शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः ३१
Ask AIWhat is Adhyaya 31 of the Yajurveda about?
The Purusha Sukta (31.1–16), the hymn of the cosmic Person with a thousand heads, also found in the Rigveda (10.90), followed by the Uttara Narayana (31.17–22), with “Vedaham etam purusham mahantam” (31.18).
1सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।स भूमिꣳ सर्वत स्पृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥
2पुरुषऽएवेदꣳ सर्वं यद् भूतं यच् च भाव्यम् ।उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥
3एतावान् अस्य महिमातो ज्यायाꣳश् च पूरुषः ।पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥
4त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः ।ततो विष्वङ् व्यक्रामत् साशनानशने ऽ अभि ॥
5तस्माद् विराड् अजायत विराजो ऽ अधि पूरुषः ।स जातो ऽ अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥
6तस्माद् यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।पशूꣳस् ताꣳश् चक्रे वायव्यान् आरण्या ग्राम्याश् च ये ॥
7तस्माद् यज्ञात् सर्वहुत ऽ ऋचः सामानि जज्ञिरे ।छन्दाꣳसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥
8तस्माद् अश्वा ऽ अजायन्त ये के चोभयादतः ।गावो ह जज्ञिरे तस्मात् तस्माज् जाता ऽ अजावयः ॥
9तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः ।तेन देवा ऽ अयजन्त साध्या ऽ ऋषयश् च ये ॥
10यत् पुरुषं व्य् अदधुः कतिधा व्यकल्पयन् ।मुखं किम् अस्य कौ बाहू का ऊरू पादा ऽ उच्येते ॥
11ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः ।ऊरू तद् अस्य यद् वैश्यः पद्भ्याꣳ शूद्रो ऽ अजायत ॥
12चन्द्रमा मनसो जातश् चक्षोः सूर्यो ऽ अजायत ।श्रोत्राद् वायुश् च प्राणश् च मुखाद् अग्निर् अजायत ॥
13नाभ्या ऽ आसीद् अन्तरिक्षꣳ शीर्ष्णो द्यौः सम् अवर्तत ।पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकाꣳऽ अकल्पयन् ॥
14यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत ।वसन्तो ऽस्यासीद् आज्यं ग्रीष्म ऽ इध्मः शरद् धविः ॥
15सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः ।देवा यद् यज्ञं तन्वाना ऽ अबध्नन् पुरुषं पशुम् ॥
16यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
17अद्भ्यः सम्भृतः पृथिव्यै रसाच् च विश्वकर्मणः सम् अवर्तताग्रे ।तस्य त्वष्टा विदधद् रूपम् एति तन् मर्त्यस्य देवत्वम् आजानम् अग्रे ॥
18वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् ।तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥
19प्रजापतिश् चरति गर्भे ऽअन्तर् अजायमानो बहुधा वि जायते ।तस्य योनिं परि पश्यन्ति धीरास् तस्मिन् ह तस्थुर् भुवनानि विश्वा ॥
20यो देवेभ्य ऽ आतपति यो देवानां पुरोहितः ।पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥
21रुचं ब्राह्म्यं जनयन्तो देवा ऽ अग्रे तद् अब्रुवन् ।यस् त्वैवं ब्राह्मणो विद्यात् तस्य देवा ऽ असन् वशे ॥
22श्रीश् च ते लक्ष्मीश् च पत्न्याव् अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्ताम् ।इष्णन्न् इषाणामुं म ऽ इषाण सर्वलोकं म ऽ इषाण ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.