Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः ३८

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः ३८

संस्कृतEnglish
Ask AI

1देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।आ ददे ऽदित्यै रास्नासि ॥

2इड ऽ एहि ।अदित ऽ एहि ।सरस्वत्त्य् एहि ।असाव् एहि ।असाव् एहि ।असाव् एहि ॥

3अदित्यै रास्नासीन्द्राण्या ऽ उष्णीषः ।पूषासि ।घर्माय दीष्व ॥

4अश्विभ्यां पिन्वस्व ।सरस्वत्यै पिन्वस्व ।इन्द्राय पिन्वस्व ।स्वाहेन्द्रवत् ।स्वाहेन्द्रवत् ।स्वाहेन्द्रवत् ॥

5यस् ते स्तनः शशयो यो मयोभूर् यो रत्नधा वसुविद् यः सुदत्रः ।येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे ऽकः ।उर्व् अन्तरिक्षम् अन्व् एमि ॥

6गायत्रं छन्दो ऽसि ।त्रैष्टुभं छन्दो ऽसि ।द्यावापृथिवीभ्यां त्वा परि गृह्णामि ।अन्तरिक्षेणोप यच्छामि ।इन्द्राश्विना ।मधुनः सारघस्य घर्मं पात वसवो यजत वाट् ।स्वाहा सूर्यस्य रश्मये वृष्टिवनये ॥

7समुद्राय त्वा वाताय स्वाहा ।सरिराय त्वा वाताय स्वाहा ।अनाधृष्याय त्वा वाताय स्वाहा ।अप्रतिधृष्याय त्वा वाताय स्वाहा ।अवस्यवे त्वा वाताय स्वाहा ।अशिमिदाय त्वा वाताय स्वाहा ॥

8इन्द्राय त्वा वसुमते रुद्रवते स्वाहा ।इन्द्राय त्वादित्यवते स्वाहा ।इन्द्राय त्वाभिमातिघ्ने स्वाहा ।सवित्रे त्व ऽ ऋभुमते विभुमते वाजवते स्वाहा ।बृहस्पतये त्वा विश्वदेव्यावते स्वाहा ॥

9यमाय त्वाङ्गिरस्वते पितृमते स्वाहा ।स्वाहा घर्माय ।स्वाहा घर्मः पित्रे ॥

10विश्वा ऽ आशा दक्षिणसद् विश्वान् देवान् अयाड् इह ।स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना ॥

11दिवि धा ऽ इमं यज्ञम् इमम् यज्ञं दिवि धाः ।स्वाहाग्नये यज्ञियाय शं यजुर्भ्यः ॥

12अश्विना घर्मं पातꣳ हार्द्वानम् अहर् दिवाभिर् ऊतिभिः ।तन्त्रायिणो नमो द्यावापृथिवीभ्याम् ॥

13अपाताम् अश्विना घर्मम् अनु द्यावापृथिवी ऽ अमꣳसाताम् ।इहैव रातयः सन्तु ॥

14इषे पिन्वस्व ।ऊर्जे पिन्वस्व ।ब्रह्मणे पिन्वस्व ।क्षत्राय पिन्वस्व ।द्यावापृथिवीभ्यां पिन्वस्व ।धर्मासि सुधर्म ।अमेन्य् अस्मे नृम्णानि धारय ब्रह्म धारय क्षत्रम् धारय विषं धारय ॥

15स्वाहा पूष्णे शरसे ।स्वाहा ग्रावभ्यः ।स्वाहा प्रतिरवेभ्यः ।स्वाहा पितृभ्य ऽ ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः ।स्वाहा द्यावापृथिवीभ्याम् ।स्वाहा विश्वेभ्यः देवेभ्यः ॥

16स्वाहा रुद्राय रुद्रहूतये ।स्वाहा सं ज्योतिषा ज्योतिः ।अहः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ।रात्रिः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ।मधु हुतम् इन्द्रतमे ऽ अग्नाव् अश्याम ते देव घर्म नमस् ते ऽ अस्तु मा मा हिꣳसीः ॥

17अभीमं महिमा दिवं विप्रो बभूव सप्रथाः ।उत श्रवसा पृथिवीꣳ सꣳ सीदस्व महाꣳ२ऽ असि रोचस्व देववीतमः ॥[वि धूमम् अग्ने ऽ अरुषं मियेध्य सृज प्रशस्त दर्शतम्] ॥

18या ते घर्म दिव्या शुग् या गायत्र्याꣳ हविर्धाने ।सा त आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।या ते घर्मान्तरिक्षे शुग् या त्रिष्टुभ्य् आग्नीध्रे ।सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।या ते घर्म पृथिव्याꣳ शुग् या जगत्याꣳ सदस्या ।सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ॥

19क्षत्रस्य त्वा परस्पाय ब्रह्मणस् तन्वं पाहि ।विशस् त्वा धर्मणा वयम् अनु क्रामाम सुविताय नव्यसे ॥

20चतुःस्रक्तिर् नाभिर् ऋतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः ।अप द्वेषो ऽ अप ह्वरो ऽन्यव्रतस्य सश्चिम ॥

21घर्मैतत् ते पुरीषं तेन वर्धस्व चा च प्यायस्व ।वर्धिषीमहि च वयम् आ च प्यासिषीमहि ॥

22अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः ।सꣳ सूर्येण दिद्युतद् उदधिर् निधिः ॥

23सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

24उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

25एधो ऽस्य् एधिषीमहि ।समिद् असि तेजो ऽसि तेजो मयि धेहि ॥

26यावती द्यावापृथिवी यावच् च सप्त सिन्धवो वितस्थिरे ।तावन्तम् इन्द्र ते ग्रहमूर्जा गृह्णाम्य् अक्षितं मयि गृह्णाम्य् अक्षितम् ॥

27मयि त्यद् इन्द्रियं बृहन् मयि दक्षो मयि क्रतुः ।घर्मस् त्रिशुग् वि राजति विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह ॥

28पयसो रेत ऽ आभृतं तस्य दोहम् अशीमह्य् उत्तराम्-उत्तराꣳ समाम् ।त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः ।इन्द्रपीतस्य प्रजापतिभक्षितस्य मधुमत ऽ उपहूत ऽ उपहूतस्य भक्षयामि ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ३७अध्यायः ३९

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras