Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः ३३

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः ३३

संस्कृतEnglish
Ask AI

1अस्याजरासो दमाम् अरित्रा ऽ अर्चद्धूमासो ऽ अग्नयः पावकाः ।श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥

2हरयो धूमकेतवो वातजूता ऽ उप द्यवि ।यतन्ते वृथग् अग्नयः ॥

3यजा नो मित्रावरुणा यजा देवाꣳ २ऽ ऋतं बृहत् ।अग्ने यक्षि स्वं दमम् ॥

4युक्ष्वा हि देवहूतमाꣳ२ऽ अश्वाꣳ२ऽ अग्ने रथीर् इव ।नि होता पूर्व्यः सदः ॥

5द्वे विरूपे चरतः स्वर्थे ऽ अन्यान्या वत्सम् उप धापयेते ।हरिर् अन्यस्यां भवति स्वधावाञ्छुक्रो ऽ अन्यस्यां ददृशे सुवर्चाः ॥

6अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥

7त्रीणि शता त्री सहस्राण्य् अग्निं त्रिꣳशच् च देवा नव चासपर्यन् ।औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा ऽ आद् इद् होतारं न्य् असादयन्त ॥

8मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् ।कविꣳ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥

9अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया ।समिद्धः शुक्र ऽ आहुतः ॥

10विश्वेभिः सोम्यं मध्व् अग्न ऽ इन्द्रेण वायुना ।पिबा मित्रस्य धामभिः ॥

11आ यद् इषे नृपतिं तेज ऽ आनट् शुचि रेतो निषिक्तं द्यौर् अभीके ।अग्निः शर्धम् अनवद्यं युवानꣳ स्वाध्यं जनयत् सूदयच् च ॥

12अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु ।सं जास्पत्यꣳ सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महाꣳसि ॥

13त्वाꣳ हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने ।इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥

14त्वे ऽ अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनाम् ॥

15श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः ।आ सीदन्तु बर्हिषि मित्रो ऽ अर्यमा प्रातर्यावाणो ऽ अध्वरम् ॥

16विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् ।अग्निर् देवानाम् अव ऽ आवृणानः सुमृडीको भवतु जातवेदाः ॥

17महो ऽ अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये ।श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो ऽ अद्या वृणीमहे ॥

18आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त ऽ इन्द्र ।याहि वायुर् न नियुतो नो ऽ अच्छा त्वꣳ हि धीभिर् दयसे वि वाजान् ॥

19गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा ।उभा कर्णा हिरण्यया ॥

20यद् अद्य सूर ऽ उदिते नागा मित्रो ऽ अर्यमा ।सुवाति सविता भगः ॥

21आ सुते सिञ्चत श्रियꣳ रोदस्योर् अभिश्रियम् ।रसा दधीत वृषभम् ॥[ तं प्रत्नथा। अयं वेनः॥]

22आतिष्ठन्तं परि विश्वे ऽ अभूषञ् छ्रियो वसानश् चरति स्वरोचिः ।महत् तद् वृष्णो ऽ असुरस्य नामा विश्वरूपो ऽ अमृतानि तस्थौ ॥

23प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे ।इन्द्रस्य यस्य सुमखꣳ सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥

24बृहन्न् इद् इध्म ऽ एषां भूरि शस्तं पृथुः स्वरुः ।येषाम् इन्द्रो युवा सखा ॥

25इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः ।महाꣳ२ऽ अभिष्टिर् ओजसा ॥

26इन्द्रो वृत्रम् अवृणोच्छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः ।अहन् व्यꣳसम् उशधग् वनेष्व् आविर् धेना ऽ अकृणोद् राम्याणाम् ॥

27कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त ऽ इत्था ।सं पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते ऽ अस्मे ।महाꣳ२ऽ इन्द्रो य ऽ ओजसा ।कदा चन स्तरीर् असि ।कदा चन प्र युच्छसि ॥

28आ तत् त ऽ इन्द्रायवः पनन्ताभि य ऽ ऊर्वं गोमन्तं तितृत्सान् ।सकृत्स्वं ये पुरुपुत्रां महीꣳ सहस्रधारां बृहतीं दुदुक्षन् ॥

29इमां ते धियं प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त ऽ आनजे ।तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥

30विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् ।वातजूतो यो ऽ अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥

31उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यꣳ स्वाहा ॥

32येना पावक चक्षसा भुरण्यन्तं जनाꣳ२ऽ अनु ।त्वं वरुण पश्यसि ॥

33दैव्याव् अध्वर्यू ऽ आ गतꣳ रथेन सूर्यत्वचा ।मध्वा यज्ञꣳ सम् अञ्जाथे ।तं प्रत्नथा । अयं वेनः। चित्रं देवानाम्(अ.वे.)अयं वेनः ।चित्रम् देवानाम् ॥

34आ न ऽ इडाभिर् विदथे सुशस्ति विश्वानरः सविता देव ऽ एतु ।अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥

35यद् अद्य कच् च वृत्रहन्न् उदगा ऽ अभि सूर्य ।सर्वं तद् इन्द्र ते वशे ॥

36तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।विश्वम् आ भासि रोचनम् ॥

37तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततꣳ सं जभार ।यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥

38तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे ।अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सं भरन्ति ॥

39बण् महाꣳ२ऽ असि सूर्य बड् आदित्य महाꣳ२ऽ असि ।महस् ते सतो महिमा पनस्यते द्धा देव महाꣳ२ऽ असि ॥

40बट् सूर्य श्रवसा महाꣳ२ऽ असि सत्रा देव महाꣳ२ऽ असि ।मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥

41श्रायन्त ऽ इव सूर्यं विश्वेद् इन्द्रस्य भक्षत ।वसूनि जाते जनमान ऽ ओजसा प्रति भागं न दीधिम ॥

42अद्या देवा ऽ उदिता सूर्यस्य निर् अꣳहसः पिपृता निर् अवद्यात् ।तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥

43आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च ।हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥

44प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट ऽ इयाते ।विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥

45इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।आदित्यान् मारुतं गणम् ॥

46वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः ।करतां नः सुराधसः ॥

47अधि न इन्द्रेषां विष्णो सजात्यानाम् ।इता मरुतो ऽ अश्विना ।[तं प्रत्नथा । अयं वेनः । ये देवासः । आ न इडाभिः । विश्वेभिः सोम्यं मधु ।] (अ.वे. 7.12, 16. 19, )ओमासश् चर्षणीधृतः ॥

48अग्न ऽ इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो ।उभा नासत्या रुद्रो ऽ अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥

49इन्द्राग्नी मित्रावरुणादितिꣳ स्वः पृथिवीं द्यां मरुतः पर्वताꣳ२ऽ अपः ।हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शꣳसꣳ सवितारमूतये ॥

50अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।यः शꣳसते स्तुवते धायि पज्र ऽ इन्द्रज्येष्ठा ऽ अस्माꣳ२ऽ अवन्तु देवाः ॥

51अर्वाञ्चो ऽ अद्या भवता यजत्रा ऽ आ वो हार्दि भयमानो व्ययेयम् ।त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥

52विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥

53विश्वे देवाः शृणुतेमꣳ हवं मे ये ऽ अन्तरिक्षे य ऽ उप द्यवि ष्ठ ।ये ऽ अग्निजिह्वा ऽ उत वा यजत्रा ऽ आसद्यास्मिन् बर्हिषि मादयध्वम् ॥

54देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वꣳ सुवसि भागम् उत्तमम् ।आद् इद् दामानꣳ सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥

55प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारꣳ रथप्राम् ।द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥

56इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् ।इन्दवो वाम् उशन्ति हि ॥

57मित्रꣳ हुवे पूतदक्षं वरुणं च रिशादसम् ।धियं घृताचीꣳ साधन्ता ॥

58दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।आ यातꣳ रुद्रवर्तनी । [ तं प्रत्नथा । अयं वेनः ॥ ](अ.वे. 7.12.16)

59विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यꣳ सध्र्यक् कः ।अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवं प्रथमा जानती गात् ॥

60नहि स्पशम् अविदन्न् अन्यम् अस्माद् वैश्वानरात् पुर ऽ एतारम् अग्नेः ।एम् एनम् अवृधन्न् अमृता ऽ अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥

61उग्रा विघनिना मृध ऽ इन्द्राग्नी हवामहे ।ता नो मृडात ऽ ईदृशे ॥

62उपास्मै गायता नरः पवमानायेन्दवे ।अभि देवाꣳ२ऽ इयक्षते ॥

63ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ ।ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमꣳ सगणो मरुद्भिः ॥

64जनिष्ठा ऽ उग्रः सहसे तुराय मन्द्र ऽ ओजिष्ठो बहुलाभिमानः ।अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥

65आ तू न ऽ इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि ।महान् महीभिर् ऊतिभिः ॥

66त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा ऽ असि स्पृधः ।अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥

67अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा ।विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥

68यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः ।आ वो ऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत् ॥

69अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् ।हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत ॥

70प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः ।वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥

71गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा ।उभा कर्णा हिरण्यया ॥

72काव्ययोर् आजानेषु क्रत्वा दक्षस्य दुरोणे ।रिशादसा सधस्थ ऽ आ ॥

73दैव्याव् अध्वर्यू आ गतꣳ रथेन सूर्यत्वचा ।मध्वा यज्ञꣳ सम् अञ्जाथे । [ + तं प्रत्नथा । अयं वेनः ॥]

74तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् ।रेतोधा ऽ आसन् महिमान ऽ आसन्त् स्वधा ऽ अवस्तात् प्रयतिः परस्तात् ॥

75आ रोदसी ऽ अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो ऽ अधारयन् ।सो ऽ अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥

76उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा ।आङ्गूषैर् आविवासतः ॥

77उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये ।सुमृडीका भवन्तु नः ॥

78ब्रह्माणि मे मतयः शꣳ सुतासः शुष्म ऽ इयर्ति प्रभृतो मे ऽ अद्रिः ।आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो ऽ अच्छ ॥

79अनुत्तमा ते मघवन् नकिर् नु न त्वावाꣳ२ऽ अस्ति देवता विदानः ।न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥

80तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ ऽ उग्रस् त्वेषनृम्णः ।सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥

81इमा ऽ उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥

82यस्यायं विश्व ऽ आर्यो दासः शेवधिपा ऽ अरिः ।तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो ऽ अज्यते रयिः ॥

83अयꣳ सहस्रम् ऋषिभिः सहस्कृतः समुद्र ऽ इव पप्रथे ।सत्यः सो ऽ अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥

84अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् ।हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत ॥

85आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।अन्तः पवित्र ऽ उपरि श्रीणानो ऽयꣳ शुक्रो ऽ अयामि ते ॥

86इन्द्रवायू सुसंदृशा सुहवेह हवामहे ।यथा नः सर्व ऽ इज् जनो ऽनमीवः संगमे सुमना ऽ असत् ॥

87ऋधग् इत्था स मर्त्यः शशमे देवतातये ।यो नूनं मित्रावरुणाव् अभिष्टय ऽ आचक्रे हव्यदातये ॥

88आ यातम् उप भूषतं मध्वः पिबतम् अश्विना ।दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ॥

89प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥

90चन्द्रमा ऽ अप्स्व् अन्तर् आ सुपर्णो धावते दिवि ।रयिं पिशंगं बहुलं पुरुस्पृहꣳ हरिर् एति कनिक्रदत् ॥

91देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये ।देवं-देवꣳ हुवेम वाजसातये गृणन्तो देव्या धिया ॥

92दिवि पृष्टो ऽ अरोचताग्निर् वैश्वानरो बृहन् ।क्ष्मया वृधान ऽ ओजसा चनोहितो ज्योतिषा बाधते तमः ॥

93इन्द्राग्नी ऽ अपाद् इयं पूर्वागात् पद्वतीभ्यः ।हित्वी शिरो जिह्वया वावदच् चरत् त्रिꣳशत् पदा न्य् अक्रमीत् ॥

94देवासो हि ष्मा मनवे समन्यवो विश्वे साकꣳ सरातयः ।ते नो ऽ अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥

95अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् ।देवास् त ऽ इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥

96प्र व ऽ इन्द्राय बृहते मरुतो ब्रह्मार्चत ।वृत्रꣳ हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥

97अस्येद् इन्द्रो वावृधे वृष्ण्यꣳ शवो मदे सुतस्य विष्णवि ।अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ।[इमा ऽ उ त्वा । यस्यायम् । अयꣳ सहस्रम् । ऊर्ध्व ऽ ऊ षु णः ॥] (अ.वे. )

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ३२अध्यायः ३४

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras