शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः २
Ask AIWhat is Adhyaya 2 of the Yajurveda about?
The new- and full-moon sacrifices continue; the last kandikas (2.29–34) are for the pinda-pitri-yajna, the offering of rice balls to the Fathers.
1कृष्णोऽस्य् आखरेष्ठो ऽग्नये त्वा जुष्टं प्रोक्षामि ।वेदिर् असि बर्हिषे त्वा जुष्टां प्रोक्षामि ।बर्हिर् असि स्रुग्भ्यस् त्वा जुष्टं प्रोक्षामि ॥
2अदित्यै व्युन्दनम् असि ।विष्णो स्तुपो ऽसि ।ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्यः ।भुवपतये स्वाहा ।भुवनपतये स्वाहा ।भूतानां पतये स्वाहा ॥
3गन्धर्वस् त्वा विश्वावसुः परि दधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽīडितः ।इन्द्रस्य बाहुर् असि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः ।मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः ॥
4वीतिहोत्रं त्वा कवे द्युमन्तꣳ सम् इधीमहि ।अग्ने बृहन्तम् अध्वरे ॥
5समिद् असि ।सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्यै ।सवितुर् बाहू स्थः ।ऽ ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः ।ऽ आ त्वा वसवो रुद्रा ऽ आदित्याः सदन्तु ॥
6घृताच्य् असि जुहूर् नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सद ऽ आ सीद ।घृताच्य् अस्य् उपभृन् नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सद ऽ आ सीद ।घृताच्य् असि ध्रुवा नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सदऽ आ सीद ।प्रियेण धाम्ना प्रियꣳ सद ऽआ सीद ।ध्रुवा ऽ असदन्न् ऋतस्य योनौ ता विष्णो पाहि ।पाहि यज्ञं ।पाहि यज्ञपतिम् ।पाहि मां यज्ञन्यम् ॥
7अग्ने वाजजिद् वाजं त्वा सरिष्यन्तं वाजजितꣳ सं मार्ज्मि ।नमो देवेभ्यः ।स्वधा पितृभ्यः ।सुयमे मे भूयास्तम् ॥
8अस्कन्नम् अद्य देवेभ्यऽ आज्यꣳ सं भ्रियासम् ।अङ्घ्रिणा विष्णो मा त्वाव क्रमिषम् ।वसुमतीम् अग्ने ते छायाम् उप स्थेषं विष्णो स्थानम् असि ।इत ऽ इन्द्रो वीर्यम् अकृणोद् ऊर्ध्वो ध्वर ऽआस्थात् ॥
9अग्ने वेर् होत्रं वेर् दूत्यम् ।अवतां त्वां द्यावापृथिवी ।ऽअव त्वं द्यावापृथिवी स्विष्टकृद् देवेभ्यो इन्द्रऽ आज्येन हविषा भूत् स्वाहा ।सं ज्योतिषा ज्योतिः ॥
10मयीदम् इन्द्र ऽइन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।अस्माकꣳ सन्त्व् आशिषः सत्या नः सन्त्व् आशिषः ।ऽउपहूता पृथिवी मातोप मां पृथिवी माता ह्वयताम् ।अग्निर् आग्नीध्रात् स्वाहा ॥
11उपहूतो द्यौष् पितोप मां द्यौष् पिता ह्वयताम् अग्निर् आग्नीध्रात् स्वाहा ।देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।प्रति गृह्णामि ।अग्नेष् ट्वास्येन प्राश्नामि ॥
12एतं ते देव सवितर् यज्ञं प्राहुर् बृहस्पतये ब्रह्मणे ।तेन यज्ञम् अव तेन यज्ञपतिं तेन माम् अव ॥
13मनो जूतिर् जुषताम् आज्यस्य बृहस्पतिर् यज्ञम् इमं तनोतु ।अरिष्टं यज्ञꣳ सम् इमं दधातु विश्वे देवासऽ इह मादयन्ताम् ओ3ं प्र तिष्ठ ॥
14एषा तेऽ अग्ने समित् तया वर्धस्व चा च प्यायस्व ।वर्धिषीमहि च वयम् आ च प्यासिषीमहि ।अग्ने वाजजिद् वाजं त्वा ससृवाꣳसं वाजजितꣳ सं मार्ज्मि ॥
15अग्नीषोमयोर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि ।अग्नीषोमौ तम् अपनुदतां योऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि ।इन्द्राग्न्योर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि ।इन्द्राग्नी तम् अप नुदतां यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि ॥
