शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः ११
Ask AIWhat is Adhyaya 11 of the Yajurveda about?
The Agnichayana, the building of the great fire altar, begins here and runs to adhyaya 18. This adhyaya opens with “Yunjanah prathamam manah”, harnessing first the mind, and makes the fire pan (ukha).
1युञ्जानः प्रथमं मनस् तत्वाय सविता धियम् ।अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आभरत् ॥
2युक्तेन मनसा वयं देवस्य सवितुः सवे ।स्वर्ग्याय शक्त्या ॥
3युक्त्वाय सविता देवान्त् स्वर्यतो धिया दिवम् ।बृहज् ज्योतिः करिष्यतः सविता प्र सुवाति तान् ॥
4युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः ॥
5युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक ऽ एतु पथ्येव सूरेः ।शृण्वन्तु विश्वे ऽ अमृतस्य पुत्रा ऽ आ ये धामानि दिव्यानि तस्थुः ॥
6यस्य प्रयाणम् अन्व् अन्य ऽ इद् ययुर् देवा देवस्य महिमानम् ओजसा ।यः पार्थिवानि विममे स ऽ एतशो रजासि देवः सविता महित्वना ॥
7देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचं नः स्वदतु ॥
8इमं नो देव सवितर् यज्ञं प्र णय देवाव्यꣳ सखिविदꣳ सत्राजितं धनजितꣳ स्वर्जितम् ।ऋचा स्तोमꣳ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहा ॥
9देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।आ ददे गायत्रेण छन्दसाङ्गिरस्वत् पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन छन्दसाङ्गिरस्वत् ॥
10अभ्रिर् असि नार्य् असि त्वया वयम् अग्निꣳ शकेम खनितुꣳ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत् ॥
11हस्त ऽ आधाय सविता बिभ्रद् अभ्रिꣳ हिरण्ययीम् ।अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आ भर ।आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥
12प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु सम्वतम् ।दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत् ॥
13युञ्जाथाꣳ रासभं युवम् अस्मिन् यामे वृषण्वसू ।अग्निं भरन्तम् अस्मयुम् ॥
14योगे-योगे तवस्तरं वाजे-वाजे हवामहे ।सखाय ऽ इन्द्रमूतये ॥
15प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तो रुद्रस्य गाणपत्यं मयोभूर् एहि ।उर्व् अन्तरिक्षं वीहि ।स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥
16पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर ।अग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमः ।ऽ अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ॥
17अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः ।अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी ऽ आ ततन्थ ॥
18आगत्य वाज्य् अध्वानꣳ सर्वा मृधो विधूनुते ।अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते ॥
19आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् ।भूम्या वृक्त्वाय नो ब्रूहि यतः खनेम तं वयम् ॥
20द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षꣳ समुद्रो योनिः ।विख्याय चक्षुषा त्वम् अभि तिष्ठ पृतन्यतः ॥
21उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् ।वयꣳ स्याम सुमतौ पृथिव्या ऽ अग्निं खनन्त ऽ उपस्थे ऽ अस्याः ॥
22उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकꣳ सुकृतं पृथिव्याम् ।ततः खनेम सुप्रतीकम् अग्निꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥
23आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥
24आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत ।मर्यश्री स्पृहयद्वर्णो ऽ अग्निर् नाभिमृशे तन्वा जर्भुराणः ॥
25परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।दधद् रत्नानि दाशुषे ॥
26परि त्वाग्ने पुरं वयं विप्रꣳ सहस्य धीमहि ।धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम् ॥
27त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि ।त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥
28देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि ।ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतम् ।शिवं प्रजाभ्यो ऽहिꣳसन्तं पृथिव्या सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः ॥
29अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।वर्धमानो महाꣳ२ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥
30शर्म च स्थो वर्म च स्थो ऽच्छिद्रे बहुले ऽ उभे ।व्यचस्वती सं वसाथां भृतम् अग्निं पुरीष्यम् ॥
31संवसाथा स्वर्विदा समीची ऽ उरसा त्मना ।अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत् ॥
32पुरीष्यो सि विश्वभरा ऽ अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने ।त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।मूर्ध्नो विश्वस्य वाघतः ॥
33तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ऽ ईधे अथर्वणः ।वृत्रहणं पुरंदरम् ॥
34तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।धनंजयꣳ रणे-रणे ॥
35सीद होतः स्व ऽ उ लोके चिकित्वान् सादया यज्ञꣳ सुकृतस्य योनौ ।देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
36नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ२ ऽ असदत् सुदक्षः ।अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो ऽ अग्निः ॥
37सꣳ सीदस्व महाꣳ२ ऽ असि शोचस्व देववीतमः ।वि धूमम् ऽ अग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥
38अपो देवीर् उपसृज मधुमतीर् अयक्ष्माय प्रजाभ्यः ।तासाम् आस्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः ॥
39सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् ।यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् ॥
40सुजातो ज्योतिषा सह शर्म वरूथम् आसदत् स्वः ।वासो ऽ अग्ने विश्वरूपꣳ संव्ययस्व विभावसो ॥
41उद् उ तिष्ठ स्वध्वरावा नो देव्या धिया ।दृशे च भासा बृहता शुशुक्वनिर् आग्ने याहि सुशस्तिभिः ॥
42ऊर्ध्व ऽ ऊ षु ण ऽ ऊतये तिष्ठा देवो न सविता ।ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥
43स जातो गर्भो ऽ असि रोदस्योर् अग्ने चारुर् विभृत ऽ ओषधीषु ।चित्रः शिशुः परि तमास्य् अक्तून् प्र मातृभ्यो ऽ अधि कनिक्रदद् गाः ॥
44स्थिरो भव वीड्व् अङ्ग ऽ आशुर् भव वाज्य् अर्वन् ।पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहणः ॥
45शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः ।मा द्यावापृथिवी ऽ अभि शोचीर् मान्तरिक्षं मा वनस्पतीन् ॥
46प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा ।भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा ।वृषाग्निं वृषणं भरन्न् अपां गर्भꣳ समुद्रियम् ।अग्न ऽ आयाहि वीतये ॥
47ऋतꣳ सत्यम् ऋतꣳ सत्यम् ।अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः ।ओषधयः प्रति मोदध्वम् अग्निम् एतꣳ शिवम् आयन्तम् अभ्य् अत्र युष्माः ।व्यस्यन् विश्वा ऽ अनिरा ऽ अमीवा निषीदन् नो ऽ अप दुर्मतिं जहि ॥
48ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः ।अयं वो गर्भ ऽ ऋत्वियः प्रत्नꣳ सधस्थम् आसदत् ॥
49वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो ऽ अमीवाः ।सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहꣳ सुहवस्य प्रणीतौ ॥
50आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन ।महे रणाय चक्षसे ॥
51यो वः शिवतमो रसस् तस्य भाजयतेह नः ।उशतीर् इव मातरः ॥
52तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ ।आपो जनयथा च नः ॥
53मित्रः सꣳसृज्य पृथिवीं भूमिं च ज्योतिषा सह ।सुजातं जातवेदसम् अयक्ष्माय त्वा सꣳ सृजामि प्रजाभ्यः ॥
54रुद्राः सꣳसृज्य पृथिवीं बृहज् ज्योतिः सम् ईधिरे ।तेषां भानुर् अजस्र ऽ इच् छुक्रो देवेषु रोचते ॥
55सꣳसृष्टा वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् ।हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥
56सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा ।सा तुभ्यम् अदिते मह्योखां दधातु हस्तयोः ॥
57उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया ।माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ ऽ आ ।मखस्य शिरोऽसि ॥
58वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् ध्रुवासि पृथिव्यसि ।धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवास्य् अन्तरिक्षम् असि ।धारया मयि प्रजाꣳ रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् ध्रुवासि द्यौर् असि ।धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् ध्रुवासि दिशोऽसि ।धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ॥
59अदित्यै राम्नासि ।अदितिष् टे बिलं गृभ्णातु ।कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये ।पुत्रेभ्यः प्रायच्छद् अदितिः श्रपयान् इति ॥
60वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत् ।विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ।इन्द्रस् त्वा धूपयतु ।वरुणस् त्वा धूपयतु ।विष्णु त्वा धूपयतु ॥
61अदितिष् ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् खनत्व् अवट ।देवानाम् त्वा पत्नीर् देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् दधतूखे ।धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् अभीन्धताम् उखे ।वरूत्रीष् ट्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वच् छ्रपयन्तूखे ।ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ।जनयस् त्वाच्छिन्नपत्रा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ॥
62मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।द्युम्नं चित्रश्रवस्तमम् ॥
63देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुर् उत शक्त्या ।अव्यथमाना पृथिव्याम् आशा दिश ऽ आ पृण ॥
64उत्थाय बृहती भवोद् उ तिष्ठ ध्रुवा त्वम् ।मित्रैतां तऽउखां परि ददाम्य् अभित्त्या ऽएषा मा भेदि ॥
65वसवस् त्वा छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।रुद्रास् त्वा छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।आदित्यास् त्वा छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत् ।विश्वे त्वा देवा वैश्वानरा ऽ आ छृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥
66आकूतिम् अग्निं प्रयुजꣳ स्वाहा ।मनो मेधाम् अग्निं प्रयुजꣳ स्वाहा ।चित्तं विज्ञातम् अग्निं प्रयुजꣳ स्वाहा ।वाचो विधृतिम् अग्निं प्रयुजꣳ स्वाहा ।प्रजापतये मनवे स्वाहा ।ऽ अग्नये वैश्वानराय स्वाहा ॥
67विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥
68मा सु भित्था मा सु रिषो ऽम्ब धृष्णु वीरयस्व सु ।अग्निश् चेदं करिष्यथः ॥
69दृꣳहस्व देवि पृथिवि स्वस्तय ऽ आसुरी माया स्वधया कृतासि ।जुष्टं देवेभ्य ऽ इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे ऽ अस्मिन् ॥
70द्र्वन्न सर्पिरासुतिः प्रत्नो होता वरेण्यः ।सहसस् पुत्रो ऽ अद्भुतः ॥
71परस्या ऽ अधि संवतो वराꣳ ऽ अभ्य् आतर ।यत्राहम् अस्मि ताꣳ ऽ अव ॥
72परमस्याः परावतो रोहिद् अश्व ऽ इहा गहि ।पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः ॥
73यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि ।सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥
74यद् अत्त्य् उपजिह्विका यद् वम्रो ऽ अतिसर्पति ।सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥
75अहर्-अहर् अप्रयावं भरन्तोऽश्वायेव तिष्ठते घासम् अस्मै ।रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥
76नाभा पृथिव्याः समिधाने ऽ अग्नौ रायस्पोषाय बृहते हवामहे ।इरंमदं बृहदुक्थ्यं यजत्रं जेतारम् अग्निं पृतनासु सासहिम् ॥
77याः सेना ऽ अभीत्वरीर् आव्याधिनीर् उगणा ऽ उत ।ये स्तेना ये च तस्करास् ताꣳस् ते ऽ अग्ने ऽपि दधाम्य् आस्ये ॥
78दꣳष्ट्राभ्यां मलिम्लून् जम्भ्यैस् तस्कराꣳ ऽउत ।हनुभ्याꣳ स्तेनान् भगवस् ताꣳस् त्वं खाद सुखादितान् ॥
79ये जनेषु मलिम्लव स्तेनासस् तस्करा वने ।ये कक्षेष्व् अघायवस् ताꣳस् ते दधामि जम्भयोः ॥
80यो ऽ अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः ।निन्दाद् यो ऽ अस्मान् धिप्साच् च सर्वं तं भस्मसा कुरु ॥
81सꣳशितं मे ब्रह्म सꣳशितं वीर्यं बलम् ।सꣳशितं क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥
82उद् एषां बाहू ऽ अतिरम् उद् वर्चो ऽ अथो बलम् ।क्षिणोमि ब्रह्मणामित्रान् उन् नयामि स्वाꣳ अहम् ॥
83अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः ।प्र-प्र दातारं तारिष ऽऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.