शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः ४०
Ask AIWhat is Adhyaya 40 of the Yajurveda about?
The Isha (Ishavasya) Upanishad, 17 verses, beginning “Isha vasyam idam sarvam”, “all this is pervaded by the Lord”. It is the only one of the principal Upanishads that is part of a Samhita; the Kanva recension gives it in 18 verses.
1ईशा वास्यम् इदꣳ सर्वं यत् किं च जगत्यां जगत् ।तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ॥
2कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतꣳ समाः ।एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे ॥
3असुर्या नाम ते लोका ऽअन्धेन तमसावृताः ।ताꣳस् ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः ॥
4अनेजद् एकं मनसो जवीयो नैनद् देवा ऽ आप्नुवन् पूर्वम् अर्शत् ।तद् धावतो ऽन्यान् अत्य् एति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति ॥
5तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके ।तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः ॥
6यस् तु सर्वाणि भूतान्य् आत्मन्न् एवानुपश्यति ।सर्वभूतेषु चात्मानं ततो न वि चिकित्सति ॥
7यस्मिन्त् सर्वाणि भूतान्य् आत्मैवाभूद् विजानतः ।तत्र को मोहः कः शोक ऽ एकत्वम् अनुपश्यतः ॥
8स पर्य् अगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरꣳ शुद्धम् अपापविद्धम् ।कविर् मनीषी परिभूः स्वयंभूर् याथातथ्यतो ऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥
9अन्धं तमः प्र विशन्ति ये ऽसंभूतिम् उपासते ।ततो भूय ऽ इव ते तमो य ऽ उ संभूत्याꣳ रताः ॥
10अन्यद् एवाहुः संभवाद् अन्यद् आहुर् असंभवात् ।इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥
11संभूतिं च विनाशं च यस् तद् वेदोभयꣳ सह ।विनाशेन मृत्युं तीर्त्वा संभूत्यामृतम् अश्नुते ॥
12अन्धं तमः प्र विशन्ति ये ऽविद्याम् उपासते ।ततो भूय ऽ इव ते तमो य ऽ उ विद्यायाꣳ रताः ॥
13अन्यद् एवाहुर् विद्याया ऽ अन्यद् आहुर् अविद्यायाः ।इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥
14विद्यां चाविद्यां च यस् तद् वेदोभयꣳ सह ।अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥
15वायुर् अनिलम् अमृतम् अथेदं भस्मान्तꣳ शरीरम् ।ओ3म् क्रतो स्मर क्लिबे स्मर कृतꣳ स्मर ॥
16अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम ऽ उक्तिं विधेम ॥
17हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।यो ऽसाव् आदित्ये पुरुषः सो ऽसाव् अहम् ।ओ३म् खं ब्रह्म ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.