शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः १९
Ask AIWhat is Adhyaya 19 of the Yajurveda about?
The Sautramani, an offering to Indra the good protector (sutraman), with the Ashvins and Sarasvati, which runs to adhyaya 21. It includes offerings and hymns to the Fathers (19.36–70).
1स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन ।मधुमतीं मधुमता सृजामि सꣳ सोमेन ।सोमोऽसि ।अश्विभ्यां पच्यस्व ।सरस्वत्यै पच्यस्व ।इन्द्राय सुत्राम्णे पच्यस्व ॥
2परीतो षिञ्चता सुतꣳ सोमो य ऽ उत्तमꣳ हविः ।दधन्वान् यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥
3वायोः पूतः पवित्रेण प्रत्यङ्क् सोमो ऽ अतिद्रुतः ।इन्द्रस्य युज्यः सखा ।वायोः पूतः पवित्रेण प्राङ् सोमो ऽ अतिद्रुतः ।इन्द्रस्य युज्यः सखा ॥
4पुनाति ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता ।वारेण शश्वता तना ॥
5ब्रह्म क्षत्रं पवते तेज ऽ इन्द्रियꣳ सुरया सोमः सुत ऽ आसुतो मदाय ।शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥
6कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ।ऽ एष ते योनिस् तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥
7नाना हि वां देवहितꣳ सदस् कृतं मा सꣳ सृक्षाथां परमे व्योमन् ।सुरा त्वम् असि शुष्मिणी सोम ऽ एष मा मा हिꣳसीः स्वां योनिम् आविशन्ती ॥
8उपयामगृहीतो ऽस्य् आश्विनं तेजः सारस्वतं वीर्यम् ऐन्द्रं बलम् ।एष ते योनिर् मोदाय त्वानन्दाय त्वा महसे त्वा ॥
9तेजो ऽसि तेजो मयि धेहि ।वीर्यम् असि वीर्यं मयि धेहि ।बलम् असि बलं मयि धेहि ।ओजो ऽस्य् ओजो मयि धेहि ।मन्युर् असि मन्युं मयि धेहि ।सहो ऽसि सहो मयि धेहि ॥
10या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।श्येनं पतत्रिणꣳ सिꣳहꣳ सेमं पात्व् अꣳहसः ॥
11यद् आपिपेष मातरं पुत्रः प्रमुदितो धयन् ।एतत् तद् अग्ने ऽ अनृणो भवाम्य् अहतौ पितरौ मया ।सम्पृच स्थ सं मा भद्रेण पृङ्क्त ।विपृच स्थ वि मा पाप्मना पृङ्क्त ॥
12देवा यज्ञम् अतन्वत भेषजं भिषजाश्विना ।वाचा सरस्वती भिषग् इन्द्रायेन्द्रियाणि दधतः ॥
13दीक्षायै रूपꣳ शष्पाणि प्रायणीयस्य तोक्मानि ।क्रयस्य रूपꣳ सोमस्य लाजाः सोमाꣳशवो मधु ॥
14आतिथ्यरूपं मासरं महावीरस्य नग्नहुः ।रूपम् उपसदाम् एतत् तिस्रो रात्रीः सुरासुता ॥
15सोमस्य रूप क्रीतस्य परिस्रुत् परि षिच्यते ।अश्विभ्यां दुग्धं भेषजम् इन्द्रायैन्द्रꣳ सरस्वत्या ॥
16आसन्दी रूपꣳ राजासन्द्यै वेद्यै कुम्भी सुराधानी ।अन्तर ऽ उत्तरवेद्या रूपं कारोतरो भिषक् ॥
17वेद्या वेदिः सम् आप्यते बर्हिषा बर्हिर् इन्द्रियम् ।यूपेन यूप ऽ आप्यते प्रणीतो ऽ अग्निर् अग्निना ॥
18हविर्धानं यद् अश्विनाग्नीध्रं यत् सरस्वती ।इन्द्रायैन्द्रꣳ सदस् कृतं पत्नीशालं गार्हपत्यः ॥
19प्रैषेभिः प्रैषान् आप्नोत्य् आप्रीभिर् आप्रीर् यज्ञस्य ।प्रयाजेभिर् अनुयाजान् वषट्कारेभिर् आहुतीः ॥
20पशुभिः पशून् आप्नोति पुरोडाशैर् हवीꣳष्य् आ ।छन्दोभिः सामिधेनीर् याज्याभिर् वषट्कारान् ॥
21धानाः करम्भः सक्तवः परीवापः पयो दधि ।सोमस्य रूपꣳ हविष आमिक्षा वाजिनं मधु ॥
22धानानाꣳ रूपं कुवलं परीवापस्य गोधूमाः ।सक्तूनाꣳ रूपं बदरम् उपवाकाः करम्भस्य ॥
23पयसो रूपं यद् यवा दध्नो रूपं कर्कन्धूनि ।सोमस्य रूपं वाजिनꣳ सौम्यस्य रूपम् आमिक्षा ॥
24आ श्रावयेति स्तोत्रियाः प्रत्याश्रावो ऽ अनुरूपः ।यजेति धाय्यारूपं प्रगाथा येयजामहाः ॥
25अर्धऽऋचैर् उक्थानाꣳ रूपं पदैर् आप्नोति निविदः ।प्रणवैः शस्त्राणाꣳ रूपं पयसा सोम आप्यते ॥
26अश्विभ्यां प्रातःसवनम् इन्द्रेणैन्द्रं माध्यन्दिनम् ।वैश्वदेवꣳ सरस्वत्या तृतीयम् आप्तꣳ सवनम् ॥
27वायव्यैर् वायव्यान् आप्नोति सतेन द्रोणकलशम् ।कुम्भीभ्याम् अम्भृणौ सुते स्थालीभि स्थालीर् आप्नोति ॥
28यजुर्भिर् आप्यन्ते ग्रहा ग्रहै स्तोमाश् च विष्टुतीः ।छन्दोभिर् उक्थाशस्त्राणि साम्नावभृथऽआप्यते ॥
29इडाभिर् भक्षान् आप्नोति सूक्तवाकेनाशिषः ।शंयुना पत्नीसंयाजान्त् समिष्टयजुषा सꣳस्थाम् ॥
30व्रतेन दीक्षाम् आप्नोति दीक्षयाप्नोति दक्षिणाम् ।दक्षिणा श्रद्धाम् आप्नोति श्रद्धया सत्यम् आप्यते ॥
31एतावद् रूपं यज्ञस्य यद् देवैर् ब्रह्मणा कृतम् ।तद् एतत् सर्वम् आप्नोति यज्ञे सौत्रामणी सुते ॥
32सुरावन्तं बर्हिषदꣳ सुवीरं यज्ञꣳ हिन्वन्ति महिषा नमोभिः ।दधानाः सोमं दिवि देवतासु मदेमेन्द्रं यजमानाः स्वर्काः ॥
33यस् ते रसः सम्भृत ऽ ओषधीषु सोमस्य शुष्मः सुरया सुतस्य ।तेन जिन्व यजमानं मदेन सरस्वतीम् अश्विनाव् इन्द्रम् अग्निम् ॥
34यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय ।इमं तꣳ शुक्रं मधुमन्तम् इन्दुꣳ सोमꣳ राजानम् इह भक्षयामि ॥
35यद् अत्र रिप्तꣳ रसिनः सुतस्य यद् इन्द्रो ऽ अपिबच्छचीभिः ।अहं तद् अस्य मनसा शिवेन सोमꣳ राजानम् इह भक्षयामि ॥
36पितृभ्यः स्वधायिभ्यः स्वधा नमः ।पितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।अक्षन् पितरः ।ऽअमीमदन्त पितरः ।ऽअतीतृपन्त पितरः ।पितरः शुन्धध्वम् ॥
37पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ।पुनन्तु मा पितामहाः सोम्यासः पुनन्तु प्रपितामहाः ।पवित्रेण शतायुषा विश्वम् आयुर् व्यश्नवै ॥
38अग्न ऽ आयूꣳषि पवस ऽ आ सुवोर्जम् इषं च नः ।आरे बाधस्व दुच्छुनाम् ॥
39पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥
40पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् ।अग्ने क्रत्वा क्रतूँ२ऽर् अनु ॥
41यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तरा ।ब्रह्म तेन पुनातु मा ॥
42पवमानः सो ऽ अद्य नः पवित्रेण विचर्षणिः ।यः पोता स पुनातु मा ॥
43उभाभ्यां देव सवितः पवित्रेण सवेन च ।मां पुनीहि विश्वतः ॥
44वैश्वदेवी पुनती देव्य् आगाद् यस्याम् इमा बह्व्यस् तन्वो वीतपृष्ठाः ।तया मदन्तः सधमादेषु वयꣳ स्याम पतयो रयीणाम् ॥
45ये समानाः समनसः पितरो यमराज्ये ।तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥
46ये समानाः समनसो जीवा जीवेषु मामकाः ।तेषाꣳ श्रीर् मयि कल्पताम् अस्मिँल्लोके शतꣳ समाः ॥
47द्वे सृती ऽ अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् ।ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरं मातरं च ॥
48इदꣳ हविः प्रजननं मे ऽ अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये ।आत्मसनि प्रजासनि पशुसनि लोकसन्य् अभयसनि ।अग्निः प्रजां बहुलां मे करोत्व् अन्नं पयो रेतो ऽ अस्मासु धत्त ॥
49उद् ईरताम् ऽ अवर उत् परास ऽ उन् मध्यमाः पितरः सोम्यासः ।असुं य ऽ ईयुर् अवृका ऽ ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥
50अङ्गिरसो नः पितरो नवग्वा ऽ अथर्वाणो भृगवः सोम्यासः ।तेषां वयꣳ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥
51ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः ।तेभिर् यमः सꣳरराणो हवीꣳष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥
52त्वꣳ सोम प्र चिकितो मनीषा त्वꣳ रजिष्ठम् अनु नेषि पन्थाम् ।तव प्रणीती पितरो न ऽ इन्दो देवेषु रत्नम् अभजन्त धीराः ॥
53त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।वन्वन्न् अवातः परिधीँ२ऽर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥
54त्वꣳ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी ऽ आ ततन्थ ।तस्मै त ऽ इन्दो हविषा विधेम वयꣳ स्याम पतयो रयीणाम् ॥
55बर्हिषदः पितर ऽ ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् ।त ऽ आ गतावसा शंतमेनाथा नः शं योर् अरपो दधात ॥
56आहं पितॄन् सुविदत्राꣳ२ऽ अवित्सि नपातं च विक्रमणं च विष्णोः ।बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त ऽ इहागमिष्ठाः ॥
57उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।त ऽ आ गमन्तु त ऽ इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥
58आ यन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर् देवयानैः ।अस्मिन् यज्ञे स्वधया मदन्तो ऽधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥
59अग्निष्वात्ताः पितर ऽ एह गच्छत सदः-सदः सदत सुप्रणीतयः ।अत्ता हवीꣳषि प्रयतानि बर्हिष्य् अथा रयिꣳ सर्ववीरं दधातन ॥
60ये ऽ अग्निष्वात्ता ये ऽ अनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते ।तेभ्यः स्वराड् असुनीतिम् एतां यथावशं तन्वं कल्पयाति ॥
61अग्निष्वात्ताꣳ ऋतुमतो हवामहे नाराशꣳसे सोमपीथं य ऽ आशुः ।ते नो विप्रासः सुहवा भवन्तु वयꣳ स्याम पतयो रयीणाम् ॥
62आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे ।मा हिꣳसिष्ट पितरः केन चिन् नो यद्व ऽ आगः पुरुषता कराम ॥
63आसीनासो ऽ अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय ।पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त ऽ इहोर्जं दधात ॥
64यम् अग्ने कव्यवाहन त्वं चिन् मन्यसे रयिम् ।तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥
65यो ऽ अग्निः कव्यवाहनः पितॄन् यक्षद् ऋतावृधः ।प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य ऽ आ ॥
66त्वम् अग्न ऽ ईडितः कव्यवाहनावाड् हव्यानि सुरभीणि कृत्वी ।प्रादाः पितृभ्यः स्वधया ते ऽ अक्षन्न् अद्धि त्वं देव प्रयता हवीꣳषि ॥
67ये चेह पितरो ये च नेह याꣳश् च विद्म याꣳ२ऽ उ च न प्रविद्म ।त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञꣳ सुकृतं जुषस्व ॥
68इदं पितृभ्यो नमो ऽ अस्त्व् अद्य ये पूर्वासो य ऽ उपरास ईयुः ।ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनꣳ सुवृजनासु विक्षु ॥
69अधा यथा नः पितरः परासः प्रत्नासो ऽ अग्न ऽ ऋतम् आशुषाणाः ।शुचीदयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो ऽ अरुणीर् अप व्रन् ॥
70उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि ।उशन्न् उशत ऽ आ वह पितॄन् हविषे ऽ अत्तवे ॥
71अपां फेनेन नमुचेः शिर ऽ इन्द्रोद् अवर्तयः ।विश्वा यद् अजय स्पृधः ॥
72सोमो राजामृतꣳ सुत ऽ ऋजीषेणाजहान् मृत्युम् ।ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
73अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