16वसुभ्यस् त्वा ।रुद्रेभ्यस् त्वा ।आदित्येभ्यस् त्वा ।सं जानाथां द्यावापृथिवी ।मित्रावरुणौ त्वा वृष्ट्यावताम् ।व्यन्तु वयो क्तꣳ रिहाणाः ।मरुतां पृषतीर् गच्छ वशा पृश्निर् भूत्वा दिवं गच्छ ततो नो वृष्टिम् आ वह ।चक्षुष्पा ऽअग्ने ऽसि चक्षुर् मे पाहि ॥
17यं परिधिं पर्यधत्थाऽ अग्ने देव पणिभिर् गुह्यमानः ।तं तऽ एतम् अनु जोषं भराम्य् नेत् त्वद् अपचेतयातै ।ऽअग्नेः प्रियं पाथोऽपीतम् ॥
18सꣳस्रवभागा स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश् च देवाः ।इमां वाचम् अभि विश्वे गृणन्त ऽआसद्यास्मिन् बर्हिषि मादयध्वम् ।स्वाहा वाट् ॥
19घृताची स्थो धुर्यौ पातꣳ सुम्ने स्थः सुम्ने मा धत्तम् ।यज्ञ नमश् च तऽ उप च यज्ञस्य शिवे सं तिष्ठस्व स्विष्टे मे संतिष्ठस्व ॥
20अग्नेऽ दब्धायो ऽशीतम पाहि मा दिद्योः ।पाहि प्रसित्यै ।पाहि दुरिष्ट्यै ।पाहि दुरद्मन्याऽ अविषं नः पितुं कृणु ।सुषदा योनौ स्वाहा वाट् ।अग्नये संवेशपतये स्वाहा ।सरस्वत्यै यशोभगिन्यै स्वाहा ॥
21वेदो ऽसि येन त्वं देव वेद देवेभ्यो वेदोऽ भवस् तेन मह्यं वेदो भूयाः ।देवा गातुविदो गातुं वित्त्वा गातुम् इत ।मनसस् पतऽ इमं देव यज्ञꣳ स्वाहा वाते धाः ॥
22सं बर्हिर् अङ्क्ताꣳ हविषा घृतेन सम् आदित्यैर् वसुभिः सं मरुद्भिः ।सम् इन्द्रो विश्वदेवेभिर् अङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा ॥
23कस् त्वा वि मुञ्चति स त्वा वि मुञ्चति कस्मै त्वा वि मुञ्चति तस्मै त्वा वि मुञ्चति ।पोषाय ।रक्षसां भागो ऽसि ॥
24सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन ।त्वष्टा सुदत्रो वि दधातु रायोऽ नुमार्ष्टु तन्वो यद् विलिष्टम् ॥
25दिवि विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।अन्तरिक्षे विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो योऽ स्मान् द्वेष्टि यं च वयं द्विष्मः ।पृथिव्यां विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।अस्माद् ऽअन्नादस्यै प्रतिष्ठायै ।ऽ अगन्म स्वः ।सं ज्योतिषाभूम ॥
26स्वयम्भूर् असि श्रेष्ठो रश्मिर् ऽवर्चोदा असि वर्चो मे देहि ।सूर्यस्यावृतम् अन्व् आवर्ते ॥
27अग्ने गृहपते सुगृहपतिस् त्वयाऽग्ने ऽहं गृहपतिना भूयासꣳ सुगृहपतिस् त्वं मयाऽग्ने गृहपतिना भूयाः ।अस्थूरि णौ गार्हपत्यानि सन्तु शतꣳ हिमाः ।सूर्यस्यावृतम् अन्व् आवर्ते ॥
28अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मेऽ राधि ।इदम् अहं यऽ एवाऽस्मि सोऽस्मि ॥
29अग्नये कव्यवाहनाय स्वाहा ।सोमाय पितृमते स्वाहा ।अपहता ऽ असुरा रक्षाꣳसि वेदिषदः ॥
30ये रूपाणि प्रतिमुञ्चमाना ऽ असुराः सन्तः स्वधया चरन्ति ।परापुरो निपुरो ये भरन्त्य् अग्निष्टाँन् लोकात् प्र णुदात्य् अस्मात् ॥
31अत्र पितरो मादयध्वं यथाभागम् आ वृषायध्वम् ।अमीमदन्त पितरो यथाभागम् आ वृषायिषत ॥
32नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः पितरो देष्मैतद्वः पितरो वासः॥
33आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् ।यथेह पुरुषो ऽसत् ॥
34ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् ।स्वधा स्थ तर्पयत मे पितॄन् ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.