शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः २८
Ask AI1होता यक्षद् समिधेन्द्रम् इडस् पदे नाभा पृथिव्या ऽ अधि ।दिवो वर्ष्मन्त् सम् इध्यत ऽ ओजिष्ठश् चर्षणीसहां वेत्व् आज्यस्य होतर् यज ॥
2होता यक्षत् तनूनपातमूतिभिर् जेतारम् अपराजितम् ।इन्द्रं देवꣳ स्वर्विदं पथिभिर् मधुमत्तमैर् नराशꣳसेन तेजसा वेत्व् आज्यस्य होतर् यज ॥
3होता यक्षद् इडाभिर् इन्द्रम् ईडितम् आजुह्वानम् अमर्त्यम् ।देवो देवैः सवीर्यो वज्रहस्तः पुरंदरो वेत्व् आज्यस्य होतर् यज ॥
4होता यक्षद् बर्हिषीन्द्रं निषद्वरं वृषभं नर्यापसम् ।वसुभी रुद्रैर् आदित्यैः सुयुग्भिर् बर्हिर् आसदद् वेत्व् आज्यस्य होतर् यज ॥
5होता यक्षद् ओजो न वीर्यꣳ सहो द्वार ऽ इन्द्रम् अवर्धयन् ।सुप्रायणा ऽ अस्मिन् यज्ञे वि श्रयन्ताम् ऋतावृधो द्वार ऽ इन्द्राय मीढुषे व्यन्त्व् आज्यस्य होतर् यज ॥
6होता यक्षद् उषे ऽ इन्द्रस्य धेनू सुदुघे मातरा मही ।सवातरौ न तेजसा वत्सम् इन्द्रम् अवर्धतां वीताम् आज्यस्य होतर् यज ॥
7होता यक्षद् दैव्या होतारा भिषजा सखाया हविषेन्द्रं भिषज्यतः ।कवी देवौ प्रचेतसाव् इन्द्राय धत्त ऽ इन्द्रियं वीताम् आज्यस्य होतर् यज ॥
8होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपस इडा सरस्वत् भारती महीः ।इन्द्रपत्नीर् हविष्मतीर् व्यन्त्व् आज्यस्य होतर् यज ॥
9होता यक्षत् त्वष्टारम् इन्द्रं देवं भिषजꣳ सुयजं घृतश्रियम् ।पुरुरूपꣳ सुरेतसं मघोनम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वेत्व् आज्यस्य होतर् यज ॥
10होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुं धियो जोष्टारम् इन्द्रियम् ।मध्वा समञ्जन् पथिभिः सुगेभिः स्वदाति यज्ञं मधुना घृतेन वेत्व् आज्यस्य होतर् यज ॥
11होता यक्षद् इन्द्रꣳ स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाꣳ स्वाहा स्वाहाकृतीनाꣳ स्वाहा हव्यसूक्तीनाम् ।स्वाहा देवा ऽ आज्यपा जुषाणा ऽ इन्द्र आज्यस्य व्यन्तु होतर् यज ॥
12देवं बर्हिर् इन्द्रꣳ सुदेवं देवैर् वीरवत् स्तीर्णं वेद्याम् अवर्धयत् ।वस्तोर् वृतं प्राक्तोर् भृतꣳ राया बर्हिष्मतो ऽत्य् अगाद् वसुवने वसुधेयस्य वेतु यज ॥
13देवीर् द्वार ऽ इन्द्रꣳ संघाते वीड्वीर् यामन्न् अवर्धयन् ।आ वत्सेन तरुणेन कुमारेण च मीवतापार्वाणꣳ रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज ॥
14देवी उषासानक्तेन्द्रं यज्ञे प्रयत्य् अह्वेताम् ।दैवीर् विशः प्रायासिष्टाꣳ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ॥
15देवी जोष्ट्री वसुधिती देवम् इन्द्रम् अवर्धताम् ।अयाव्य् अन्याघा द्वेषाꣳस्य् आन्या वक्षद् वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥
16देवी ऽ ऊर्जाहुती दुघे पयसेन्द्रम् अवर्धताम् ।इषमूर्जम् अन्या वक्षत् सग्धिꣳ सपीतिम् अन्या नवेन पूर्वं दयमाने पुराणेन नवम् अधातामूर्जमूर्जाहुती ऽ ऊर्जयमाने वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥
17देवा देव्या होतारा देवम् इन्द्रम् अवर्धताम् ।हताघशꣳसाव् आभार्ष्टां वसु वार्याणि यजमानाय शिक्षितौ वसुवने वसुधेयस्य वीतां यज ॥
18देवीस् तिस्रस् तिस्रो देवीः पतिम् इन्द्रम् अवर्धयन् ।अस्पृक्षद् भारती दिवꣳ रुद्रैर् यज्ञꣳ सरस्वतीडा वसुमती गृहान् वसुवने वसुधेयस्य व्यन्तु यज ॥
19देव ऽ इन्द्रो नराशꣳसस् त्रिवरूथस् त्रिबन्धुरो देवम् इन्द्रम् अवर्धयत् ।शतेन शितिपृष्ठानाम् आहितः सहस्रेण प्र वर्तते मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज ॥
20देवो देवैर् वनस्पतिर् हिरण्यपर्णो मधुशाखः सुपिप्पलो देवम् इन्द्रम् अवर्धयत् ।दिवम् अग्रेणास्पृक्षद् आन्तरिक्षं पृथिवीम् अदृꣳहद् वसुवने वसुधेयस्य वेतु यज ॥
21देवं बर्हिर् वारितीनां देवम् इन्द्रम् अवर्धयत् ।स्वासस्थम् इन्द्रेणासन्नम् अन्या बर्हीꣳष्य् अभ्य् अभूद् वसुवने वसुधेयस्य वेतु यज ॥
22देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रम् अवर्धयत् ।स्विष्टं कुर्वन्त् स्विष्टकृत् स्विष्टम् अद्य करोतु नो वसुवने वसुधेयस्य वेतु यज ॥
23अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय छागम् ।सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय छागेन ।अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन ।त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥]???
24होता यक्षत् समिधानं महद् यशः सुसमिद्धं वरेण्यम् अग्निम् इन्द्रं वयोधसम् ।गायत्रीं छन्द ऽ इन्द्रियं त्र्यविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
25होता यक्षत् तनूनपातम् उद्भिदं यं गर्भम् अदितिर् दधे शुचिम् इन्द्रं वयोधसम् ।उष्णिहं छन्द ऽ इन्द्रियं दित्यवाहं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
26होता यक्षद् ईडेन्यम् ईडितं वृत्रहन्तमम् इडाभिर् ईड्यꣳ सहः सोमम् इन्द्रꣳ वयोधसम् ।अनुष्टुभं छन्द ऽ इन्द्रियं पञ्चाविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
27होता यक्षत् सुबर्हिषं पूषण्वन्तम् अमर्त्यꣳ सीदन्तं बर्हिषि प्रिये ऽमृतेन्द्रं वयोधसम् ।बृहतीं छन्द ऽ इन्द्रियं त्रिवत्सं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
28होता यक्षद् व्यचस्वतीः सुप्रायणा ऽ ऋतावृधो द्वारो देवीर् हिरण्ययीर् ब्रह्माणम् इन्द्रं वयोधसम् ।पङ्क्तिं छन्द ऽ इहेन्द्रियं तुर्यवाहं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥
29होता यक्षत् सुपेशसा सुशिल्पे बृहती ऽ उभे नक्तोषासा न दर्शते विश्वम् इन्द्रं वयोधसम् ।त्रिष्टुभं छन्द ऽ इहेन्द्रियं पष्ठवाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥
30होता यक्षत् प्रचेतसा देवानाम् उत्तमं यशो होतारा दैव्या कवी सयुजेन्द्रं वयोधसम् ।जगतीं छन्द ऽ इन्द्रियम् अनड्वाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥
31होता यक्षत् पेशस्वतीस् तिस्रो देवीर् हिरण्ययीर् भारतीर् बृहतीर् महीः पतिम् इन्द्रं वयोधसम् ।विराजं छन्द ऽ इहेन्द्रियं धेनुं गां न वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥
32होता यक्षत् सुरेतसं त्वष्टारं पुष्टिवर्धनꣳ रूपाणि बिभ्रतं पृथक् पुष्टिम् इन्द्रं वयोधसम् ।द्विपदं छन्द ऽ इन्द्रियम् उक्षाणं गां न वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
33होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुꣳ हिरण्यपर्णम् उक्थिनꣳ रशनां बिभ्रतं वशिं भगम् इन्द्रं वयोधसम् ।ककुभं छन्द ऽ इहेन्द्रियं वशां वेहतं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
34होता यक्षत् स्वाहाकृतीर् अग्निं गृहपतिं पृथग् वरुणं भेषजं कविं क्षत्रम् इन्द्रं वयोधसम् ।अतिच्छन्दसं छन्द ऽ इन्द्रियं बृहद् ऋषभं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥
35देवं बर्हिर् वयोधसं देवम् इन्द्रम् अवर्धयत् ।गायत्र्या छन्दसेन्द्रियं चक्षुर् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
36देवीर् द्वारो वयोधसꣳ शुचिम् इन्द्रम् अवर्धयन् ।उष्णिहा छन्दसेन्द्रियं प्राणम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥
37देवी ऽ उषासानक्ता देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।अनुष्टुभा छन्दसेन्द्रियं बलम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
38देवी जोष्ट्री वसुधिती देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् ।बृहत्या छन्दसेन्द्रियꣳ श्रोत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
39देवी ऽ ऊर्जाहुती दुघे सुदुघे पयसेन्द्रं वयोधसं देवी देवम् अवर्धताम् ।पङ्क्त्या छन्दसेन्द्रियꣳ शुक्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
40देवा दैव्या होतारा देवम् इन्द्रं वयोधसं देवौ देवम् अवर्धताम् ।त्रिष्टुभा छन्दसेन्द्रियं त्विषिम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
41देवीस् तिस्रस् तिस्रो देवीर् वयोधसं पतिम् इन्द्रम् अवर्धयन् ।जगत्या छन्दसेन्द्रियꣳ शूषम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥
42देवो नराशꣳसो देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।विराजा छन्दसेन्द्रियꣳ रुपम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
43देवो वनस्पतिर् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।द्विपदा छन्दसेन्द्रियं भगम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
44देवं बर्हिर् वारितीनां देवम् इन्द्रं वयोधसं देवं देवम् अवर्धयत् ।ककुभा छन्दसेन्द्रियं यश ऽ इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
45देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् ।अतिच्छन्दसा छन्दसेन्द्रियं क्षत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
46अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय वयोधसे छागम् ।सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय वयोधसे छागेन ।अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन ।त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥ ]
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.