Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः १६

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः १६

संस्कृतEnglish
Ask AI

What is Adhyaya 16 of the Yajurveda about?

The Shatarudriya: 66 kandikas of homage (namah) to Rudra, beginning “Namas te rudra manyava”, offered on the finished fire altar to make Rudra gracious. It is the White Yajurveda’s form of the Sri Rudram (Namakam) and the heart of the Rudri (Rudrashtadhyayi) recited at Rudrabhishek.

1नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।बाहुभ्याम् उत ते नमः ॥

2या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥

3याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥

4शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥

5अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥

6असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥

7असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥

8नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥

9प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥

10विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥

11या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥

12परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।अथो य ऽइषुधिस् तवारे ऽ अस्मिन् नि धेहि तम् ॥

13अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥

14नमस् त ऽ आयुधायानातताय धृष्णवे ।उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥

15मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥

16मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥

17नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥

18नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥

19नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥

20नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥

21नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥

22नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥

23नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥

24नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥

25नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥

26नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥

27नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥

28नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥

29नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥

30नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥

31नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥

32नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥

33नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥

34नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥

35नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥

36नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥

37नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥

38नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥

39नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥

40नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥

41नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

42नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥

43नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥

44नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥

45नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥

46नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥

47द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥

48इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥

49या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥

50परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥

51मीढुष्टम शिवतम शिवो नः सुमना भव ।परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥

52विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥

53सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥

54असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥

55अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥

56नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥

57नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

58ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

59ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

60ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

61ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

62ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

63ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

64नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

65नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

66नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १५अध्यायः १७

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras