शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः ३९
Ask AI1स्वाहा प्राणेभ्यः साधिपतिकेभ्यः ।पृथिव्यै स्वाहा ।अग्नये स्वाहा ।अन्तरिक्षे स्वाहा ।वायवे स्वाहा ।दिवे स्वाहा ।सूर्याय स्वाहा ॥
2दिग्भ्यः स्वाहा ।चन्द्राय स्वाहा ।नक्षत्रेभ्यः स्वाहा ।अद्भ्यः स्वाहा ।वरुणाय स्वाहा ।नाभ्यै स्वाहा ।पूताय स्वाहा ॥
3वाचे स्वाहा ।प्राणाय स्वाहा ।प्राणाय स्वाहा ।चक्षुषे स्वाहा ।चक्षुषे स्वाहा ।श्रोत्राय स्वाहा ।श्रोत्राय स्वाहा ॥
4मनसः कामम् आकूतिं वाचः सत्यम् अशीय ।पशूनाꣳ रूपम् अन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥
5प्रजापतिः संभ्रियमाणः सम्राट् संभृतो वैश्वदेवः सꣳसन्नो घर्मः प्रवृक्तस् तेज ऽ उद्यत ऽ आश्विनः पयस्या नीयमाने पौष्णो विष्यन्दमाने मारुतः क्लथन् ।मैत्रः शरसि संताय्यमाने वायव्यो ह्रियमाण ऽ आग्नेयो हूयमानो वाग्घुतः ॥
6सविता प्रथमे ऽहन्न् अग्निर् द्वितीये वायुस् तृतीय ऽ आदित्यश् चतुर्थे चन्द्रमाः पञ्चम ऽ ऋतुः षष्ठे मरुतः सप्तमे बृहस्पतिर् अष्टमे ।मित्रो नवमे वरुणो दशम ऽ इन्द्र ऽ एकादशे विश्वे देवा द्वादशे ॥
7उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च ।सासह्वाꣳश् चाभियुग्वा च विक्षिपः स्वाहा ॥
8अग्निꣳ हृदयेनाशनिꣳ हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना ।शर्वं मतस्नाभ्याम् ईशानं मन्युना महादेवम् अन्तःपर्शव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् ॥
9उग्रं लोहितेन मित्रꣳ सौव्रत्येन रुद्रं दौर्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान् प्रमुदा ।भवस्य कण्ठ्यꣳ रुद्रस्यान्तःपार्श्व्यं महादेवस्य यकृच् छर्वस्य वनिष्ठुः पशुपतेः पुरीतत् ॥
10लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा ।माꣳसेभ्यः स्वाहा माꣳसेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहास्थभ्यः स्वाहास्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा ।रेतसे स्वाहा पायवे स्वाहा ॥
11आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा ।शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा ॥
12तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घर्माय स्वाहा ।निष्कृत्यै स्वाहा प्रायश्चित्त्यै स्वाहा भेषजाय स्वाहा ॥
13यमाय स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा द्यावापृथिवीभ्याꣳ स्वाहा ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.