शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः ३७
Ask AI1देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।आ ददे नारिर् असि ॥
2युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥
3देवी द्यावापृथिवी मखस्य वाम् अद्य शिरो राध्यासं देवयजने पृथिव्याः ।मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
4देव्यो वम्र्यो भूतस्य प्रथमजा मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
5इयत्य् अग्रे ऽ आसीन् मखस्य ते ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
6इन्द्रस्यौज स्थ मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
7प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ।मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
8मखस्य शिरो ऽसि ।मखाय त्वा मखस्य त्वा शीर्ष्णे ।मखस्य शिरो ऽसि ।मखाय त्वा मखस्य त्वा शीर्ष्णे ।मखस्य शिरो ऽसि ।मखाय त्वा मखस्य त्वा शीर्ष्णे ।मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
9अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।मखाय त्वा मखस्य त्वा शीर्ष्णे ।अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।मखाय त्वा मखस्य त्वा शीर्ष्णे ।अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।मखाय त्वा मखस्य त्वा शीर्ष्णे ।मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
10ऋजवे त्वा ।साधवे त्वा ।सुक्षित्यै त्वा ।मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
11यमाय त्वा ।मखाय त्वा ।सूर्यस्य त्वा तपसे ।देवस् त्वा सविता मध्वानक्तु ।पृथिव्याः सꣳस्पृशस् पाहि ।अर्चिर् असि शोचिर् असि तपो ऽसि ॥
12अनाधृष्टा पुरस्ताद् अग्नेर् आधिपत्य ऽ आयुर् मे दाः ।पुत्रवती दक्षिणत ऽ इन्द्रस्याधिपत्ये प्रजां मे दाः ।सुषदा पश्चाद् देवस्य सवितुर् आधिपत्ये चक्षुर् मे दाः ।आस्रुतिर् उत्तरतो धातुर् आधिपत्ये रायस्पोषं मे दाः ।विधृतिर् उपरिष्टाद् बृहस्पतेर् आधिपत्ये ऽ ओजो मे दाः ।विश्वाभ्यो मा नाष्ट्राभ्यस् पाहि ।मनोर् अश्वासि ॥
13स्वाहा मरुद्भिः परि श्रीयस्व ।दिवः सꣳस्पृशस् पाहि ।मधु मधु मधु ॥
14गर्भो देवानां पिता मतीनां पतिः प्रजानाम् ।सं देवो देवेन सवित्रा गत सꣳ सूर्येण रोचते ॥
15सम् अग्निर् अग्निना गत सं दैवेन सवित्रा सꣳ सूर्येणारोचिष्ट ।स्वाहा सम् अग्निस् तपसा गत सं दैव्येन सवित्रा सꣳ सूर्येणारूरुचत ॥
16धर्ता दिवो वि भाति तपसस् पृथिव्यां धर्ता देवो देवानाम् अमर्त्यस् तपोजाः ।वाचम् अस्मे नि यच्छ देवायुवम् ॥
17अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।स सध्रीचीः स विषूचीर् वसान ऽ आ वरीवर्त्ति भुवनेष्व् अन्तः ॥
18विश्वासां भुवां पते विश्वस्य मनसस् पते विश्वस्य वचसस् पते सर्वस्य वचसस् पते ।देवश्रुत् त्वं देव घर्म देवो देवान् पाहि ।अत्र प्रावीर् अनु वां देववीतये ।मधु माध्वीभ्यां मधु माधूचीभ्याम् ॥
19हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।ऊर्ध्वो ऽ अध्वरं दिवि देवेषु धेहि ॥
20पिता नो ऽसि पिता नो बोधि नमस् ते ऽ अस्तु मा मा हिꣳसीः ।त्वष्टृमन्तस् त्वा सपेम पुत्रान् पशून् मयि धेहि प्रजाम् अस्मासु धेह्य् अरिष्टाहꣳ सहपत्या भूयासम् ॥
21अहः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ।रात्रिः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.