् तान् उज् जेषम् ।सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत् तान् उज् जेषम् ॥

32पूषा पञ्चाक्षरेण पञ्च दिश ऽ उद् अजयत् ता ऽ उज् जेषम् ।सविता षडक्षरेण षड् ऋतून् उद् अजयत् तान् उज् जेषम् ।मरुतः सप्ताक्षरेण सप्त ग्राम्यान् पशून् उद् अजयꣳस् तान् उज् जेषम् ।बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ताम् उज् जेषम् ॥

33मित्रो नवाक्षरेण त्रिवृतꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् ।वरुणो दशाक्षरेण विराजम् उद् अजयत् ताम् उज् जेषम् ।इन्द्र ऽ एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ताम् उज् जेषम् ।विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयꣳस् ताम् उज् जेषम् ॥

34वसवस् त्रयोदशाक्षरेण त्रयोदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् ।रुद्राश् चतुर्दशाक्षरेण चतुर्दशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् ।आदित्याः पञ्चदशाक्षरेण पञ्चदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् ।अदितिः षोडशाक्षरेण षोडशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् ।प्रजापतिः सप्तदशाक्षरेण सप्तदशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् ॥

35एष ते निर्ऋते भागस् तं जुषस्व स्वाहा ।ऽअग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा ।यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहा ।विश्वदेवनेत्रेभ्यो देवेभ्यो पश्चात्सद्भ्यः स्वाहा ।मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य ऽ उत्तरासद्भ्यः स्वाहा ।सोमनेत्रेभ्यो देवेभ्यो ऽ उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा ॥

36ये देवा ऽ अग्निनेत्राः पुरःसदस् तेभ्यः स्वाहा ।ये देवा यमनेत्रा दक्षिणासदस् तेभ्यः स्वाहा ।ये देवा विश्वदेवनेत्राः पश्चात्सदस् तेभ्यः स्वाहा ।ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस् तेभ्यः स्वाहा ।ये देवाः सोमनेत्रा ऽ उपरिसदो दुवस्वन्तस् तेभ्यः स्वाहा ॥

37अग्ने सहस्व पृतना ऽ अभिमातीर् अपास्य ।दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसि ॥

38देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।उपाꣳशोर् वीर्येण जुहोमि हतꣳ रक्षः स्वाहा ।रक्षसां त्वा वधाय ।अवधिष्म रक्षोऽ वधिष्मामुम् असौ हतः ॥

39सविता त्वा सवानाꣳ सुवताम् अग्निर् गृहपतीना सोमो वनस्पतीनाम् ।बृहस्पतिर् वाच ऽ इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ॥

40इमं देवा ऽअसपत्नꣳ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽ एष वो ऽमी राजा सोमो स्माकं ब्राह्मणाना राजा ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ८अध्यायः १०

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras