शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः ३२
Ask AIWhat is Adhyaya 32 of the Yajurveda about?
Mantras on the One: “Tad evagnis tad adityah”, “That is Agni, that is the Sun” (32.1), and “Na tasya pratima asti”, “there is no likeness of him” (32.3).
1तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः ।तद् एव शुक्रं तद् ब्रह्म ता ऽ आपः स प्रजापतिः ॥
2सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि ।नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत् ॥
3न तस्य प्रतिमा ऽ अस्ति यस्य नाम महद् यशः ।हिरण्यगर्भ ऽ इत्य् एषः ।मा मा हिꣳसीद् इत्य् एषा ।यस्मान् न जात ऽ इत्य् एष ॥
4एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भे ऽ अन्तः ।स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः ॥
5यस्माज् जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा ।प्रजापतिः प्रजया सꣳरराणस् त्रीणि ज्योतीꣳषि सचते स षोडशी ॥
6येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः ।यो ऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
7यं क्रन्दसी ऽ अवसा तस्तभाने ऽ अभ्यैक्षेतां मनसा रेजमाने ।यत्राधि सूर ऽ उदितो विभाति कस्मै देवाय हविषा विधेम ।आपो ह यद् बृहतीः ।यश् चिद् आपः ॥
8वेनस् तत् पश्यन् निहितं गुहा सद् यत्र विश्वं भवत्य् एकनीडम् ।तस्मिन्न् इदꣳ सं च वि चैति सर्वꣳ स ऽ ओतः प्रोतश् च विभूः प्रजासु ॥
9प्र तद् वोचेद् अमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत् ।त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुः पितासत् ॥
10स नो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा ।यत्र देवा ऽ अमृतम् आनशानास् तृतीये धामन्न् अध्य् ऐरयन्त ॥
11परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च ।उपस्थाय प्रथमजाम् ऋतस्यात्मनात्मानम् अभि सं विवेश ॥
12परि द्यावापृथिवी सद्य ऽ इत्वा परि लोकान् परि दिशः परि स्वः ।ऋतस्य तन्तुं विततं विचृत्य तद् अपश्यत् तद् अभवत् तद् आसीत् ॥
13सदसस् पतिम् अद्भुतं प्रियम् इन्द्रस्य काम्यम् ।सनिं मेधाम् अयासिषꣳम् स्वाहा ॥
14यां मेधां देवगणाः पितरश् चोपासते ।तया माम् अद्य मेधयाग्ने मेधाविनं कुरु स्वाहा ॥
15मेधां मे वरुणो ददातु मेधाम् अग्निः प्रजापतिः ।मेधाम् इन्द्रस् च वायुश् च मेधां धाता ददातु मे स्वाहा ॥
16इदं मे ब्रह्म च क्षत्रं चोभे श्रियम् अश्नुताम् ।मयि देवा दधतु[ दधवु ] श्रियम् उत्तमां तस्यै ते स्वाहा ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.