शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः ३६
Ask AIWhat is Adhyaya 36 of the Yajurveda about?
The first of the adhyayas for the Pravargya rite (36–39), full of prayers for peace: the Gayatri with “Bhur bhuvah svah” (36.3), “Shanno mitrah shan varunah” (36.9), the Shanti Path “Dyauh shantir antariksham shantih” (36.17), “Mitrasya chakshusha” (36.18) and “Pashyema sharadah shatam” (36.24).
1ऋचं वाचं प्र पद्ये मनो यजुः प्र पद्ये साम प्राणं प्र पद्ये चक्षुः श्रोत्रं प्र पद्ये ।वाग् ओजः सहौजो मयि प्राणापानौ ॥
2यन् मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृण्णं बृहस्पतिर् मे तद् दधातु ।शं नो भवतु भुवनस्य यस् पतिः ॥
3भूर् भुवः स्वः ।तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।धियो यो नः प्रचोदयात् ॥
4कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा ।कया शचिष्ठया वृता ॥
5कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः ।दृढा चिद् आरुजे वसु ॥
6अभी षु णः सखीनाम् अविता जरितॄणाम् ।शतं भवास्य् ऊतिभिः ॥
7कया त्वम् न ऽ ऊत्याभि प्र मन्दसे वृषन् ।कया स्तोतृभ्य ऽ आ भर ॥
8इन्द्रो विश्वस्य राजति ।शं नो ऽ अस्तु द्विपदे शं चतुष्पदे ॥
9शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा ।शं न ऽ इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥
10शं नो वातः पवताꣳ शं नस् तपतु सूर्यः ।शं नः कनिक्रदद् देवः पर्जन्यो ऽ अभि वर्षतु ॥
11अहानि शं भवन्तु नः शꣳ रात्रीः प्रति धीयताम् ।शं न ऽ इन्द्राग्नी भवताम् अवोभिः शं न ऽ इन्द्रावरुणा रातहव्या ।शं न ऽ इन्द्रापूषणा वाजसातौ शम् इन्द्रासोमा सुविताय शं योः ॥
12शं नो देवीर् अभिष्टय ऽ आपो भवन्तु पीतये ।शं योर् अभि स्रवन्तु नः ॥
13स्योना पृथिवि नो भवानृक्षरा निवेशनी ।यच्छा नः शर्म सप्रथाः ॥
14आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन ।महे रणाय चक्षसे ॥
15यो वः शिवतमो रसस् तस्य भाजयतेह नः ।उशतीर् इव मातरः ॥
16तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ ।आपो जनयथा च नः ॥
17द्यौः शान्तिर् अन्तरिक्षꣳ शान्तिः पृथिवी शान्तिर् आपः शान्तिर् ओषधयः शान्तिः ।वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिः सर्वꣳ शान्तिः शान्तिर् एव शान्तिः सा मा शान्तिर् एधि ॥
18दृते दृꣳह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि सम् ईक्षन्ताम् ।मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।मित्रस्य चक्षुषा सम् ईक्षामहे ॥
19दृते दृꣳह मा ।ज्योक् ते संदृशि जीव्यासं ज्योक् ते संदृशि जीव्यासम् ॥
20नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे ।अन्याꣳस् ते ऽ अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥
21नमस् ते ऽ अस्तु विद्युते नमस् ते स्तनयित्नवे ।नमस् ते भगवन्न् अस्तु यतः स्वः समीहसे ॥
22यतो-यतः समीहसे ततो नो ऽ अभयं कुरु ।शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः ॥
23सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
24तच् चक्षुर् देवहितं पुरस्ताच् छुक्रम् उच् चरत् ।पश्येम शरदः शतं जीवेम शरदः शतꣳ शृणुयाम शरदः शतं प्र ब्रवाम शरदः शतम् अदीनाः स्याम शरदः शतं भूयश् च शरदः शतात् ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.