शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः १
Ask AIWhat is Adhyaya 1 of the Yajurveda about?
The mantras of the new- and full-moon sacrifices (darsha-purnamasa). The Shukla Yajurveda opens here with “Ishe tva, urje tva”, “for food thee, for strength thee”.
1इषे त्वा ऊर्जे त्वा ।वायव स्थ ।देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणऽ आ प्यायध्वम् अघ्न्या ऽइन्द्राय भागं प्रजावतीर् अनमीवा ऽअयक्ष्मा मा व स्तेनऽ ईशत माघशꣳसो ध्रुवा ऽअस्मिन् गोपतौ स्यात बह्वीः ।यजमानस्य पशून् पाहि ॥
2वसोः पवित्रम् असि ।द्यौर् असि पृथिव्यसि ।मातरिश्वनो ऽघर्मो सि विश्वधा ऽअसि परमेण धाम्ना दृꣳहस्व मा ह्वार् मा ते यज्ञपतिर् ह्वार्षीत् ॥
3वसोः पवित्रम् असि शतधारं वसोः पवित्रम् असि सहस्रधारम् ।देवस् त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा ।काम् अधुक्षः ॥
4सा विश्वायुः ।सा विश्वकर्मा ।सा विश्वधायाः ।इन्द्रस्य त्वा भागꣳ सोमेना तनच्मि ।विष्णो हव्यꣳ रक्ष ॥
5अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् ।इदम् अहम् अनृतात् सत्यम् उपैमि ॥
6कस् त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति ।कर्मणे वां वेषाय वाम् ॥
7प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः ।निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः ।उर्व् अन्तरिक्षम् अन्व् एमि ॥
8धूर् असि धूर्व धूर्वन्तं धूर्व तं योऽ स्मान् धूर्वति तं धूर्व यं वयं धूर्वामः ।देवानाम् असि वह्नितमꣳ सम्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥
9अह्रुतम् असि हविर्धानं दृꣳहस्व मा ह्वार् मा यज्ञपतिर् ह्वार्षीत् ।विष्णुस् त्वा क्रमताम् ।उरु वाताय ।अपहतꣳ रक्षः ।यच्छन्तां पञ्च ॥
10देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।अग्नये जुष्टं गृह्णामि ।अग्नीषोमाभ्यां जुष्टं गृह्णामि ॥
11भूताय त्वा नारातये ।स्वर् अभिवि ख्येषम् ।दृꣳहन्तां दुर्याः पृथिव्याम् ।उर्व् अन्तरिक्षम् अन्व् एमि ।पृथिव्यास् त्वा नाभौ सादयाम्य् अदित्या ऽउपस्थेऽ ग्ने हव्यꣳ रक्ष ॥
12पवित्रे स्थो वैष्णव्यौ ।सवितुर् वः प्रसव उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।देवीर् आपो अग्रेगुवोऽ अग्रेपुवोऽग्र इमम् अद्य यज्ञं नयताग्रे यज्ञपतिꣳ सुधातुं यज्ञपतिं देवयुवम् ॥
13युष्मा ऽ इन्द्रोऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये ।प्रोक्षिता स्थ ।अग्नये त्वा जुष्टं प्रोक्षामि ।अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ।दैव्याय कर्मणे शुन्धध्वं देवयज्यायै यद् वोऽशुद्धाः पराजघ्नुर् इदं वस् तच् छुन्धामि ॥
14शर्मासि ।अवधूतꣳ रक्षोऽवधूता ऽ अरातयः ।ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।अद्रिर् असि वानस्पत्यः ।ग्रावासि पृथुबुध्नः प्रति त्वादित्यास् त्वग् वेत्तु ॥
15अग्नेस् तनूर् असि वाचो विसर्जनं देववीतये त्वा गृह्णामि ।बृहद्ग्रावासि वानस्पत्यः ।सऽइदं देवेभ्यो हविः शमीष्व सुशमि शमीष्व ।हविष्कृद् एहि हविष्कृद् एहि हविष्कृद् एहि ॥
16कुक्कुटोऽसि मधुजिह्वऽइषमूर्जम् आ वद त्वया वयꣳ संघातꣳ-संघातं जेष्म ।वर्षवृद्धम् असि ।प्रति त्वा वर्षवृद्धं वेत्तु ।परापूतꣳ रक्षः परापूता अरातयः ।ऽअपहतꣳ रक्षः ।वायुर् वो वि विनक्तु ।देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ॥
17धृष्टिर् असि ।अपाऽग्ने ऽ अग्निम् आमादं जहि निष् क्रव्यादꣳ सेध ।आ देवयजं वह ।ध्रुवम् असि पृथिवीं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ॥
18अग्ने ब्रह्म गृभ्णीष्व ।धरुणम् अस्य् अन्तरिक्षं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।धर्त्रम् असि दिवं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।विश्वाभ्यस् त्वाशाभ्यऽ उप दधामि ।चित स्थोर्ध्वचितः ।भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् ॥
19शर्मासि ।अवधूतꣳ रक्षोऽवधूता ऽ अरातयः ।ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।धिषणासि पर्वती प्रति त्वादित्यास् त्वग् वेत्तु ।दिव स्कम्भनीर् असि ।धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु ॥
20धान्यम् असि धिनुहि देवान् ।प्राणाय त्वा ।उदानाय त्वा ।व्यानाय त्वा ।दीर्घाम् अनु प्रसितिम् आयुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ।चक्षुषे त्वा ।महीनां पयोऽसि ॥
21देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।सं वपामि ।सम् आपऽओषधीभिः सम् ओषधयो रसेन ।सꣳ रेवतीर् जगतीभिः पृच्यन्ताꣳ सं मधुमतीर् मधुमतीभिः पृच्यन्ताम् ॥
22जनयत्यै त्वा सं यौमि ।इदम् अग्नेः ।इदम् अग्नीषोमयोः ।इषे त्वा ।घर्मोऽसि विश्वायुः ।उरुप्रथाऽ उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।अग्निष्टे त्वचं मा हिꣳसीत् ।देवस् त्वा सविता श्रपयतु वर्षिष्ठेऽधि नाके ॥
23मा भेर् मा संविक्थाः ।ऽ अतमेरुर् यज्ञो ऽतमेरुर् यजमानस्य प्रजा भूयात् ।त्रिताय त्वा ।द्विताय त्वा ।एकताय त्वा ॥
24देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।आ ददे ऽध्वरकृतं देवेभ्यः ।ऽइन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुर् असि तिग्मतेजा द्विषतो वधः ॥
25पृथिवि देवयजन्य् ओषध्यास् ते मूलं मा हिꣳसिषम् ।व्रजं गच्छ गोष्ठानम् ।वर्षतु ते द्यौः ।बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् यो स्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥
26अपाररुं पृथिव्यै देवयजनाद् वध्यासम् ।व्रजं गच्छ गोष्ठानम् ।वर्षतु ते द्यौः ।बधान देव सवितः परमस्यां पृथिव्या शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।अररो दिवं मा पप्तः ।द्रप्सस् ते द्यां मा स्कन् ।व्रजं गच्छ गोष्ठानम् ।वर्षतु ते द्यौः ।बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥
27गायत्रेण त्वा छन्दसा परि गृह्णामि ।त्रैष्टुभेन त्वा छन्दसा परि गृह्णामि ।जागतेन त्वा छन्दसा परि गृह्णामि ।सुक्ष्मा चासि शिवा चासि ।स्योना चासि सुषदा चासि ।ऊर्जस्वती चासि पयस्वती च ॥
28पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीवदानुम् ।याम् ऐरयꣳश् चन्द्रमसि स्वधाभिस् ताम् उ धीरासो ऽअनुदिश्य यजन्ते ।प्रोक्षणीर् आ सादय ।द्विषतो वधोऽ सि ॥
29प्रत्युष्टꣳ रक्षः प्रत्युष्टा ऽअरातयः ।निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः ।अनिशितोऽ सि सपत्नक्षिद् वाजिनं त्वा वाजेध्यायै सं मार्ज्मि ।प्रत्युष्टꣳ रक्षः प्रत्युष्टाऽ अरातयः ।निष्टप्तꣳ रक्षो निष्टप्ताऽ अरातयः ।अनिशिताऽसि सपत्नक्षिद् वाजिनीं त्वा वाजेध्यायै सं मार्ज्मि ॥
30अदित्यै रास्नासि ।विष्णोर् वेष्यो सि ।ऊर्जे त्वा ।ऽअदब्धेन त्वा चक्षुषाव पश्यामि ।अग्नेर् जिह्वासि सुहूर् देवेभ्यो धाम्ने-धाम्ने मे भव यजुषे-यजुषे ॥
31सवितुस् त्वा प्रसवऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।तेजो ऽसि शुक्रम् अस्य् अमृतम् असि ।धाम नामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् असि ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.