Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Yajurveda
  5. अध्यायः १३

शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)

अध्यायः १३

संस्कृतEnglish
Ask AI

What is Adhyaya 13 of the Yajurveda about?

The first layer of the fire altar is laid, beginning with the lotus leaf (13.2). It includes “Madhu vata ritayate” (13.27).

1मयि गृह्णाम्य् अग्रे ऽ अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ।माम् उ देवताः सचन्ताम् ॥

2अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।वर्धमानो महाँ२ ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥

3ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन ऽ आवः ।स बुध्न्या ऽ उपमा ऽ अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥

4हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

5द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः ।समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥

6नमोऽस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।ये ऽ अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥

7या ऽ इषवो यातुधानानां ये वा वनस्पतीꣳ१ ऽरनु ।ये वावटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

8ये वामी रोचने दिवो ये वा सूर्यस्य रश्मिषु ।येषाम् अप्सु सदस् कृतं तेभ्यः सर्पेभ्यो नमः ॥

9कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ२ ऽ इभेन ।तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥

10तव भ्रमास ऽ आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः ।तपूꣳष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥

11प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो ऽ अस्या अदब्धः ।यो नो दूरे ऽ अघशꣳसो यो ऽ अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥

12उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राँ२ ऽ ओषतात् तिग्महेते ।यो नो ऽ अरातिꣳ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥

13ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने ।अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्र मृणीहि शत्रून् ।अग्नेष् ट्वा तेजसा सादयामि ॥

14अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् ।अपाꣳ रेताꣳसि जिन्वति ।इन्द्रस्य त्वौजसा सादयामि ॥

15भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चक्रिषे हव्यवाहम् ॥

16ध्रुवासि धरुणास्तृता विश्वकर्मणा ।मा त्वा समुद्रऽउद् वधीन् मा सुपर्णोऽव्यथमाना पृथिवीं दृꣳह ॥

17प्रजापतिष् ट्वा सादयत्व् अपा पृष्ठे समुद्रस्येमन् ।व्यचस्वतीं प्रथस्वतीं प्रथस्व पृथिव्यसि ॥

18भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री ।पृथिवीं यच्छ पृथिवीं दृꣳह पृथिवीं मा हिꣳसीः ॥

19विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय ।अग्निष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

20काण्डात्-काण्डात् प्ररोहन्ती परुषः-परुषस् परि ।एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥

21या शतेन प्रतनोषि सहस्रेण विरोहसि ।तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥

22यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥

23या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥

24विराड् ज्योतिर् अधारयत् ।स्वराड् ज्योतिर् अधारयत् ।प्रजापतिष् ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् ।विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ ।अग्निष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

25मधुश् च माधवश् च वासन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः ।ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे वासन्तिकाव् ऋतू ऽअभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥

26अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः ।सहस्रवीर्यासि सा मा जिन्व ॥

27मधु वाता ऽ ऋतायते मधु क्षरन्ति सिन्धवः ।माध्वीर् नः सन्त्व् ओषधीः ॥

28मधु नक्तम् उतोषसो मधुमत् पार्थिवꣳ रजः ।मधु द्यौर् अस्तु नः पिता ॥

29मधुमान् नो वनस्पतिर् मधुमाँ२ऽ अस्तु सूर्यः ।माध्वीर् गावो भवन्तु नः ॥

30अपां गम्भन्त् सीद मा त्वा सूर्योऽभि ताप्सीन् माग्निर् वैश्वानरः ।अच्छिन्नपत्राः प्रजा ऽ अनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम् ॥

31त्रीन्त् समुद्रान्त् सम् असृपत् स्वर्गान् अपां पतिर् वृषभ ऽ इष्टकानाम् ।पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः ॥

32मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् ।पिपृतां नो भरीमभिः ॥

33विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।इन्द्रस्य युज्यः सखा ॥

34ध्रुवासि धरुणेतो जज्ञे प्रथमम् एभ्यो योनिभ्यो ऽ अधि जातवेदाः ।स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन् ॥

35इषे राये रमस्व सहसे द्युम्न ऽ ऊर्जेऽ अपत्याय ।सम्राड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम् ॥

36अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।अरं वहन्ति मन्यवे ॥

37युक्ष्वा हि देवहूतमाँ२ऽ अश्वाँ२ऽ अग्ने रथीर् इव ।नि होता पूर्व्यः सदः ॥

38सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः ।घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्ये ऽ अग्नेः ॥

39ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा ।अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च ॥

40अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ।सहस्रदा ऽ असि सहस्राय त्वा ॥

41आदित्यं गर्भं पयसा सम् अङ्धि सहस्रस्य प्रतिमां विश्वरूपम् ।परि वृङ्धि हरसा माभि मꣳस्थाः शतायुषं कृणुहि चीयमानः ॥

42वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानꣳ सरिरस्य मध्ये ।शिशुं नदीनाꣳ हरिम् अद्रिबुध्नम् अग्ने मा हिꣳसीः परमे व्योमन् ॥

43अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः ।स पर्वभिर् ऋतुशः कल्पमानो गां मा हिꣳसीर् अदितिं विराजम् ॥

44वरूत्रीं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाꣳ रजसः परस्मात् ।महीꣳ साहस्रीम् असुरस्य मायाम् अग्ने मा हिꣳसीः परमे व्योमन् ॥

45यो ऽ अग्निर् अग्नेर् अधिय् अजायत शोकात् पृथिव्या ऽ उत वा दिवस् परि ।येन प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु ॥

46चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।आप्रा द्यावापृथिवी ऽ अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च ॥

47इमं मा हिꣳसीर् द्विपादं पशुꣳ सहस्राक्षो मेधाय चीयमानः ।मयुं पशुं मेधम् अग्ने जुषस्व तेन चिन्वानस् तन्वो नि षीद ।मयुं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

48इमं मा हिꣳसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।गौरं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

49इमꣳ साहस्रꣳ शतधारम् उत्सं व्यच्यमानꣳ सरिरस्य मध्ये ।घृतं दुहानाम् अदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन् ।गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।गवयं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

50इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् ।त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिꣳसीः परमे व्योमन् ।उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

51अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽ अपश्यज् जनितारम् अग्रे ।तेन देवा देवताम् अग्रम् आयꣳस् तेन रोहम् आयन्न् उप मेध्यासः ।शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

52त्वं यविष्ठ दाशुषो नॄꣳः पाहि शृणुधी गिरः ।रक्षा तोकम् उत त्मना ॥

53अपां त्वेमन्त् सादयामि ।अपां त्वोद्मन्त् सादयामि ।अपां त्वा भस्मन्त् सादयामि ।अपां त्वा ज्योतिषि सादयामि ।अपां त्वायने सादयामि ।अर्णवे त्वा सदने सादयामि ।समुद्रे त्वा सदने सादयामि ।सरिरे त्वा सदने सादयामि ।अपां त्वा क्षये सादयामि ।अपां त्वा सधिषि सादयामि ।अपां त्वा सदने सादयामि ।अपां त्वा सधस्थे सादयामि ।अपां त्वा योनौ सादयामि ।अपां त्वा पुरीषे सादयामि ।अपां त्वा पाथसि सादयामि ।गायत्रेण त्वा छन्दसा सादयामि ।त्रैष्टुभेन त्वा छन्दसा सादयामि ।जागतेन त्वा छन्दसा सादयामि ।आनुष्टुभेन त्वा छन्दसा सादयामि ।पाश्रून त्वा छन्दसा सादयामि ॥

54अयं पुरो भुवः ।तस्य प्राणो भौवनायः ।वसन्तः प्राणायनः ।गायत्री वासन्ती ।गायत्र्यै गायत्रम् ।गायत्राद् उपाꣳशुः ।उपाꣳशोस् त्रिवृत् ।त्रिवृतो रथन्तरम् ।वसिष्ठ ऽ ऋषिः ।प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः ॥

55अयं दक्षिणा विश्वकर्मा ।तस्य मनो वैश्वकर्मणम् ।ग्रीष्मो मानसः ।त्रिष्टुब् ग्रैष्मी ।त्रिष्टुभः स्वारम् ।स्वाराद् अन्तर्यामः ।ऽअन्तर्यामात् पञ्चदशः ।पञ्चदशाद् बृहत् ।भरद्वाज ऽ ऋषिः ।प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः ॥

56अयं पश्चाद् विश्वव्यचाः ।तस्य चक्षुर् वैश्वव्यचसम् ।वर्षाश् चाक्षुष्यः ।जगती वार्षी ।जगत्या ऽ ऋक्समम् ।ऋक्समाच् छुक्रः ।शुक्रात् सप्तदशः ।सप्तदशाद् वैरूपम् ।जमदग्निर् ऋषिः ।प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्यः ॥

57इदं उत्तरात् स्वः ।तस्य श्रोत्रꣳ सौवम् ।शरच् छ्रौत्री ।अनुष्टुप् शारदी ।अनुष्टुभ ऽ ऐडम् ।ऐडान् मन्थी ।मन्थिन ऽ एकविꣳशः ऽ ।एकविꣳशाद् वैराजम् ।विश्वामित्र ऽ ऋषिः ।प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ॥

58इयं उपरि मतिः ।तस्यै वाङ् मात्या ।हेमन्तो वाच्यः ।पङ्क्तिर् हैमन्ती ।पङ्क्त्यै निधनवत् ।निधनवत ऽ आग्रयणः ।आग्रयणात् त्रिणवत्रयस्त्रिꣳशौ ।त्रिणवत्रयस्त्रिꣳशाभ्याꣳ शाक्वररैवते ।विश्वकर्म ऽ ऋषिः ।प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः ।[ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ।ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ।इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥ ]???

Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १२अध्यायः १४

Related on Dharmasthan

  • Yajurveda: contents and about
  • Om Dyauh Shanti (Shanti Path)
  • Gayatri Mantra
  • Mahamrityunjaya Mantra
  • Om Bhadram Karnebhih
  • Purusha Suktam (Taittiriya)
  • Shiva stotrams
  • Rigveda
  • All mantras