Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः १८

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः १८

संस्कृतEnglish
Ask AI

What is Adhyaya 18 of the Yajurveda about?

The vasordhara, the “stream of wealth” poured on the altar. Kandikas 18.1–27 ask for every good thing, each followed by “cha me”, “and mine”; the Taittiriya tradition recites this litany as the Chamakam, the companion of the Sri Rudram.

1वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रवश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे यज्ञेन कल्पन्ताम् ॥

2प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च म ऽ आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च मे यज्ञेन कल्पन्ताम् ॥

3ओजस् च मे सहश् च म ऽ आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थीनि च मे परूꣳषि च मे शरीराणि च म ऽ आयुश् च मे जरा च मे यज्ञेन कल्पन्ताम् ॥

4ज्यैष्ठ्यं च मे ऽ आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमा च मे वृद्धं च मे वृद्धिश् च मे यज्ञेन कल्पन्ताम् ॥

5सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे विश्वं च मे महश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥

6ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे यज्ञेन कल्पन्ताम् ॥

7यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च मे यज्ञेन कल्पन्ताम् ॥

8शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च मे यज्ञेन कल्पन्ताम् ॥

9ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म ऽ औद्भिद्यं च मे यज्ञेन कल्पन्ताम् ॥

10रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितं च मे ऽन्नं च मे ऽक्षुच् च मे यज्ञेन कल्पन्ताम् ॥

11वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथ्यं च म ऽ ऋद्धं च म ऽ ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे यज्ञेन कल्पन्ताम् ॥

12व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे प्रियङ्गवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे यज्ञेन कल्पन्ताम् ॥

13अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे ऽयश् च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥

14अग्निश् च म ऽ आपश् च मे वीरुधश् च म ऽ ओषधयश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव ऽ आरण्याश् च मे वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे यज्ञेन कल्पन्ताम् ॥

15वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म ऽ एमश् च म ऽ इत्या च मे गतिश् च मे यज्ञेन कल्पन्ताम् ॥

16अग्निश् च म ऽ इन्द्रश् च मे सोमश् च म ऽ इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म ऽ इन्द्रश् च मे पूषा च म ऽ इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥

17मित्रश् च म ऽ इन्द्रश् च मे वरुणश् च म ऽ इन्द्रश् च मे धाता च म ऽ इन्द्रश् च मे त्वष्टा च म ऽ इन्द्रश् च मे मरुतश् च म ऽ इन्द्रश् च मे विश्वे च मे देवा ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥

18पृथिवी च म ऽ इन्द्रश् च मे ऽन्तरिक्षं च म ऽइन्द्रश् च मे द्यौश् च ऽ म इन्द्रश् च मे समाश् च म ऽ इन्द्रश् च मे नक्षत्राणि च म ऽ इन्द्रश् च मे दिशश् च म ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥

19अꣳशुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाꣳशुश् च मे ऽन्तर्यामश् च म ऽ ऐन्द्रवायवश् च मे मैत्रावरुणश् च म ऽ आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च मे यज्ञेन कल्पन्ताम् ॥

20आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऽ ऐन्द्राग्नश् च मे महावैश्वदेवश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पत्नीवतश् च मे हारियोजनश् च मे यज्ञेन कल्पन्ताम् ॥

21स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ग्रावाणश् च मे ऽधिषवणे च मे पूतभृच् च म ऽ आधवनीयश् च मे वेदिश् च मे बर्हिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे यज्ञेन कल्पन्ताम् ॥

22अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे ऽङ्गुलयः शक्वरयो दिशश् च मे यज्ञेन कल्पन्ताम् ॥

23व्रतं च म ऽ ऋतवश् च मे तपश् च मे संवत्सरश् च मे ऽहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥

