शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः ३
Ask AIWhat is Adhyaya 3 of the Yajurveda about?
Setting up the sacred fires (agnyadhana), the daily agnihotra, worship at the fire and the seasonal sacrifices (chaturmasya). It contains the Gayatri Mantra (3.35) and the Tryambakam or Mahamrityunjaya Mantra (3.60).
1समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।आस्मिन् हव्या जुहोतन ॥
2सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।अग्नये जातवेदसे ॥
3तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि ।बृहच्छोचा यविष्ठ्य ॥
4उप त्वाग्ने हविष्मतीर् घृताचीर् यन्तु हर्यत ।जुषस्व समिधो मम ॥
5भूर् भुवः स्वः ।द्यौर् इव भूम्ना पृथिवीव वरिम्णा ।तस्यास् ते पृथिवि देवयजनि पृष्ठेऽ ग्निम् अन्नादम् अन्नाद्याया दधे ॥
6आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः ।पितरं च प्रयन्त्स्वः ॥
7अन्तश् चरति रोचनास्य प्राणाद् अपानती ।व्यख्यन् महिषो दिवम् ॥
8त्रिꣳशद् धाम वि राजति वाक् पतङ्गाय धीयते ।प्रति वस्तोर् अह द्युभिः ॥
9अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ।सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा ।अग्निर् वर्चो ज्योतिर् वर्चः स्वाहा ।सूर्यो वर्चो ज्योतिर् वर्चः स्वाहा ।ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥
10सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या ।जुषाणो ऽअग्निर् वेतु स्वाहा ।सजूर् देवेन सवित्रा सजू उषसेन्द्रवत्या ।जुषाणः सूर्यो वेतु स्वाहा ॥
11उपप्रयन्तो ऽ अध्वरं मन्त्रं वोचेमाग्नये ।आरे ऽ अस्मे च शृण्वते ॥
12अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।अपाᳬं रेताᳬंसि जिन्वति ॥
13उभा वाम् इन्द्राग्नी ऽ आहुवध्या ऽ उभा राधसः सह मादयध्यै ।उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥
14अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥
15अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥
16अस्य प्रत्नाम् अनु द्युतꣳ शुक्रं दुदुह्रे ऽ अह्रयः ।पयः सहस्रसाम् ऋषिम् ॥
17तनूपा ऽ अग्ने ऽसि तन्वं मे पाहि ।आयुर्दा ऽ अग्नेऽ स्य् आयुर् मे देहि ।वर्चोदा ऽ अग्ने ऽसि वर्चो मे देहि ।अग्ने यन् मे तन्वा ऽ ऊनं तन् मऽ आ पृण ॥
18इन्धानास् त्वा शतꣳ हिमा द्युमन्तꣳ सम् इधीमहि ।वयस्वन्तो वयस्कृतꣳ सहस्वन्तः सहस्कृतम् ।अग्ने सपत्नदम्भनम् अदब्धासो ऽ अदाभ्यम् ।चित्रावसो स्वस्ति ते पारम् अशीय ॥
19सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणाᳬं स्तुतेन ।सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सꣳ रायस् पोषेण ग्मिषीय ॥
20अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रायस् पोष स्थ रायस् पोषं वो भक्षीय ॥
21रेवती रमध्वम् अस्मिन् योनाव् अस्मिन् गोष्ठे ऽस्मिंल् लोके स्मिन् क्षये ।इहैव स्त मापगात ॥
22सꣳहितासि विश्वरूप्य् ऊर्जा माविश गौपत्येन ।उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् ।नमो भरन्त ऽएमसि ॥
23राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।वर्धमाणꣳ स्वे दमे ॥
24स नः पितेव सूनवे ऽग्ने सूपायनो भव ।सचस्वा नः स्वस्तये ॥
25अग्ने त्वं नोऽ अन्तमऽ उत त्राता शिवो भवा वरूथ्यः ।वसुर् अग्निर् वसुश्रवाऽ अच्छानक्षि द्युमत्तमꣳ रयिं दाः ॥
26तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ।स नो बोधि श्रुधी हवम् उरुष्या णोऽ अघायतः समस्मात् ॥
27इडऽ एह्य् अदित ऽ एहि ।काम्या ऽ एत ।मयि वः कामधरणं भूयात् ॥
28सोमानꣳ स्वरणं कृणुहि ब्रह्मणस्पते ।कक्षीवन्तं य ऽ औशिजः ॥
29यो रेवान् यो ऽअमीवहा वसुवित् पुष्टिवर्धनः ।स नः सिषक्तु यस् तुरः ॥
30मा नः शꣳसोऽ अररुषो धूर्तिः प्र णङ् मर्त्यस्य ।रक्षा णो ब्रह्मणस्पते ॥
31महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः ।दुराधर्षं वरुणस्य ॥
32नहि तेषाम् अमा चन नाध्वसु वारणेषु ।ईशे रिपुर् अघशꣳसः ॥
33ते हि पुत्रासो ऽ अदितेः प्र जीवसे मर्त्याय ।ज्योतिर् यच्छन्त्य् अजस्रम् ॥
34कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ॥
35तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।धियो यो नः प्रचोदयत् ॥
36परि ते दूडभो रथोऽस्माꣳ अश्नोतु विश्वतः ।येन रक्षसि दाशुषः ॥
37भूर् भुवः स्वः सुप्रजाः प्रजाभि स्याꣳ सुवीरो वीरैः सुपोषः पोषैः ।नर्य प्रजां मे पाहि ।शꣳस्य पशून् मे पाहि ।अथर्य पितुं मे पाहि ॥
38आगन्म विश्ववेदसम् अस्मभ्यं वसुवित्तमम् ।अग्ने सम्राड् अभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥
39अयम् अग्निर् गृहपतिर् गार्हपत्यः प्रजाया वसुवित्तमः ।अग्ने गृहपते ऽभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥
40अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः ।अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥
41गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत ऽ एमसि ।ऊर्जं बिभ्रद् वः सुमनाः सुमेधा गृहान् ऐमि मनसा मोदमानः ॥
42येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः ।गृहान् उप ह्वयामहे ते नो जानन्तु जानतः ॥
43उपहूताऽ इह गावऽ उपहूताऽ अजावयः ।अथो ऽअन्नस्य कीलाल ऽउपहूतो गृहेषु नः ।क्षेमाय वः शान्त्यै प्र पद्ये शिवꣳ शग्मꣳ शंयोः शंयोः ॥
44प्रघासिनो हवामहे मरुतश् च रिशादसः ।करम्भेण सजोषसः ॥
45यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।यद् एनश् चकृमा वयम् इदं तद् अव यजामहे स्वाहा ॥
46मो षू ण ऽ इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः ।महश् चिद् यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
47अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा ।देवेभ्यः कर्म कृत्वास्तं प्रेत सचाभुवः ॥
48अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।अव देवैर् देवकृतम् एनो यासिषम् अव मर्त्यैर् मर्त्यकृतम् ।पुरुराव्णो देव रिषस् पाहि ॥
49पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत ।वस्नेव वि क्रीणावहाऽ इषमूर्जꣳ शतक्रतो ॥
50देहि मे ददामि ते नि मे धेहि नि ते दधे ।निहारं च हरासि मे निहारं निहराणि ते स्वाहा ॥
51अक्षन्न् अमीमदन्त ह्य् अव प्रियाऽ अधूषत ।अस्तोषत स्वभानवो विप्रा निविष्ठया मती योजा न्विन्द्र ते हरी ॥
52सुसंदृशं त्वा वयं मघवन् वन्दिषीमहि ।प्र नूनं पूर्णबन्धुर स्तुतो यासि वशाꣳ2ऽ अनु योजा न्विन्द्र ते हरी ॥
53मनो न्व् आह्वामहे नाराशꣳसेन स्तोमेन ।पितॄणां च मन्मभिः ॥
54आ न ऽएतु मनः पुनः क्रत्वे दक्षाय हविषे ।ज्योक् च सूर्यं दृशे ॥
55पुनर् नः पितरो मनो ददातु दैव्यो जनः ।जीवं व्रातꣳ सचेमहि ॥
56वयꣳ सोम व्रते तव मनस् तनूषु बिभ्रतः ।प्रजावन्तः सचेमहि ॥
57एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा ।एष ते रुद्र भागऽ आखुस् ते पशुः ॥
58अव रुद्रमद् ईमह्य् अव देवं त्र्यम्बकम् ।यथा नो वस्यसस् करद् यद् यथा नः श्रेयसस् करद् यद् यथा नो व्यवसाययात् ॥
59भेषजम् असि भेषजं गवेऽश्वाय पुरुषाय भेषजम् ।सुखं मेषाय मेष्यै ॥
60त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय माऽमृतात् ।त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् ।उर्वारुकम् इव बन्धनाद् इतो मुक्षीय मामुतः ॥
61एतत् ते रुद्रावसं तेन परो मूजवतोऽ तीहि ।अवततधन्वा पिनाकावसः कृत्तिवासाऽ अहिꣳसन् नः शिवोऽतीहि ॥
62त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।यद् देवेषु त्र्यायुषं तन् नो ऽअस्तु त्र्यायुषम् ॥
63शिवो नामासि स्वधितिस् ते पिता नमस् ते ऽअस्तु मा मा हिꣳसीः ।नि वर्तयाम्य् उषेऽन्नाद्याय प्रजननाय रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.