Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः ३५

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः ३५

संस्कृतEnglish
Ask AI

What is Adhyaya 35 of the Yajurveda about?

Mantras of the funeral rites (pitrimedha), beginning “Apeto yantu panayah”.

1अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः ।अस्य लोकः सुतावतः ।द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥

2सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु ।तस्मै युज्यन्ताम् उस्रियाः ॥

3वायुः पुनातु ।सविता पुनातु ।अग्नेर् भ्राजसा ।सूर्यस्य वर्चसा ।वि मुच्यन्ताम् उस्रियाः ॥

4अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता ।गोभाजऽइत् किलासथ यत् सनवथ पूरुषम् ॥

5सविता ते शरीराणि मातुर् उपस्थ ऽ आ वपतु ।तस्मै पृथिवि शं भव ॥

6प्रजापतौ त्वा देवतायाम् उपोदके लोके नि दधाम्य् असौ ।अप नः शोशुचद् अघम् ॥

7परं मृत्यो ऽ अनु परेहि पन्थां यस् ते ऽ अन्य इतरो देवयानात् ।चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान् ॥

8शं वातः शꣳ हि ते घृणिः शं ते भवन्त्व् इष्टकाः ।शं ते भवन्त्व् अग्नयः पार्थिवासो मा त्वाभि शूशुचन् ॥

9कल्पन्तां ते दिशस् तुभ्यम् आपः शिवतमास् तुभ्यं भवन्तु सिन्धवः ।अन्तरिक्षꣳ शिवं तुभ्यं कल्पन्तां ते दिशः सर्वाः ॥

10अश्मन्वती रीयते सꣳ रभध्वम् उत् तिष्ठत प्र तरता सखायः ।अत्र जहीमो ऽशिवा ये ऽ असञ्छिवान् वयम् उत्तरेमाभि वाजान् ॥

11अपाघम् अप किल्विषम् अप कृत्याम् अपो रपः ।अपामार्ग त्वम् अस्मद् अप दुःष्वप्न्यꣳ सुव ॥

12सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

13अनड्वाहम् आ रभामहे सौरभेयꣳ स्वस्तये ।स न ऽ इन्द्र ऽ इव देवेभ्यो वह्निः संतरणो भव ॥

14उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

15इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो ऽ अर्थम् एतम् ।शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधतां पर्वतेन ॥

16अग्न ऽ आयूꣳषि पवस ऽ आ सुवोर्जम् इषं च नः ।आरे बाधस्व दुच्छुनाम् ॥

17आयुष्मान् अग्ने हविषा वृधानो घृतप्रतीको घृतयोनिर् एधि ।घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रम् अभि रक्षताद् इमान्त् स्वाहा ॥

18परीमे गाम् अनेषत पर्य् अग्निम् अहृषत ।देवेष्व् अक्रत श्रवः क ऽ इमाꣳ२ऽ आ दधर्षति ॥

19क्रव्यादम् अग्निं प्र हिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥

20वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान् पराके ।मेदसः कुल्या ऽ उप तान्त् स्रवन्तु सत्या ऽ एषाम् आशिषः सं नमन्ताꣳ स्वाहा ॥

21स्योना पृथिवि नो भवानृक्षरा निवेशनी ।यच्छा नः शर्म सप्रथाः ।अप नः शोशुचद् अघम् ॥

22अस्मात् त्वम् अधि जातो ऽसि त्वद् अयं जायतां पुनः ।असौ स्वर्गाय लोकाय स्वाहा ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ३४अध्यायः ३६

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras