Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः २९

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः २९

संस्कृतEnglish
Ask AI

1समिद्धो ऽ अञ्जन् कृदरं मतीनां घृतम् अग्ने मधुमत् पिन्वमानः ।वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधस्थम् ॥

2घृतेनाञ्जन्त् सं पथो देवयानान् प्रजानन् वाज्य् अप्य् एतु देवान् ।अनु त्वा सप्ते प्रदिशः सचन्ताꣳ स्वधाम् अस्मै यजमानाय धेहि ॥

3ईड्यश् चासि वन्द्यश् च वाजिन्न् आशुश् चासि मेध्यश् च सप्ते ।अग्निष् ट्वा देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥

4स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।देवेभिर् युक्तम् अदितिः सजोषाः स्योनं कृण्वान सुविते दधातु ॥

5एता ऽ उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणा ऽ उदातैः ।ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥

6अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने ।उषासा वाꣳ सुहिरण्ये सुशिल्पे ऽ ऋतस्य योनाव् इह सादयामि ॥

7प्रथमा वाꣳ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥

8आदित्यैर् नो भारती वष्टु यज्ञꣳ सरस्वती सह रुद्रैर् न ऽ आवीत् ।इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त ॥

9त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत ऽ आशुर् अश्वः ।त्वष्टेदं विश्वं भुवनं जजान बहोः कर्तारम् इह यक्षि होतः ॥

10अश्वो घृतेन त्मन्या समक्त ऽ उप देवाꣳ२ऽ ऋतुशः पाथ ऽ एतु ।वनस्पतिर् देवलोकं प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥

11प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने ।स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः ॥

12यद् अक्रन्दः प्रथमं जायमान ऽ उद्यन्त् समुद्राद् उत वा पुरीषात् ।श्येनस्य पक्षा हरिणस्य बाहू ऽ उपस्तुत्यं महि जातं ते ऽ अर्वन् ॥

13यमेन दत्तं त्रित ऽ एनम् आयुनग् इन्द्र ऽ एणं प्रथमो ऽ अध्य् अतिष्ठत् ।गन्धर्वो ऽ अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥

14असि यमो ऽ अस्य् आदित्यो ऽ अर्वन्न् असि त्रितो गुह्येन व्रतेन ।असि सोमेन समया विपृक्त ऽ आहुस् ते त्रीणि दिवि बन्धनानि ॥

15त्रीणि त ऽ आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे ।उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त ऽ आहुः परमं जनित्रम् ॥

16इमा ते वाजिन्न् अवमार्जनानीमा शफानाꣳ सनितुर् निधाना ।अत्रा ते भद्रा रशना ऽ अपश्यम् ऋतस्य या ऽ अभिरक्षन्ति गोपाः ॥

17आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तं पतंगम् ।शिरो ऽ अपश्यं पथिभिः सुगेभिर् अरेणुभिर् जेहमानं पतत्रि ॥

18अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष ऽ आ पदे गोः ।यदा ते मर्तो ऽ अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ऽ ओषधीर् अजीगः ॥

19अनु त्वा रथो ऽ अनु मर्यो ऽ अर्वन्न् अनु गावो ऽनु भगः कनीनाम् ।अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥

20हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा ऽ अवर इन्द्र ऽ आसीत् ।देवा ऽ इद् अस्य हविरद्यम् आयन् यो ऽ अर्वन्तं प्रथमो ऽ अध्यतिष्ठत् ॥

21ईर्मान्तासः सिलिकमध्यमासः सꣳ शूरणासो दिव्यासो ऽ अत्याः ।हꣳसा ऽ इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥

22तव शरीरं पतयिष्ण्व् अर्वन् तव चित्तं वात ऽ इव ध्रजीमान् ।तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥

23उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः ।अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥

24उप प्रागात् परमं यत् सधस्थम् अर्वाꣳ२ऽ अच्छा पितरं मातरं च ।अद्या देवान् जुष्टतमो हि गम्या ऽ अथा शास्ते दाशुषे वार्याणि ॥

25समिद्धो ऽ अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥

26तनूनपात् पथ ऽ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व ।मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥

27नराशꣳसस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः ।ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा ऽ उभयानि हव्या ॥

28आजुह्वान ऽ ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः ।त्वं देवानाम् असि यह्व होता स ऽ एनान् यक्षीषितो यजीयान् ॥

29प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते ऽ अग्रे ऽ अह्नाम् ।व्य् उ प्रथते वितरं वरीयो देवेभ्यो ऽ अदितये स्योनम् ॥

30व्यचस्वतीर् उर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥

31आ सुष्वयन्ती यजते ऽ उपाके ऽ उषासानक्ता सदतां नि योनौ ।दिव्ये योषणे बृहती सुरुक्मे ऽ अधि श्रियꣳ शुक्रपिशं दधाने ॥

32दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥

33आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती ।तिस्रो देवीर् बर्हिर् एदꣳ स्योनꣳ सरस्वती स्वपसः सदन्तु ॥

34य ऽ इमे द्यावापृथिवी जनित्री रूपइर् अपिꣳशद् भुवनानि विश्वा ।तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥

35उपाव सृज त्मन्या समञ्जन् देवानां पाथ ऽ ऋतुथा हवीꣳषि ।वनस्पतिः शमिता देवो ऽ अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥

36सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः ।अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतꣳ हविर् अदन्तु देवाः ॥

37केतुं कृण्वन्न् अकेतवे पेशो मर्या ऽ अपेशसे ।सम् उषद्भिर् अजायथाः ॥

38जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे ।अनाविद्धया तन्वा जय त्वꣳ स त्वा वर्मणो महिमा पिपर्तु ॥

39धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥

40वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं प्रियꣳ सखायं परिषस्वजाना ।योषेव शिङ्क्ते वितताधि धन्वन् ज्या इयꣳ समने पारयन्ती ॥

41ते ऽ आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे ।अप शत्रून् विध्यताꣳ संविदाने ऽ आर्त्नी इमे विष्फुरन्ती ऽ अमित्रान् ॥

42बह्वीनां पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य ।इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥

43रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः ।अभीशूनां महिमानं पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥

44तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः ।अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूꣳ१ऽ रनपव्ययन्तः ॥

45रथवाहनꣳ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म ।तत्रा रथम् उप शग्मꣳ सदेम विश्वाहा वयꣳ सुमनस्यमानाः ॥

46स्वादुषꣳसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।चित्रसेना ऽ इषुबला ऽ अमृध्राः सतोवीरा ऽ उरवो व्रातसाहाः ॥

47ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी ऽ अनेहसा ।पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो ऽ अघशꣳस ऽ ईशत ॥

48सुपर्णं वस्ते मृगो ऽ अस्या दन्तो गोभिः संनद्धा पतति प्रसूता ।यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यꣳसन् ॥

49ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः ।सोमो ऽ अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥

50आ जङ्घन्ति सान्व् एषां जघनाꣳ२ऽ उप जिघ्नते ।अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय ॥

51अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिं परिबाधमानः ।हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाꣳसं परि पातु विश्वतः ॥

52वनस्पते वीड्वङ्गो हि भूया ऽ अस्मत्सखा प्रतरणः सुवीरः ।गोभिः संनद्धो ऽ असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥

53दिवः पृथिव्याः पर्य् ओज ऽ उद्भृतं वनस्पतिभ्यः पर्य् आभृतꣳ सहः ।अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रꣳ हविषा रथं यज ॥

54इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥

55उप श्वासय पृथिवीम् उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो ऽ अप सेध शत्रून् ॥

56आ क्रन्दय बलम् ओजो न ऽ आ धा नि ष्टनिहि दुरिता बाधमानः ।अप प्रोथ दुन्दुभे दुच्छुना ऽ इत ऽ इन्द्रस्य मुष्टिर् असि वीडयस्व ॥

57आमूर् अज प्रत्या वर्तयेमाः केतुमद् दुन्दुभिर् वावदीति ।सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥

58आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऽ ऐन्द्रो ऽरुणो मारुतः कल्माष ऽ ऐन्द्राग्नः सꣳहितो ऽधोरामः सावित्रो वारुणः कृष्ण ऽ एकशितिपात् पेत्वः ॥

59अग्नये ऽनीकवते रोहिताञ्जिर् अनड्वान् अधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशंगौ तूपरु मारुतः कल्माष ऽ आग्नेयः कृष्णो ऽजः सारस्वती मेषी वारुणः पेत्वः ॥

60अग्नये गायत्राय त्रिवृते राथन्तरायाष्टाकपाल ऽ इन्द्राय त्रैष्टुभाय पञ्चदशाय बर्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालो मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविꣳशाभ्यां वैराजाभ्यां पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्र ऽ औष्णिहाय त्रयस्त्रिꣳशाय रैवताय द्वादशकपालः प्राजापत्यश् चरुर् अदित्यै विष्णुपत्न्यै चरुर् अग्नये वैश्वानराय द्वादशकपालो ऽनुमत्या ऽ अष्टाकपालः ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः २८अध्यायः ३०

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras