शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः १४
Ask AI1ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवासि ध्रुवं योनिम् आ सीद साधुया ।उख्यस्य केतुं प्रथमं जुषाणा ।अश्विनाध्वर्यू सादयताम् इह त्वा ॥
2कुलायिनी घृतवती पुरंधिः स्योने सीद सदने पृथिव्याः ।अभि त्वा रुद्रा वसवो गृणन्त्व् इमा ब्रह्म पीपिहि सौभगाय ।अश्विनाध्वर्यू सादयताम् इह त्वा ॥
3स्वैर् दक्षैर् दक्षपितेह सीद देवानाꣳ सुम्ने बृहते रणाय ।पितेवैधि सूनव ऽ आ सुशेवा स्वावेशा तन्वा सं विशस्व ।अश्विनाध्वर्यू सादयताम् इह त्वा ॥
4पृथिव्याः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः ।स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ।अश्विनाध्वर्यू सादयताम् इह त्वा ॥
5अदित्यास् त्वा पृष्ठे सादयाम्य् अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानामूर्मिर् द्रप्सो ऽ अपाम् असि विश्वकर्मा त ऽ ऋषिः ।अश्विनाध्वर्यू सादयताम् इह त्वा ॥
6शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू ऽ अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे ग्रैष्माव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
7सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ।सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ॥
8प्राणं मे पाहि ।अपानं मे पाहि ।व्यानं मे पाहि ।चक्षुर् म ऽ उर्व्या वि भाहि ।श्रोत्रं मे श्लोकय ।अपः पिन्व ।ओषधीर् जिन्व ।द्विपाद् अव ।चतुष्पात् पाहि ।दिवो वृष्टिम् एरय ॥
9मूर्धा वयः प्रजापतिश् छन्दः ।क्षत्रं वयो मयंदं छन्दः ।विष्टम्भो वयो ऽधिपतिश् छन्दः ।विश्वकर्मा वयः परमेष्ठी छन्दः ।वस्तो वयो विवलं छन्दः ।वृष्णिर् वयो विशालं छन्दः ।पुरुषो वयस् तन्द्रं छन्दः ।व्याघ्रो वयो ऽनाधृष्टं छन्दः ।सिꣳहो वयश् छदिश् छन्दः ।पष्ठवाड् वयो बृहती छन्दः ।ऽ उक्षा वयः ककुप् छन्दः ।ऽ ऋषभो वयः सतोबृहती छन्दः ॥
10अनड्वान् वयः पङ्क्तिश् छन्दः ।धेनुर् वयो जगती छन्दः ।त्र्यविर् वयस् त्रिष्टुप् छन्दः ।दित्यवाड् वयो विराट् छन्दः ।पञ्चाविर् वयो गायत्री छन्दः ।त्रिवत्सो वय ऽ उष्णिक् छन्दः ।तुर्यवाड् वयो ऽनुष्टुप् छन्दः ।[ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ ]???
11इन्द्राग्नी ऽ अव्यथमानाम् इष्टकां दृꣳहतं युवम् ।पृष्ठेन द्यावापृथिवी ऽ अन्तरिक्षं च विबाधसे ॥
12विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीम् अन्तरिक्षं यच्छान्तरिक्षं दृꣳहान्तरिक्षं मा हिꣳसीः ।विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।वायुष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
13राज्ञ्य् असि प्राची दिक् ।विराड् असि दक्षिणा दिक् ।सम्राड् असि प्रतीची दिक् ।स्वराड् अस्य् उदीची दिक् ।अधिपत्न्य् असि बृहती दिक् ॥
14विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम् ।विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।वायुष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
15नभश् च नभस्यश् च वार्षिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे वार्षिकाव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
16इषश् चोर्जश् च शारदाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे शारदाव् ऋतू ऽ अभिकल्पमाना ऽइन्द्रम् इव देवाऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
17आयुर् मे पाहि ।प्राणं मे पाहि ।अपानं मे पाहि ।व्यानं मे पाहि ।चक्षुर् मे पाहि ।श्रोत्रं मे पाहि ।वाचं मे पिन्व ।मनो मे जिन्व ।आत्मानं मे पाहि ।ज्योतिर् मे यच्छ ॥
18मा छन्दः ।प्रमा छन्दः ।प्रतिमा छन्दः ।ऽ अस्रीवयश् छन्दः ।पङ्क्तिश् छन्दः ।ऽ उष्णिक् छन्दः ।बृहती छन्दः ।ऽअनुष्टुप् छन्दः ।विराट् छन्दः ।गायत्री छन्दः ।त्रिष्टुप् छन्दः ।जगती छन्दः ॥
19पृथिवी छन्दः ।ऽअन्तरिक्षं छन्दः ।द्यौश् छन्दः ।समाश् छन्दः ।नक्षत्राणि छन्दः ।वाक् छन्दः ।मनश् छन्दः ।कृषिश् छन्दः ।हिरण्यं छन्दः ।गौश् छन्दः ।ऽअजा छन्दः ।ऽअश्वश् छन्दः ॥
20अग्निर् देवता ।वातो देवता ।सूर्यो देवता ।चन्द्रमा देवता ।वसवो देवता ।रुद्रा देवता ।ऽऽआदित्या देवता ।मरुतो देवता ।विश्वे देवा देवता ।बृहस्पतिर् देवता ।इन्द्रो देवता ।वरुणो देवता ॥
21मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरणी ।आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा ॥
22यन्त्री राड् यन्त्र्य् असि यमनी ध्रुवासि धरित्री ।इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा ।लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥
23आशुर् त्रिवृत् ।भान्तः पञ्चदशः ।व्योमा सप्तदशः ।धरुण ऽ एकविꣳशः ।प्रतूर्तिर् अष्टादशः ।तपो नवदशः ।ऽअभीवर्तः सविꣳशः ।वर्चो द्वाविꣳशः ।संभरणस् त्रयोविꣳशः ।योनिश् चतुर्विꣳशः ।गर्भाः पञ्चविꣳशः ।ऽ ओजस् त्रिणवः ।क्रतुर् एकत्रिꣳशः ।प्रतिष्ठा त्रयस्त्रिꣳशः ।ब्रध्नस्य विष्टपं चतुस्त्रिꣳशः ।नाकः षट्त्रिꣳशः ।विवर्तो ष्टाचत्वारिꣳशः ।धर्त्रं चतुष्टोमः ॥
24अग्नेर् भागो ऽसि दीक्षाया ऽ आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमः ।इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रꣳ स्पृतं पञ्चदशः स्तोमः ।नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रꣳ स्पृतꣳ सप्तदशः स्तोमः ।मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वात स्पृत ऽएकविꣳश स्तोमः ॥
25वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विꣳश स्तोमः ।आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविꣳश स्तोमः ।अदित्यै भागो ऽसि पूष्ण ऽ आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः ।देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यꣳ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः ॥
26यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजा स्पृताश् चतुश्चत्वारिꣳश स्तोमः ।ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतꣳ स्पृतं त्रयस्त्रिꣳश स्तोमः ॥
27सहश् च सहस्यश् च हैमन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे हैमन्तिकाव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
28एकयास्तुवत प्रजा ऽ अधीयन्त प्रजापतिर् अधिपतिर् आसीत् ।तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् ।पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् ।सप्तभिर् अस्तुवत सप्त ऋषयो ऽसृज्यन्त धाताधिपतिर् आसीत् ॥
29नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अध्निपत्न्य् आसीत् ।एकादशभिर् अस्तुवत ऽ ऋतवो ऽसृज्यन्तार्तवा ऽ अधिपतय ऽ आसन् ।त्रयोदशभिर् अस्तुवत मासा ऽ असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् ।पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् ।सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् ॥
30नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे ऽ अधिपत्नी आस्ताम् ।एकविꣳशत्यास्तुवतैकशफाः पशवो सृज्यन्त वरुणो ऽधिपतिर् आसीत् ।त्रयोविꣳशत्यास्तुवत क्षुद्रां पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् ।पञ्चविꣳशत्यास्तुवताऽऽरण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् ।सप्तविꣳशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्राऽ आदित्याऽ अनुव्य् आयꣳस् त ऽ एवाधिपतय ऽ आसन् ॥
31नवविꣳशत्यास्तुवत वनस्पतयोऽसृज्यन्त सोमो ऽधिपतिर् आसीत् ।एकत्रिꣳशतास्तुवत प्रजा ऽ असृज्यन्त यवाश् चायवाश् चाधिपतय ऽ आसन् ।त्रयस्त्रिꣳशतास्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् ।[लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.