Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः १५

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः १५

संस्कृतEnglish
Ask AI

1अग्ने जातान् प्र णुद नः सपत्नान् प्रत्य् अजातान् नुद जातवेदः ।अधि नो ब्रूहि सुमना ऽ अहेडꣳस् तव स्याम शर्मꣳस् त्रिवरूथ ऽ उद्भौ ॥

2सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।अधि नो ब्रूहि सुमनस्यमानो वयꣳ स्याम प्र णुदा नः सपत्नान् ॥

3षोडशी स्तोम ऽ ओजो द्रविणम् ।चतुश्चत्वारिꣳश स्तोमो वर्चो द्रविणम् ।अग्नेः पुरीषम् अस्य अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ॥

4एवश् छन्दः ।वरिवश् छन्दः ।शंभूश् छन्दः ।परिभूश् छन्दः ।ऽ आच्छच् छन्दः ।मनश् छन्दः ।व्यचश् छन्दः ।सिन्धुश् छन्दः ।समुद्रश् छन्दः ।सरिरं छन्दः ।ककुप् छन्दः ।त्रिककुप् छन्दः ।काव्यं छन्दः ।ऽ अङ्कुपं छन्दः ।अक्षरपङ्क्तिश् छन्दः ।पदपङ्क्तिश् छन्दः ।विष्टारपङ्क्तिश् छन्दः ।क्षुरो भ्राजश् छन्दः ॥

5आच्छच् छन्दः ।प्रच्छच् छन्दः ।संयच् छन्दः ।वियच् छन्दः ।बृहच् छन्दः ।रथन्तरं छन्दः ।निकायश् छन्दः ।विवधश् छन्दः ।गिरश् छन्दः ।भ्रजश् छन्दः ।सꣳस्तुप् छन्दः ।ऽ अनुष्टुप् छन्दः ।ऽ एवश् छन्दः ।वरिवश् छन्दः ।वयश् छन्दः ।वयस्कृच् छन्दः ।विष्पर्धाश् छन्दः ।विशालं छन्दः ।छदिश् छन्दः ।दूरोहणं छन्दः ।तन्द्रं छन्दः ।ऽ अङ्काङ्कं छन्दः ॥

6रश्मिना सत्याय सत्यं जिन्व ।प्रेतिना धर्मणा धर्मं जिन्व ।अन्वित्या दिवा दिवं जिन्व ।संधिनान्तरिक्षेणान्तरिक्षं जिन्व ।प्रतिधिना पृथिव्या पृथिवीं जिन्व ।विष्टम्भेन वृष्ट्या वृष्टिं जिन्व ।प्रवया ऽह्नाहर् जिन्व ।अनुया रात्र्या रात्रीं जिन्व ।उशिजा वसुभ्यो वसून् जिन्व ।प्रकेतेनादित्येभ्य ऽ आदित्यान् जिन्व ॥

7तन्तुना रायस्पोषेण रायस्पोषं जिन्व ।सꣳसर्पेण श्रुताय श्रुतं जिन्व ।ऐडेनौषधीभिर् ओषधीर् जिन्व ।उत्तमेन तनूभिस् तनूर् जिन्व ।वयोधसाधीतेनाधीतं जिन्व ।अभिजिता तेजसा तेजो जिन्व ॥

8प्रतिपद् असि प्रतिपदे त्वा ।अनुपद् अस्य् अनुपदे त्वा ।सम्पद् असि सम्पदे त्वा ।तेजो ऽसि तेजसे त्वा ॥

9त्रिवृद् असि त्रिवृते त्वा ।प्रवृद् असि प्रवृते त्वा ।विवृद् असि विवृते त्वा ।सवृद् असि सवृते त्वा ।ऽऽआक्रमो ऽस्य् आक्रमाय त्वा ।संक्रमो ऽसि संक्रमाय त्वा ।उत्क्रमो ऽस्य् उत्क्रमाय त्वा ।उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वा ।अधिपतिनोर्जोर्जं जिन्व ॥

10राज्ञ्य् असि प्राची दिग् वसवस् ते देवा ऽ अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याꣳ श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नातु रथन्तरꣳ साम प्रतिष्ठित्याऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

11विराड् असि दक्षिणा दिग् रुद्रास् ते देवा ऽ अधिपतय ऽ इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नातु बृहत् साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

12सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा ऽ अधिपतयो वरुणो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नातु वैरूपꣳ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

13स्वराड् अस्य् उदीच्य् दिङ् मरुतस् ते देवा ऽ अधिपतयः सोमो हेतीनां प्रतिधर्तैकविꣳशस् त्वा स्तोमः पृथिव्याꣳ श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नातु वैराजꣳ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

14अधिपत्न्य् असि बृहती दिग् विश्वे ते देवा ऽ अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिꣳशौ त्वा स्तोमौ पृथिव्याꣳ श्रयतां वैश्वदेवाग्निमारुते ऽ उक्थे ऽ अव्यथायै स्तभ्नीताꣳ शाक्वररैवते सामनी प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

15अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश् च रथौजाश् च सेनानीग्रामण्यौ ।पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

16अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ ।मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षाꣳसि प्रहेतिस् तेभ्यो नमो ऽअस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

17अयं पश्चाद् विश्वव्यचास् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यौ ।प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पा प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

18अयम् उत्तरात् संयद्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यौ ।विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