24एका च मे तिस्रश् च मे तिस्रश् च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म ऽ एकादश च म ऽ एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म ऽ एकविꣳशतिश् च म ऽ एकविꣳशतिश् च मे त्रयोविꣳशतिश् च मे त्रयोविꣳशतिश् च मे पञ्चविꣳशतिश् च मे पञ्चविꣳशतिश् च मे सप्तविꣳशतिश् च मे सप्तविꣳशतिश् च मे नवविꣳशतिश् च मे नवविꣳशतिश् च म ऽ एकत्रिꣳशच् च म ऽ एकत्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे यज्ञेन कल्पन्ताम् ॥

25चतस्रश् च मे ऽष्टौ च मे ऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विꣳशतिश् च मे विꣳशतिश् च मे चतुर्विꣳशतिश् च मे चतुर्विꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे द्वात्रिꣳशच् च मे द्वात्रिꣳशच् च मे षट्त्रिꣳशच् च मे षट्त्रिꣳशच् च मे चत्वारिꣳशच् च मे चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे यज्ञेन कल्पन्ताम् ॥

26त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे यज्ञेन कल्पन्ताम् ॥

27पष्ठवाट् च मे पष्ठौही च म ऽ उक्षा च मे वशा च म ऽ ऋषभश् च मे वेहच् च मे ऽनड्वाꣳश् च मे धेनुश् च मे यज्ञेन कल्पन्ताम् ॥

28वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहा ऽहर्पतये स्वाहाह्ने स्वाहा मुग्धाय स्वाहा मुग्धाय वैनꣳशिनाय स्वाहा विनꣳशिन ऽ आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा । इयं ते राण् मित्राय यन्तासि यमन ऽ ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्याय ॥

29आयुर् यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताꣳ श्रोत्रं यज्ञेन कल्पतां वाग् यज्ञेन कल्पतां मनो यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां ज्योतिर् यज्ञेन कल्पताꣳ स्वर् यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् । स्तोमश् च यजुश् च ऽ ऋक् च साम च बृहच् च रथन्तरं च । स्वर् देवा ऽ अगन्मामृता ऽ अभूम प्रजापतेः प्रजा ऽ अभूम वेट् स्वाहा ॥

30वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥

31विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥

32वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः ।वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥

33वाजो नो ऽ अद्य प्र सुवाति दानं वाजो देवाꣳऽ ऋतुभिः कल्पयाति ।वाजो हि मा सर्ववीरं जजान विश्वा ऽ आशा वाजपतिर् जयेयम् ॥

34वाजः पुरस्ताद् उत मध्यतो नो वाजो देवान् हविषा वर्धयाति ।वाजो हि मा सर्ववीरं चकार सर्वा ऽ आशा वाजपतिर् भवेयम् ॥

35सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्य् अद्भिर् ओषधीभिः ।सो ऽहं वाजꣳ सनेयम् अग्ने ॥

36पयः पृथिव्यां पय ऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।पयस्वतीः प्रदिशः सन्तु मह्यम् ॥

37देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेः साम्राज्येनाभि षिञ्चामि ॥

38ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौऽषधयोप्सरसो मुदो नाम ।स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

39सꣳहितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम ।स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

40सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो भेकुरयो नाम ।स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

41इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽ अप्सरस ऽ ऊर्जो नाम ।स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

42भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा ऽ अप्सरस स्तावा नाम ।स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

43प्रजापतिर् विश्वकर्मा मनो गन्धर्वस् तस्य ऽ ऋक्सामान्य् अप्सरस ऽ एष्टयो नाम ।स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥

44स नो भुवनस्य पते प्रजापते यस्य त ऽ उपरि गृहा यस्य वेह ।अस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा ॥

45समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।अवस्यूर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥

46यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥

47या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥

48रुचं नो धेहि ब्राह्मणेषु रुचꣳ राजसु नस् कृधि ।रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥

49तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः ।अहेडमानो वरुणेह बोध्य् उरुशꣳस मा न ऽ आयुः प्र मोषीः ॥

50स्वर्ण घर्मः स्वाहा ।स्वर्णार्कः स्वाहा ।स्वर्ण शुक्रः स्वाहा ।स्वर्ण ज्योतिः स्वाहा ।स्वर्ण सूर्यः स्वाहा ॥

51अग्निं युनज्मि शवसा घृतेन दिव्यꣳ सुपर्णं वयसा बृहन्तम् ।तेन वयं गमेम ब्रध्नस्य विष्टपꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥

52इमौ ते पक्षाव् अजरौ पतत्रिणौ याभ्याꣳ रक्षाꣳस्य् अपहꣳस्य् अग्ने ।ताभ्यां पतेम सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥

53इन्दुर् दक्षः श्येन ऽ ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।महान्त् सधस्थे ध्रुव ऽ आ निषत्तो नमस् ते अस्तु मा मा हिꣳसीः ॥

54दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् ।विश्वायुः शर्म सप्रथा नमस् पथे ॥

55विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः समुद्रे ते हृदयम् अप्स्व् आयुर् अपो दत्तोदधिं भिन्त्त ।दिवस् पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याव ॥

56इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिः ।तस्य न ऽ इष्टस्य प्रीतस्य द्रविणेहागमेः ॥

57इष्टो ऽ अग्निर् आहुतः पिपर्तु न ऽ इष्टꣳ हविः ।स्वगेदं देवेभ्यो नमः ॥

58यद् आकूतात् समसुस्रोद् हृदो वा मनसो वा सम्भृतं चक्षुषो वा ।तद् अनु प्रेत सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥

59एतꣳ सधस्थ परि ते ददामि यम् आवहाच् शेवधिं जातवेदाः ।अन्वागन्ता यज्ञपतिर् वो ऽ अत्र तꣳ स्म जानीत परमे व्योमन् ॥

60एतं जानाथ परमे व्योमन् देवाः सधस्था विद रूपम् अस्य ।यद् आगच्छात् पथिभिर् देवयानैर् इष्टापूर्ते कृणवाथाविर् अस्मै ॥

61उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च ।अस्मिन्त् सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानाश् च सीदत ॥

62येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥

63प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा ।ऋचेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥

64यद् दत्तं यत् परादानं यत् पूर्तं याश् च दक्षिणाः ।तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥

65यत्र धारा ऽ अनपेता मधोर् घृतस्य च याः ।तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥

66अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म ऽ आसन् ।अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥

67ऋचो नामास्मि यजूꣳषि नामास्मि सामानि नामास्मि ।ये ऽ अग्नयः प्राञ्चजन्या ऽ अस्यां पृथिव्याम् अधि ।तेषाम् असि त्वम् उत्तमः प्र नो जीवतवे सुव ॥

68वार्त्रहत्याय शवसे पृतनाषाह्याय च ।इन्द्र त्वा वर्तयामसि ॥

69सहदानुं पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सं पिणक् कुणारुम् ।अभि वृत्रं वर्धमानं पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥

70वि न ऽ इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।यो ऽ अस्माꣳऽ अभिदासत्य् अधरं गमया तमः ॥

71मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽ आ जगन्था परस्याः ।सृकꣳ सꣳशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥

72वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।अग्निर् नः सुष्टुतीर् उप ॥

73पृष्टो दिवि पृष्टो ऽ अग्निः पृथिव्यां पृष्टो विश्वा ऽ ओषधीर् आ विवेश ।वैश्वानरः सहसा पृष्टो ऽ अग्निः स नो दिवा स रिषस् पातु नक्तम् ॥

74अश्याम तं कामम् अग्ने तवोती ऽ अश्याम रयिꣳ रयिवः सुवीरम् ।अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥

75वयं ते ऽ अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य ।यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो ऽ अग्ने ॥

76धामच्छद् अग्निर् इन्द्रो ब्रह्मा देवो बृहस्पतिः ।सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे ॥

77त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः ।रक्षा तोकम् उत त्मना ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १७अध्यायः १९

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras