शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः १७
Ask AIWhat is Adhyaya 17 of the Yajurveda about?
Sprinkling and completing the altar, with the Rigveda’s hymns to Vishvakarman, maker of all (17.17–32), and a battle hymn to Indra (from 17.33).
1अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् ऽ अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतं पयः ।तां न ऽ इषमूर्जं धत्त मरुतः सꣳरराणाः ।ऽ अश्मꣳस् ते क्षुत् ।मयि त ऊर्क् ।यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
2इमा मे ऽ अग्न ऽ इष्टका धेनवः सन्त्व् एका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च नियुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदꣳ समुद्रश् च मध्यं चान्तश् च परार्धश् चैता मे ऽ अग्न इष्टका धेनवः सन्त्व् अमुत्रामुष्मिंल् लोके ॥
3ऋतव स्थ ऽ ऋतावृध ऽ ऋतुष्ठा स्थ ऽ ऋतावृधः ।घृतश्च्युतो मधुश्च्युतो विराजो नाम कामदुघा ऽ अक्षीयमाणाः ॥
4समुद्रस्य त्वावकयाग्ने परि व्ययामसि ।पावको ऽ अस्मभ्यꣳ शिवो भव ॥
5हिमस्य त्वा जरायुणाग्ने परि व्ययामसि ।पावको ऽ अस्मभ्यꣳ शिवो भव ॥
6उप ज्मन्न् उप वेतसेऽव तर नदीष्व् आ ।अग्ने पित्तम् अपाम् असि ।मण्डूकि ताभिर् आ गहि सेमं नो यज्ञं पावकवर्णꣳ शिवं कृधि ॥
7अपाम् इदं न्ययनꣳ समुद्रस्य निवेशनम् ।अन्याꣳस् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥
8अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।आ देवान् वक्षि यक्षि च ॥
9स नः पावक दीदिवो ग्ने देवाꣳ ऽ इहा वह ।उप यज्ञꣳ हविश् च नः ॥
10पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच ऽ उषसो न भानुना ।तूर्वन् न यामन्न् एतशस्य नू रण ऽ आ यो घृणे न ततृषाणो ऽ अजरः ॥
11नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे ।अन्याꣳस् ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥
12नृषदे वेट् ।अप्सुषदे वेट् ।बर्हिषदे वेट् ।वनसदे वेट् ।स्वर्विदे वेट् ॥
13ये देवा देवानां यज्ञिया यज्ञियानाꣳ संवत्सरीणम् उप भागम् आसते ।अहुतादो हविषो यज्ञे ऽ अस्मिन्त् स्वयं पिबन्तु मधुनो घृतस्य ॥
14ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो ऽ अस्य ।येभ्यो न ऽ ऋते पवते धाम किं चन न ते दिवो न पृथिव्या ऽ अधि स्नुषु ॥
15प्राणदा ऽ अपानदा व्यानदा वर्चोदा वरिवोदाः ।अन्याꣳस् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥
16अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् ।अग्निर् नो वनते रयिम् ॥
17य ऽ इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः ।स ऽ आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवराꣳ ऽ आ विवेश ॥
18किꣳ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् ।यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥
19विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् ।सं बाहुभ्यां धमति सं पतत्रैर् द्यावाभूमी जनयन् देव ऽ एकः ॥
20किꣳ स्विद् वनं क ऽ उ स वृक्ष ऽ आस यतो द्यावापृथिवी निष्टतक्षुः ।मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥
21या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा ।शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥
22विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् ।मुह्यन्त्व् अन्ये ऽ अभितो सपत्ना ऽ इहास्माकं मघवा सूरिर् अस्तु ॥
23वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम ।स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥
24विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ॥
25चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नम्नमाने ।यदेद् अन्ता ऽ अददृहन्त पूर्व ऽ आद् इद् द्यावापृथिवी ऽ अप्रथेताम् ॥
26विश्वकर्मा विमना ऽ आद् विहाया धाता विधाता परमोत संदृक् ।तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर ऽ एकम् आहुः ॥
27यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।यो देवानां नामधा ऽ एक ऽ एव तꣳ संप्रश्नं भुवना यन्त्य् अन्या ॥
28त ऽ आयजन्त द्रविणꣳ सम् अस्मा ऽ ऋषयः पूर्वे जरितारो न भूना ।असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥
29परो दिवा पर ऽ एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति ।कꣳ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त पूर्वे ॥
30तम् इद् गर्भं प्रथमं दध्र ऽ आपो यत्र देवाः समगच्छन्त विश्वे ।अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥
31न तं विदाथ य ऽ इमा जजानान्यद् युष्माकम् अन्तरं बभूव ।नीहारेण प्रावृता जल्प्या चासुतृप ऽ उक्थशासश् चरन्ति ॥
32विश्वकर्मा ह्य् अजनिष्ट देव ऽ आद् इद् गन्धर्वो ऽ अभवद् द्वितीयः ।तृतीयः पिता जनितौषधीनाम् अपां गर्भं व्यदधात् पुरुत्रा ॥
33आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् ।संक्रन्दनोऽनिमिष ऽ एकवीरः शतꣳ सेना ऽ अजयत् साकम् इन्द्रः ॥
34संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
35स ऽ इषुहस्तैः स निषङ्गिभिर् वशी सꣳस्रष्टा स युध ऽ इन्द्रो गणेन ।सꣳसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥
36बृहस्पते परि दीया रथेन रक्षोहामित्राँ२ऽ अपबाधमानः ।प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥
37बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान ऽ उग्रः ।अभिवीरो ऽ अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥
38गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ।इमꣳ सजाता ऽ अनु वीरयध्वम् इन्द्रꣳ सखायो ऽ अनु सꣳ रभध्वम् ॥
39अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः ।दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकꣳ सेना अवतु प्र युत्सु ॥
40इन्द्र ऽ आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर ऽ एतु सोमः ।देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्त्व् अग्रम् ॥
41इन्द्रस्य वृष्णो वरुणस्य राज्ञ ऽ आदित्यानां मरुताꣳ शर्ध ऽ उग्रम् ।महामनसां भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥
42उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनां मामकानां मनाꣳसि ।उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥
43अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या ऽ इषवस् ता जयन्तु ।अस्माकं वीरा ऽ उत्तरे भवन्त्व् अस्माꣳऽ उ देवा ऽ अवता हवेषु ॥
44अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि ।अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥
45अवसृष्टा परा पत शरव्ये ब्रह्मसꣳशिते ।गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥
46प्रेता जयता नर ऽ इन्द्रो वः शर्म यच्छतु ।उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥
47असौ या सेना मरुतः परेषाम् अभ्येति न ऽ ओजसा स्पर्धमाना ।तां गूहत तमसापव्रतेन यथामी ऽ अन्यो ऽ अन्यं न जानन् ॥
48यत्र वाणाः सम्पतन्ति कुमारा विशिखाऽइव ।तन्न ऽ इन्द्रो बृहस्पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥
49मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् ।उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥
50उद् एनम् उत्तरां नयाग्ने घृतेनाहुत ।रायस्पोषेण सꣳ सृज प्रजया च बहुं कृधि ॥
51इन्द्रेमं प्रतरां नय सजातानाम् असद्वशी ।सम् एनं वर्चसा सृज देवानां भागदा ऽ असत् ॥
52यस्य कुर्मो गृहे हविस् तम् अग्ने वर्धया त्वम् ।तस्मै देवा ऽ अधि ब्रुवन्न् अयं च ब्रह्मणस्पतिः ॥
53उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः ।स नो बह्व शिवस् त्वꣳ सुप्रतीको विभावसुः ॥
54पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिं बाधमानाः ।रायस्पोषे यज्ञपतिम् आभजन्ती रायस्पोषे ऽ अधि यज्ञो ऽ अस्थात् ॥
55समिद्धे ऽ अग्नाव् अधि मामहान ऽ उक्थपत्र ऽ ईड्यो गृभीतः ।तप्तं घर्मं परिगृह्यायजन्तोर्जा यद् यज्ञम् अयजन्त देवाः ॥
56दैव्याय धर्त्रे जोष्ट्रे देवश्रीः श्रीमनाः शतपयाः ।परिगृह्य देवा यज्ञम् आयन् देवा देवेभ्यो ऽ अध्वर्यन्तो ऽ अस्थुः ॥
57वीतꣳ हविः शमितꣳ शमिता यजध्यै तुरीयो यज्ञो यत्र हव्यम् एति ।ततो वाका ऽ आशिषो नो जुषन्ताम् ॥
58सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाꣳऽ अजस्रम् ।तस्य पूषा प्रसवे याति विद्वान्त् सम्पश्यन् विश्वा भुवनानि गोपाः ॥
59विमान ऽ एष दिवो मध्य ऽ आस्त ऽ आपप्रिवान् रोदसी ऽ अन्तरिक्षम् ।स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥
60उक्षा समुद्रो ऽ अरुणः सुपर्णः पूर्वस्य योनिं पितुर् आ विवेश ।मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥
61इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः ।रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥
62देवहूर् यज्ञ ऽ आ च वक्षत् सुम्नहूर् यज्ञ ऽ आ च वक्षत् ।यक्षद् अग्निर् देवो देवाꣳऽ आ च वक्षत् ॥
63वाजस्य मा प्रसव ऽ उद्ग्राभेणोद् अग्रभीत् ।अध सपत्नान् इन्द्रो मे निग्राभेणाधराꣳऽ अकः ॥
64उद्ग्राभं च निग्राभं च ब्रह्म देवा ऽ अवीवृधन् ।अधा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
65क्रमध्वम् अग्निना नाकम् उख्यꣳ हस्तेषु बिभ्रतः ।दिवस् पृष्ठꣳ स्वर् गत्वा मिश्रा देवेभिर् आध्वम् ॥
66प्राचीम् अनु प्रदिशं प्रेहि विद्वान् अग्नेर् अग्ने पुरो ऽ अग्निर् भवेह ।विश्वा ऽ आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
67पृथिव्या ऽ अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् ।दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥
68स्वर् यन्तो नापेक्षन्त ऽ आ द्याꣳ रोहन्ति रोदसी ।यज्ञं ये विश्वतोधारꣳ सुविद्वाꣳसो वितेनिरे ॥
69अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् ।इयक्षमाणा भृगुभिः सजोषाः स्वर् यन्तु यजमानाः स्वस्ति ॥
70नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची ।द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥
71अग्ने सहस्राक्ष शतमूर्धञ् छतं ते प्राणाः सहस्रं व्यानाः ।त्वꣳ साहस्रस्य राय ऽ ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥
72सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद ।भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश ऽ उद् दृꣳह ॥
73आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने योनिम् आ सीद साधुया ।अस्मिन्त्सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥
74तꣳ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् ।याम् अस्य कण्वो अदुहत् प्रपीनाꣳ सहस्रधारां पयसा महीं गाम् ॥
75विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे ।यस्माद् योनेर् उदारिथा यजे तं प्र त्वे हवीꣳषि जुहुरे समिद्धे ॥
76प्रेद्धो ऽ अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ ।त्वाꣳ शश्वन्त ऽ उप यन्ति वाजाः ॥
77अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् ।ऋध्यामा त ऽ ओहैः ॥
78चित्तिं जुहोमि मनसा घृतेन यथा देवा ऽ इहागमन् वीतिहोत्रा ऽ ऋतावृधः ।पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाभ्यꣳ हवि ॥
79सप्त ते ऽ अग्ने समिधः सप्त जिह्वाः सप्त ऽ ऋषयः सप्त धाम प्रियाणि ।सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्व घृतेन स्वाहा ॥
80शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च ।शुक्रश् च ऽ ऋतपाश् चात्यꣳहाः ॥
81ईदृङ् चान्यदृङ् च सदृङ् च प्रतिसदृङ् च ।मितश् च संमितश् च सभराः ॥
82ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च ।धर्ता च विधर्ता च विधारयः ॥
83ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् च ।अन्तिमित्रश् च दूरेऽअमित्रश् च गणः ॥
84ईदृक्षास ऽ एतादृक्षास ऽ ऊ षु णः सदृक्षासः प्रतिसदृक्षास ऽ एतन ।मितासश् च संमितासो नो ऽ अद्य सभरसो मरुतो यज्ञे ऽ अस्मिन् ॥
85स्वतवाꣳश् च प्रघासी च सांतपनश् च गृहमेधी च ।क्रीडी च शाकी चोज्जेषी ॥
86उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च ।सासह्वाꣳश् चाभियुग्वा च विक्षिपः स्वाहा ।इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् ।एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥
87इमꣳ स्तनमूर्जस्वन्तं धयापां प्रपीनम् अग्ने सरिरस्य मध्ये ।उत्सं जुषस्व मधुमन्तम् अर्वन्त् समुद्रियꣳ सदनम् आ विशस्व ॥
88घृतं मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् व् अस्य धाम ।अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
89समुद्राद् ऊर्मिर् मधुमाꣳऽ उद् आरद् उपाꣳशुना सम् अमृतत्वम् आनट् ।घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥
90वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥
91चत्वारि शृङ्गा त्रयो ऽ अस्य पादा द्वे शीर्षे सप्त हस्तासो ऽ अस्य ।त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ ऽ आ विवेश ॥
92त्रिधा हितं पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् ।इन्द्र ऽ एकꣳ सूर्य ऽ एकं जजान वेनाद् एकꣳ स्वधया निष्टतक्षुः ॥
93एता ऽअर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे ।घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्य ऽ आसाम् ॥
94सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः ।एते ऽ अर्षन्त्य् ऊर्मयो घृतस्य मृगा ऽइव क्षिपणोर् ईषमाणाः ॥
95सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।घृतस्य धारा ऽ अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥
96अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो ऽ अग्निम् ।घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥
97कन्या ऽइव वहतुम् एतवा ऽ उ ऽ अञ्ज्य् अञ्जाना ऽ अभि चाकशीमि ।यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा ऽ अभि तत् पवन्ते ॥
98अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त ।इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥
99धामन् ते विश्वं भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्यन्तर् आयुषि ।अपाम् अनीके समिथे य ऽ आभृतस् तम् अश्याम मधुमन्तं त ऽ ऊर्मिम् ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.