19अयम् उपर्य् अर्वाग्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ ।उर्वशी च पूर्वचित्तिश् चाप्सरसाव् अवस्फूर्जन् हेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

20अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।अपाꣳ रेताꣳसि जिन्वति ॥

21अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।मूर्धा कवी रयीणाम् ॥

22त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।मूर्ध्नो विश्वस्य वाघतः ॥

23भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥

24अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् ।यह्वा ऽ इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥

25अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥

26अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः ।यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥

27जनस्य गोपा ऽ अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे ।घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥

28त्वाम् अग्ने ऽ अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने ।स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥

29सखायः सं वः सम्यञ्चम् इषꣳ स्तोमं चाग्नये ।वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥

30सꣳ-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य ऽ आ ।इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥

31त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥

32एना वो ऽ अग्निं नमसोर्जो नपातम् आ हुवे ।प्रियं चेतिष्ठम् अरतिꣳ स्वध्वरं विश्वस्य दूतम् अमृतम् ॥

33विश्वस्य दूतम् अमृतं विश्वस्य दूतम् अमृतम् ।स योजते ऽ अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ॥

34स दुद्रवत् स्वाहुतः स दुद्रवत् स्वाहुतः ।सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम् ॥

35अग्ने वाजस्य गोमत ऽ ईशानः सहसो यहो ।अस्मे धेहि जातवेदो महि श्रवः ॥

36स ऽ इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा ।रेवद् अस्मभ्यं पुर्वणीक दीदिहि ॥

37क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।स तिग्मजम्भ रक्षसो दह प्रति ॥

38भद्रो नोऽअग्निर् आहुतो भद्रा रातिः सुभग भद्रो ऽअध्वरः ।भद्राऽ उत प्रशस्तयः ॥

39भद्रा ऽ उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये ।येना समत्सु सासहः ॥

40येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् ।वनेमा ते ऽ अभिष्टिभिः ॥

41अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः ।अस्तम् अर्वन्त ऽ आशवो ऽस्तं नित्यासो वाजिन ऽ इषꣳ स्तोतृभ्य ऽ आ भर ॥

42सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः ।सम् अर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय ऽ इषꣳ स्तोतृभ्य ऽ आ भर ॥

43उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष ऽ आसनि ।उतो न ऽ उत् पुपूर्या ऽ उक्थेषु शवसस् पत ऽ इषꣳ स्तोतृभ्य ऽ आ भर ॥

44अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् ।ऋध्यामा त ऽ ओहैः ॥

45अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः ।रथीर् ऋतस्य बृहतो बभूथ ॥

46एभिर् नो ऽ अर्कैर् भवा नो अर्वाङ् स्वर्ण ज्योतिः ।अग्ने विश्वेभिः सुमना ऽ अनीकैः ॥

47अग्निꣳ होतारं मन्ये दास्वन्तं वसुꣳ सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् ।य ऽ ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः ॥

48अग्ने त्वं नो ऽ अन्तम उत त्राता शिवो भवा वरूथ्यः ।वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमꣳ रयिं दाः ।तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥

49येन ऽ ऋषयस् तपसा सत्रम् आयन्न् इन्धाना ऽ अग्निꣳ स्वर् आभरन्तः ।तस्मिन्न् अहं नि दधे नाके ऽ अग्निं यम् आहुर् मनव स्तीर्णबर्हिषम् ॥

50तं पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः ।नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽ अधि रोचने दिवः ॥

51आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः ।पृष्ठे पृथिव्या निहितो दविद्युतद् अधस् पदं कृणुतां ये पृतन्यवः ॥

52अयम् अग्निर् वीरतमो वयोधाः सहस्रियो द्योतताम् अप्रयुच्छन् ।विभ्राजमानः सरिरस्य मध्य ऽ उप प्र याहि दिव्यानि धाम ॥

53सम्प्रच्यवध्वम् उप सम्प्रयाताग्ने पथो देवयानान् कृणुध्वम् ।पुनः कृण्वाना पितरा युवानान्वा ताꣳसीत् त्वयि तन्तुम् एतम् ॥

54उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च ।अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विशवे देवा यजमानश् च सीदत ॥

55येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥

56अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥

57तपश् च तपस्यश् च शैशिराव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे शैशिराव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

58परमेष्ठी त्वा सादयतु दिवस् पृष्ठे ज्योतिष्मतीम् ।विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।सूर्यस् ते ऽधिपतिस् तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद ॥

59लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥

60ता ऽ अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥

61इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥

62प्रोथद् अश्वो न यवसे विष्यन् यदा महः संवरणाद् व्य् अस्थात् ।आद् अस्य वातो ऽ अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥

63आयोष् ट्वा सदने सादयाम्य् अवतश् छायायाꣳ समुद्रस्य हृदये ।रश्मीवतीं भास्वतीम् आ या द्यां भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् ॥

64परमेष्ठी त्वा सादयतु दिवस् पृष्ठे व्यचस्वतीं प्रथस्वतीम् दिवं यच्छ दिवं दृꣳह दिवं मा हिꣳसीः ।विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।सूर्यस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

65सहस्रस्य प्रमासि ।सहस्रस्य प्रतिमासि ।सहस्रस्योन्मासि ।साहस्रो ऽसि ।सहस्राय त्वा ॥

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १४अध्यायः १६

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras