शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः २७
Ask AI1समास् त्वाग्न ऽ ऋतवो वर्धयन्तु संवत्सरा ऽ ऋषयो यानि सत्या ।सं दिव्येन दीदिहि रोचनेन विश्वा ऽ आ भाहि प्रदिशश् चतस्रः ॥
2सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय ।मा च रिषद् उपसत्ता ते ऽ अग्ने ब्रह्माणस् ते यशसः सन्तु मा ऽन्ये ॥
3त्वाम् अग्ने वृणते ब्राह्मणा ऽ इमे शिवो ऽ अग्ने संवरणे भवा नः ।सपत्नहा नो ऽ अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥
4इहैवाग्ने ऽ अधि धारया रयिं मा त्वा नि क्रन् पूर्वचितो निकारिणः ।क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते ऽ अनिष्टृतः ॥
5क्षत्रेणाग्ने स्वायुः सꣳ रभस्व मित्रेणाग्ने मित्रधेये यतस्व ।सजातानां मध्यमस्था ऽ एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥
6अति निहो ऽ अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने ।विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यꣳ सहवीराꣳ रयिं दाः ॥
7अनाधृष्यो जातवेदा ऽ अनाधृष्टो विराड् अग्ने क्षत्रभृद् दीदिहीह ।विश्वा ऽ आशाः प्रमुञ्चन् मानुषीर् भयः शिवेभिर् अद्य परि पाहि नो वृधे ॥
8बृहस्पते सवितर् बोधयैनꣳ सꣳशितं चित् संतराꣳ सꣳ शिशाधि ।वर्धयैनं महते सौभगाय विश्व ऽ एनम् अनु मदन्तु देवाः ॥
9अमुत्रभूयादध यद् यमस्य बृहस्पते ऽ अभिशस्तेर् अमुञ्चः ।प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥
10उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
11ऊर्ध्वा ऽ अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीꣳष्य् अग्नेः ।द्युमत्तमा सुप्रतीकस्य सूनोः ॥
12तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः ।पथो अनक्तु मध्वा घृतेन ॥
13मध्वा यज्ञं नक्षसे प्रीणानो नराशꣳसो ऽ अग्ने ।सुकृद् देवः सविता विश्ववारः ॥
14अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा ।अग्निꣳ स्रुचो ऽ अध्वरेषु प्रयत्सु ॥
15स यक्षद् अस्य महिमानम् अग्नेः स ऽ ईं मन्द्रा सुप्रयसः ।वसुश्चेतिष्ठो वसुधातमश् च ॥
16द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते ऽ अग्नेः ।उरुव्यचसो धाम्ना पत्यमानाः ॥
17ते ऽ अस्य योषणे दिव्ये न योना ऽ उषासानक्ता ।इमं यज्ञम् अवताम् अध्वरं नः ॥
18दैव्या होतारा ऽ ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् ।कृणुतम् नः स्विष्टम् ॥
19तिस्रो देवीर् बर्हिर् इदꣳ सदन्त्व् इडा सरस्वती भारती ।मही गृणाना ॥
20तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टा सुवीर्यम् ।रायस्पोषं वि ष्यतु नाभिम् अस्मे ॥
21वनस्पते ऽव सृजा रराणस् त्मना देवेषु ।अग्निर् हव्यꣳ शमिता सूदयाति ॥
22अग्ने स्वाहा कृणुहि जातवेदो ऽ इन्द्राय हव्यम् ।विश्वे देवा हविर् इदं जुषन्ताम् ॥
23पीवो ऽ अन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः ।ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥
24राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।अध वायुं नियुतः सश्चत स्वा ऽ उत श्वेतं वसुधितिं निरेके ॥
25आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् ।ततो देवानाꣳ सम् अवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥
26यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् ।यो देवेष्व् अधि देव ऽ एक ऽ आसीत् कस्मै देवाय हविषा विधेम ॥
27प्र याभिर् यासि दाश्वाꣳसम् अच्छा नियुद्भिर् वायविष्टये दुरोणे ।नि नो रयिꣳ सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥
28आ नो नियुद्भिः शतिनीभिर् अध्वरꣳ सहस्रिणीभिर् उप याहि यज्ञम् ।वायो ऽ अस्मिन् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥
29नियुत्वान् वायवा गह्य् अयꣳ शुक्रो अयामि ते ।गन्तासि सुन्वतो गृहम् ॥
30वायो शुक्रो ऽ अयामि ते मध्वो ऽ अग्रं दिविष्टिषु ।आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥
31वायुर् अग्रेगा यज्ञप्रीः साकं गन् मनसा यज्ञम् ।शिवो नियुद्भिः शिवाभिः ॥
32वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि ।नियुत्वान्त् सोमपीतये ॥
33एकया च दशभिश् च स्वभूते द्वाभ्याम् इष्टये विꣳशती च ।तिसृभिश् च वहसे त्रिꣳशता च नियुद्भिर् वायव् इह ता वि मुञ्च ॥
34तव वायवृतस्पते त्वष्टुर् जामातर् अद्भुत ।अवाꣳस्य् आ वृणीमहे ॥
35अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ।ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥
36न त्वावाꣳ२ऽ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥
37त्वाम् इद्धि हवामहे साता वाजस्य कारवः ।त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
38स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो ऽ अद्रिवः ।गाम् अश्वꣳ रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥
39कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा ।कया शचिष्ठया वृता ॥
40कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः ।दृढा चिद् आरुजे वसु ॥
41अभी षु णः सखीनाम् अविता जरितॄणाम् ।शतं भवास्य् ऊतये ॥
42यज्ञा-यज्ञा वो ऽ अग्नये गिरा-गिरा च दक्षसे ।प्र-प्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शꣳसिषम् ॥
43पाहि नो ऽ अग्न ऽ एकया पाह्य् उत द्वितीयया ।पाहि गीर्भिस् तिसृभिर् ऊर्जां पते पाहि चतसृभिर् वसो ॥
44ऊर्जो नपातꣳ स हिनायम् अस्मयुर् दाशेम हव्यदातये ।भुवद् वाजेष्व् अविता भुवद् वृध ऽ उत त्राता तनूनाम् ॥
45संवत्सरो ऽसि परिवत्सरोऽसीदावत्सरो ऽसीद्वत्सरो ऽसि वत्सरो ऽसि ।उषसस् ते कल्पन्ताम् अहोरात्रास् ते कल्पन्ताम् अर्धमासास् ते कल्पन्तां मासास् ते कल्पन्ताम् ऋतवस् ते कल्पन्ताꣳ संवत्सरस् ते कल्पताम् ।प्रेत्या ऽ एत्यै सं चाञ्च प्र च सारय ।सुपर्णचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवः सीद ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.