शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः १२
Ask AIWhat is Adhyaya 12 of the Yajurveda about?
The fire is carried in the pan; the ground is ploughed and sown (12.67–72); and a long hymn praises the healing plants (from 12.75), the Rigveda’s hymn to the plants.
1दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः ।अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥
2नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची ।द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥
3विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।वि नाकम् अख्यत् सविता वरेण्योऽनु प्रयाणम् उषसो वि राजति ॥
4सुपर्णोऽसि गरुत्माꣳस् त्रिवृत् ते शिरो गायत्रं चक्षुर् बृहद्रथन्तरे पक्षौ ।स्तोम ऽ आत्मा छन्दाꣳस्य् अङ्गानि यजूꣳषि नाम ।साम ते तनूर् वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः ।सुपर्णो ऽसि गरुत्मान् दिवं गच्छ स्वः पत ॥
5विष्णोः क्रमोऽसि सपत्नहा गायत्रं छन्द ऽ आ रोह पृथिवीम् अनु वि क्रमस्व ।विष्णोः क्रमोऽस्य् अभिमातिहा त्रैष्टुभं छन्द ऽ आ रोहान्तरिक्षम् अनु वि क्रमस्व ।विष्णोः क्रमोऽस्य् अरातीयतो हन्ता जागतं छन्द ऽ आ रोह दिवम् अनु वि क्रमस्व ।विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द ऽ आ रोह दिशोऽनु वि क्रमस्व ॥
6अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।सद्यो जज्ञानो वि हीम् इद्धोऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
7अग्नेऽभ्यावर्तिन्न् अभि मा नि वर्तस्वायुषा वर्चसा प्रजया धनेन ।सन्या मेधया रय्या पोषेण ॥
8अग्ने ऽ अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त ऽ उपावृतः ।अधा पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि ॥
9पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न ऽ इषायुषा ।पुनर् नः पाह्य् अꣳहसः ॥
10सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।विश्वप्स्न्या विश्वतस् परि ॥
11आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः ।विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत् ॥
12उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमꣳ श्रथाय ।अथा वयम् आदित्य व्रते तवानागसो ऽ अदितये स्याम ॥
13अग्रे बृहन्न् उषसामूर्ध्वो ऽ अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् ।अग्निर् भानुना रुशता स्वङ्ग ऽ आ जातो विश्वा सद्मान्य् अप्राः ॥
14हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् ।नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा अद्रिजा ऽ ऋतम् बृहत् ॥
15सीद त्वं मातुर् अस्या ऽ उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् ।मैनां तपसा मार्चिषाऽभिशोचीर् अन्तर् अस्याꣳ शुक्रज्योतिर् वि भाहि ॥
16अन्तर् अग्ने रुचा त्वम् उखायाः सदने स्वे ।तस्यास् त्वꣳ हरसा तपन् जातवेदः शिवो भव ॥
17शिवो भूत्वा मह्यम् अग्नेऽ अथो सीद शिवस् त्वम् ।शिवः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥
18दिवस् परि प्रथमं जज्ञे ऽ अग्निर् अस्माद् द्वितीयं परि जातवेदाः ।तृतीयम् अप्सु नृमणा ऽ अजस्रम् इन्धान ऽ एनं जरते स्वाधीः ॥
19विद्मा ते ऽ अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत ऽ आजगन्थ ॥
20समुद्रे त्वा नृमणा ऽ अप्स्व् अन्तर् नृचक्षा ऽ ईधे दिवो अग्न ऽ ऊधन् ।तृतीये त्वा रजसि तस्थिवाꣳसम् अपाम् उपस्थे महिषा ऽ अवर्धन् ॥
21अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
22श्रीणाम् उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।वसुः सूनुः सहसो ऽ अप्सु राजा वि भात्य् अग्र ऽ उषसाम् इधानः ॥
23विश्वस्य केतुर् भुवनस्य गर्भऽ आ रोदसी ऽ अपृणाज् जायमानः ।वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥
24उशिक् पावको अरतिः सुमेधा मर्त्येष्व् अग्निर् अमृतो नि धायि ।इयर्ति धूमम् अरुषं भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥
25दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः ।अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥
26यस् ते अद्य कृणवद् भद्रशोचेऽपूपं देव घृतवन्तम् अग्ने ।प्र तं नय प्रतरं वस्यो ऽ अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥
27आ तं भज सौश्रवसेष्व् अग्न ऽ उक्थ ऽ उक्थ ऽ आ भज शस्यमाने ।प्रियः सूर्ये प्रियो ऽ अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥
28त्वाम् अग्ने यजमाना ऽ अनु द्यून् विश्वा वसु दधिरे वार्याणि ।त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥
29अस्ताव्य् अग्निर् नराꣳ सुशेवो वैश्वानर ऽ ऋषिभिः सोमगोपाः ।अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥
30समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।आस्मिन् हव्या जुहोतन ॥
31उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः ।स नो भव शिवस् त्वꣳ सुप्रतीको विभावसुः ॥
32प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिष् ट्वम् ।बृहद्भिर् भानुभिर् भासन् मा हिꣳसीस् तन्वा प्रजाः ॥
33अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
34प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः ।अभि यः पूरुं पृतनासु तस्थउ दीदाय दैव्यो ऽ अतिथिः शिवो नः ॥
35आपो देवीः प्रति गृभ्णीत भस्मैतत् स्योने कृणुध्वꣳ सुरभा ऽ उ लोके ।तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रं बिभृताप्स्व् एनत् ॥
36अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे ।गर्भै सन् जायसे पुनः ॥
37गर्भोऽअस्य् ओषधीनां गर्भो वनस्पतीनाम् ।गर्भो विश्वस्य भूतस्याग्ने गर्भोऽअपाम् असि ॥
38प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने ।सꣳसृज्य मातृभिष् ट्वं ज्योतिष्मान् पुनर् आसदः ॥
39पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने ।शेषे मातुर् यथोपस्थे ऽन्तर् अस्याꣳ शिवतमः ॥
40पुनर् ऊर्जा निवर्तस्व पुनर् अग्न ऽ इषायुषा ।पुनर् नः पाह्य् अꣳहसः ॥
41सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।विश्वप्स्न्या विश्वतस् परि ॥
42बोधा मे ऽ अस्य वचसो यविष्ठ मꣳहिष्ठस्य प्रभृतस्य स्वधावः ।पीयति त्वो ऽ अनु त्वो गृणाति वन्दारुष् टे तन्वं वन्दे ऽ अग्ने ॥
43स बोधि सूरिर् मघवा वसुपते वसुदावन् ।युयोध्य् अस्मद् द्वेषाꣳसि ।विश्वकर्मणे स्वाहा ॥
44पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धतां पुनर् ब्रह्माणो वसुनीथ यज्ञैः ।घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥
45अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः ।अदाद् यमो ऽवसानं पृथिव्या ऽ अक्रन्न् इमं पितरो लोकम् अस्मै ॥
46संज्ञानम् असि ।कामधरणम् ।मयि ते कामधरणं भूयात् ।अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि ।चित स्थ परिचित ऽ ऊर्ध्वचितः श्रयध्वम् ॥
47अयꣳ सो ऽ अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः ।सहस्रिणं वाजम् अत्यं न सप्तिꣳ ससवान्त् सन्त् स्तूयसे जातवेदः ॥
48अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र ।येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥
49अग्ने दिवोऽ अर्णम् अच्छा जिगास्य् अच्छा देवाꣳ ऽ ऊचिषे धिष्ण्या ये ।या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त ऽ आपः ॥
50पुरीष्यासो ऽ अग्नयः प्रावणेभिः सजोषसः ।जुषन्तां यज्ञम् अद्रुहोऽनमीवा ऽइषो महीः ॥
51इडाम् अग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध ।स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
52अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।तं जानन्न् अग्न ऽ आ रोहाथा नो वर्धया रयिम् ॥
53चिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
54लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥
55ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥
56इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः ।रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥
57समितꣳ सं कल्पेथाꣳ सम्प्रियौ रोचिष्णू सुमनस्यमानौ ।इषमूर्जम् अभि संवसानौ ॥
58सं वां मनाꣳसि सं व्रता सम् उ चित्तान्य् आकरम् ।अग्ने पुरीष्याधिपा भव त्वं न ऽ इषमूर्जं यजमानाय धेहि ॥
59अग्ने त्वं पुरीष्यो रयिमान् पुष्टिमाꣳ२ ऽ असि ।शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥
60भवतं नः समनसौ सचेतसाव् अरेपसौ ।मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
61मातेव पुत्रं पृथिवी पुरीष्यम् अग्निꣳ स्वे योनाव् अभार् उखा ।तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु ॥
62असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्याम् अन्व् इहि तस्करस्य ।अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु ॥
63नमः सु ते निर्ऋते तिग्मतेजो ऽयस्मयं वि चृता बन्धम् एतम् ।यमेन त्वं यम्या संविदानोत्तमे नाके ऽ अधि रोहयैनम् ॥
64यस्यास् ते घोर ऽ आसन् जुहोम्य् एषां बन्धानाम् अवसर्जनाय ।यां त्वा जनो भूमिर् इति प्रमन्दते निर्ऋतिं त्वाहं परि वेद विश्वतः ॥
65यं ते देवी निर्ऋतिर् आबबन्ध पाशं ग्रीवास्व् अविचृत्यम् ।तं ते वि ष्याम्य् आयुषो न मध्याद् अथैतं पितुम् अद्धि प्रसूतः ।नमो भूत्यै येदं चकार ॥
66निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे शचीभिः ।देव ऽ इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥
67सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।धीरा देवेषु सुम्नया ॥
68युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।गिरा च श्रुष्टिः सभरा असन् नो नेदीयऽ इत् सृण्यः पक्वम् एयात् ॥
69शुनꣳ सु फाला वि कृषन्तु भूमिꣳ शुनं कीनाशा ऽ अभि यन्तु वाहैः ।शुनासीरा हविषा तोशमाना सुपिप्पला ऽ ओषधीः कर्तनास्मे ॥
70घृतेन सीता मधुना सम् अज्यतां विश्वैर् देवैर् अनुमता मरुद्भिः ।ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाभ्या ववृत्स्व ॥
71लाङ्गलं पवीरवत् सुशेवꣳ सोमपित्सरु ।तद् उद् वपति गाम् अविं प्रफर्व्यं च पीवरीं प्रस्थावद् रथवाहनम् ॥
72कामं कामदुघे धुक्ष्व मित्राय वरुणाय च ।इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ऽ ओषधीभ्यः ॥
73वि मुच्यध्वम् अघ्न्या देवयाना ऽ अगन्म तमसस् पारम् अस्य ज्योतिर् आपाम ॥
74सजूर् अब्दो ऽ अयवोभिः सजूर् उषा ऽ अरुणीभिः सजोषसाव् अश्विना दꣳसोभिः सजूः सूर ऽ एतशेन सजूर् वैश्वानर ऽ इडया घृतेन स्वाहा ॥
75या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगं पुरा ।मनै नु बभ्रूणाम् अहꣳ शतं धामानि सप्त च ॥
76शतं वो ऽ अम्ब धामानि सहस्रम् उत वो रुहः ।अधा शतक्रत्वो यूयम् इमं मे ऽ अगदं कृत ॥
77ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।अश्वा ऽ इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥
78ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे ।सनेयम् अश्वं गां वास ऽ आत्मानं तव पूरुष ॥
79अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता ।गोभाज ऽ इत् किलासथ यत् सनवथ पूरुषम् ॥
80यत्रौषधीः समग्मत राजानः समिताव् इव ।विप्रः स ऽ उच्यते भिषग् रक्षोहामीवचातनः ॥
81अश्वावतीꣳ सोमावतीमूर्जयन्तीम् उदोजसम् ।आवित्सि सर्वा ऽ ओषधीर् अस्मा अरिष्टतातये ॥
82उच् छुष्मा ऽ ओषधीनां गावो गोष्ठाद् इवेरते ।धनꣳ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥
83इष्कृतिर् नाम वो माताथो यूयꣳ स्थ निष्कृतीः ।सीराः पतत्रिणी स्थन यद् आमयति निष्कृथ ॥
84अति विश्वाः परिष्ठा स्तेन इव ऽ व्रजम् अक्रमुः ।ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥
85यद् इमा वाजयन्न् अहम् ओषधीर् हस्त ऽ आदधे ।आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
86यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गं परुष्-परुः ।ततो यक्ष्मं वि बाधध्व ऽ उग्रो मध्यमशीर् इव ॥
87साकं यक्ष्म प्रपत चाषेण किकिदीविना ।साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
88अन्या वो ऽ अन्याम् अवत्व् अन्यान्यस्या ऽ उपावत ।ताः सर्वाः संविदाना ऽ इदं मे प्रावता वचः ॥
89याः फलिनीर् या ऽ अफला ऽ अपुष्पा याश् च पुष्पिणीः ।बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अꣳहसः ॥
90मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत ।अथो यमस्य पड्वीशात् सर्वस्माद् देवकिल्विषात् ॥
91अवपतन्तीर् अवदन् दिव ऽ ओषधयस् परि ।यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥
92या ऽ ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः ।तासाम् असि त्वम् उत्तमारं कामाय शꣳ हृदे ॥
93या ऽ ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु ।बृहस्पतिप्रसूता ऽ अस्यै सं दत्त वीर्यम् ॥
94याश् चेदम् उपशृण्वन्ति याश् च दूरं परागताः ।सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥
95मा वो रिषत् खनिता यस्मै चाहं खनामि वः ।द्विपाच् चतुष्पाद् अस्माकꣳ सर्वम् अस्त्व् अनातुरम् ॥
96ओषधयः सम् अवदन्त सोमेन सह राज्ञा ।यस्मै कृणोति ब्राह्मणस् तꣳ राजन् पारयामसि ॥
97नाशयित्री बलासस्यार्शस ऽउपचिताम् असि ।अथो शतस्य यक्ष्माणां पाकारोर् असि नाशनी ॥
98त्वां गन्धर्वा ऽअखनꣳस् त्वाम् इन्द्रस् त्वां बृहस्पतिः ।त्वाम् ओषधे सोमो राजा विद्वान् यक्ष्माद् अमुच्यत ॥
99सहस्व मे ऽ अरातीः सहस्व पृतनायतः ।सहस्व सर्वं पाप्मानꣳ सहमानास्य् ओषधे ॥
100दीर्घायुस्त ऽ ओषधे खनिता यस्मै च त्वा खनाम्य् अहम् ।अथो त्वं दीर्घायुर् भूत्वा शतवल्शा वि रोहतात् ॥
101त्वम् उत्तमास्य् ओषधे तव वृक्षा ऽ उपस्तयः ।उपस्तिर् अस्तु सो स्माकं योऽअस्माꣳ२ऽ अभिदासति ॥
102मा मा हिꣳसीज् जनिता यः पृथिव्या यो वा दिवꣳ सत्यधर्मा व्यानट् ।यश् चापश् चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥
103अभ्या वर्तस्व पृथिवि यज्ञेन पयसा सह ।वपां ते अग्निर् ऽ इषितो ऽ अरोहत् ॥
104अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् ।तद् देवेभ्यो भरामसि ॥
105इषमूर्जम् अहम् इत ऽ आदम् ऋतस्य योनिं महिषस्य धाराम् ।आ मा गोषु विशत्वा तनूषु जहामि सेदिम् अनिराम् अमीवाम् ॥
106अग्ने तव श्रवो वयो महि भ्राजन्ते ऽ अर्चयो विभावसो ।बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥
107पावकवर्चाः शुक्रवर्चा ऽ अनूनवर्चा ऽ उद् इयर्षि भानुना ।पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी ऽ उभे ॥
108ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः ।त्वे ऽ इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥
109इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो ऽ अमर्त्य ।स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥
110इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः ।रातिं वामस्य सुभगां महीम् इषं दधासि सानसिꣳ रयिम् ॥
111ऋतावानं महिषं विश्वदर्शतम् अग्निꣳ सुम्नाय दधिरे पुरो जनाः ।श्रुत्कर्णꣳ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥
112आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् ।भवा वाजस्य संगथे ॥
113सं ते पयाꣳसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः ।आप्यायमानो ऽ अमृताय सोम दिवि श्रवाꣳस्य् उत्तमानि धिष्व ॥
114आ प्यायस्व मदिन्तम सोम विश्वेभिर् अꣳशुभिः ।भवा नः सुश्रवस्तमः सखा वृधे ॥
115आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् ।अग्ने त्वां कामया गिरा ॥
116तुभ्यं ता ऽ अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।अग्ने कामाय येमिरे ॥
117अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।सम्राड् एको वि राजति ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.