शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः २६
Ask AI1अग्निश् च पृथिवी च संनते ते मे सं नमताम् अदः ।वायुश् चाऽन्तरिक्षं च संनते ते मे सं नमताम् अदः ।ऽ आदित्यश् च द्यौश् च संनते ते मे सं नमताम् अदः ।ऽ आपश् च वरुणश् च संनते ते मे सं नमताम् अदः ।सप्त सꣳसदो ऽ अष्टमी भूतसाधनी ।सकामाꣳ२ऽ अध्वनस् कुरु संज्ञानम् अस्तु मे ऽमुना ॥
2यथेमां वाचं कल्याणीम् आवदानि जनेभ्यः ।ब्रह्मराजन्याभ्याꣳ शूद्राय चार्याय च स्वाय चारणाय ।प्रियो देवानां दक्षिणायै दातुर् इह भूयासम् अयं मे कामः सम् ऋध्यताम् उप मादो नमतु ॥
3बृहस्पते ऽ अति यद् अर्यो ऽ अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु ।यद् दीदयच्छवस ऽ ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ।उपयामगृहीतो ऽसि बृहस्पतये त्वा ।एष ते योनिर् बृहस्पतये त्वा ॥
4इन्द्र गोमन्न् इहा याहि पिबा सोमꣳ शतक्रतो ।विद्यद्भिर् ग्रावभिः सुतम् ।उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥
5इन्द्रा याहि वृत्रहन् पिबा सोमꣳ शतक्रतो ।गोमद्भिर् ग्रावभिः सुतम् ।उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥
6ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् ।अजस्रं घर्मम् ईमहे ।उपयामगृहीतो ऽसि वैश्वानराय त्वा ।एष ते योनिर् वैश्वानराय त्वा ॥
7वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम् अभिश्रीः ।इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ।उपयामगृहीतो ऽसि वैश्वानराय त्वा ।एष ते योनिर् वैश्वानराय त्वा ॥
8वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।अग्निर् उक्थेन वाहसा ।उपयामगृहीतो ऽसि वैश्वानराय त्वा ।एष ते योनिर् वैश्वानराय त्वा ॥
9अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।तम् ईमहे महागयम् ।उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे ।ऽ एष ते योनिर् अग्नये त्वा वर्चसे ॥
10महाꣳ२ऽ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु ।हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ।उपयामगृहीतो ऽसि महेन्द्राय त्वा ।एष ते योनिर् महेन्द्राय त्वा ॥
11तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः ।अभि वत्सं न स्वसरेषु धेनव ऽ इन्द्रं गीर्भिर् नवामहे ॥
12यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो ।महिषीव त्वद् रयिस् त्वद् वाजा ऽ उद् ईरते ॥
13एह्य् ऊ षु ब्रवाणि ते ऽग्न ऽ इत्थेतरा गिरः ।एभिर् वर्धास ऽ इन्दुभिः ॥
14ऋतवस् ते यज्ञं वि तन्वन्तु मासा रक्षन्तु ते हविः ।संवत्सरस् ते यज्ञं दधातु नः प्रजां च परि पातु नः ॥
15उपह्वरे गिरीणाꣳ संगमे च नदीनाम् ।धिया विप्रो ऽ अजायत ॥
16उच्चा ते जातम् अन्धसो दिवि सद् भूम्य् आ ददे ।उग्रꣳ शर्म महि श्रवः ॥
17स न ऽ इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।वरिवोवित् परि स्रव ॥
18एना विश्वान्य् अर्य ऽ आ द्युम्नानि मानुषाणाम् ।सिषासन्तो वनामहे ॥
19अनु वीरैर् अनु पुष्यास्म गोभिर् अन्व् अश्वैर् अनु सर्वेण पुष्टैः ।अनु द्विपदानु चतुष्पदा वयं देवा नो यज्ञम् ऋतुथा नयन्तु ॥
20अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप ।त्वष्टारꣳ सोमपीतये ॥
21अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऽ ऋतुना ।त्वꣳ हि रत्नधा ऽ असि ॥
22द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।नेष्ट्राद् ऋतुभिर् इष्यत ॥
23तवायꣳ सोमस् त्वम् एह्य् अर्वाङ्छश्वत्तमꣳ सुमना ऽ अस्य पाहि ।अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर ऽ इन्दुम् इन्द्र ॥
24अमेव नः सुहवा ऽ आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।अथा मन्दस्व जुजुषाणो ऽ अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥
25स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।इन्द्राय पातवे सुतः ॥
26रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् ।द्रुणा(द्रोणे) सधस्थम् आसदत् ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.