74सोमम् अद्भ्यो व्यपिबच् छन्दसा हꣳसः शुचिषत् ।ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
75अन्नात् परिस्रुतो रसं ब्रह्मणा व्यपिबत् क्षत्रं पयः सोमं प्रजापतिः ।ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
76रेतो मूत्रं वि जहाति योनिं प्रविशद् इन्द्रियम् ।गर्भो जरायुणावृत ऽ उल्वं जहाति जन्मना ।ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
77दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ।अश्रद्धाम् अनृते ऽदधाच् छ्रद्धाꣳ सत्ये प्रजापतिः ।ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
78वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
79दृष्ट्वा परिस्रुतो रसꣳ शुक्रेण शुक्रं व्यपिबत् ।पयः सोमं प्रजापतिः ।ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
80सीसेन तन्त्रं मनसा मनीषिण ऽ ऊर्णासूत्रेण कवयो वयन्ति ।अश्विना यज्ञꣳ सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥
81तद् अस्य रूपम् अमृतꣳ शचीभिस् तिस्रो दधुर् देवताः सꣳरराणाः ।लोमानि शष्पैर् बहुधा न तोक्मभिस् त्वग् अस्य माꣳसम् अभवन् न लाजाः ॥
82तद् अश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो ऽ अन्तरम् ।अस्थि मज्जानं मासरैः कारोतरेण दधतो गवां त्वचि ॥
83सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।रसं परिस्रुता न रोहितं नग्नहुर् धीरस् तसरं न वेम ॥
84पयसा शुक्रम् अमृतं जनित्रꣳ सुरया मूत्राज् जनयन्त रेतः ।अपामतिं दुर्मतिं बाधमाना ऽ ऊवध्यं वातꣳ सब्वं तद् आरात् ॥
85इन्द्रः सुत्रामा हृदयेन सत्यं पुरोडाशेन सविता जजान ।यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर् न मिनाति पित्तम् ॥
86आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।श्येनस्य पत्रं न प्लीहा शचीभिर् आसन्दी नाभिर् उदरं न माता ॥
87कुम्भो वनिष्ठुर् जनिता शचीभिर् यस्मिन्न् अग्रे योन्यां गर्भो ऽ अन्तः ।प्लाशिर् व्यक्तः शतधार ऽ उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥
88मुखꣳ सद् अस्य शिर ऽ इत् सतेन जिह्वा पवित्रम् अश्विनासन्त् सरस्वती ।चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥
89अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्यां छागेन तेजो हविषा शृतेन ।पक्ष्माणि गोधूमैः कुवलैर् उतानि पेशो न शुक्रम् असितं वसाते ॥
90अविर् न मेषो नसि वीर्याय प्राणस्य पन्था ऽ अमृतो ग्रहाभ्याम् ।सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर् जजान ॥
91इन्द्रस्य रूपं वृषभो बलाय कर्णाभ्याꣳ श्रोत्रम् अमृतं ग्रहाभ्यां ।यवा न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखात् ॥
92आत्मन्न् उपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।केशा न शीर्षन् यशसे श्रियै शिखा सिꣳहस्य लोम त्विषिर् इन्द्रियाणि ॥
93अङ्गान्य् आत्मन् भिषजा तद् अश्विनात्मानम् अङ्गैः सम् अधात् सरस्वती ।इन्द्रस्य रूपꣳ शतमानम् आयुश् चन्द्रेण ज्योतिर् अमृतं दधानाः ॥
94सरस्वती योन्यां गर्भम् अन्तर् अश्विभ्यां पत्नी सुकृतं बिभर्ति ।अपाꣳ रसेन वरुणो न साम्नेन्द्रꣳ श्रियै जनयन्न् अप्सु राजा ॥
95तेजः पशूनाꣳ हविर् इन्द्रियावत् परिस्रुता पयसा सारघं मधु ।अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याम् अमृतः सोम ऽ इन्दुः ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.