शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः २०
Ask AI1क्षत्रस्य योनिर् असि क्षत्रस्य नाभिर् असि ।मा त्वा हिꣳसीन् मा मा हिꣳसीः ॥
2नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ ।साम्राज्याय सुक्रतुः ।मृत्योः पाहि ।विद्योत् पाहि ॥
3देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।अश्विनोर् भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि ।सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामि ।इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥
4को ऽसि कतमो ऽसि कस्मै त्वा काय त्वा ।सुश्लोक सुमङ्गल सत्यराजन् ॥
5शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि ।राजा मे प्राणो ऽ अमृतꣳ सम्राट् चक्षुर् विराट् श्रोत्रम् ॥
6जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।मोदाः प्रमोदा ऽ अङ्गुलीर् अङ्गानि मित्रं मे सहः ॥
7बाहू मे बलम् इन्द्रियꣳ हस्तौ मे कर्म वीर्यम् ।आत्मा क्षत्रम् उरो मम ॥
8पृष्टीर् मे राष्ट्रम् उदरम् अꣳसौ ग्रीवाश् च श्रोणी ।ऊरू ऽ अरत्नी जानुनी विशो मे ऽङ्गानि सर्वतः ॥
9नाभिर् मे चित्तं विज्ञानं पायुर् मे ऽपचितिर् भसत् ।आनन्दनन्दाव् आण्डौ मे भगः सौभाग्यं पसः ।जङ्घाभ्यां पद्भ्यां धर्मो ऽस्मि विशि राजा प्रतिष्ठितः ॥
10प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्य् अश्वेषु प्रति तिष्ठामि गोषु ।प्रत्य् अङ्गेषु प्रति तिष्ठाम्य् आत्मन् प्रति प्राणेषु क्षत्रे प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि ॥
11त्रया देवा ऽ एकादश त्रयस्त्रिꣳशाः सुराधसः ।बृहस्पतिपुरोहिता देवस्य सवितुः सवे ।देवा देवैर् अवन्तु मा ॥
12प्रथमा द्वितीयैर् द्वितीयास् तृतीयैस् तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर् यजूꣳषि सामभिः सामान्य् ऋग्भिर् ऋचः पुरोनुऽवाक्याभिः पुरोऽनुवाक्या याज्याभिर् याज्या वषट्कारैर् वषट्कारा ऽ आहुतिभिर् आहुतयो मे कामान्त् सम् अर्धयन्तु भूः स्वाहा ॥
13लोमानि प्रयतिर् मम त्वङ् म ऽ आनतिर् आगतिः ।माꣳसं म ऽ उपनतिर् वस्व् अस्थि मज्जा म ऽ आनतिः ॥
14यद् देवा देवहेडनं देवासश् चकृमा वयम् ।अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः ॥
15यदि दिवा यदि नक्तम् एनाꣳसि चकृमा वयम् ।वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः ॥
16यदि जाग्रद् यदि स्वप्न ऽ एनाꣳसि चकृमा वयम् ।सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः ॥
17यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।यच्छूद्रे यद् अर्ये यद् एनश् चकृमा वयं यद् एकस्याधि धर्मणि तस्यावयजनम् असि ॥
18यद् आपो ऽ अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।अव देवैर् देवकृतम् एनो ऽयक्ष्य् अव मर्त्यैर् मर्त्यकृतम् ।पुरुराव्णो देव रिषस् पाहि ॥
19समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
20द्रुपदाद् इव मुमुचानः स्विन्नः स्नातो मलाद् इव ।पूतं पवित्रेणेवाज्यम् आपः शुन्धन्तु मैनसः ॥
21उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
22अपो ऽ अद्यान्व् अचारिषꣳ रसेन सम् असृक्ष्महि ।पयस्वान् अग्न ऽ आगमं तं मा सꣳ सृज वर्चसा प्रजया च धनेन च ॥
23एधोऽस्य् एधिषीमहि ।समिद् असि तेजो ऽसि तेजो मयि धेहि ।समाववर्ति पृथिवी सम् उषाः सम् उ सूर्यः ।सम् उ विश्वम् इदं जगत् ।वैश्वानरज्योतिर् भूयासं विभून् कामान् व्यश्नवै भूः स्वाहा ॥
24अभ्यादधामि समिधम् अग्ने व्रतपते त्वयि ।व्रतं च श्रद्धां चोपैमीन्धे त्वा दीक्षितोऽअहम् ॥
25यत्र ब्रह्म च क्षत्रं च सम्यञ्चो चरतः सह ।तं लोकं पुण्यं प्रज्ञेषं यत्र देवाः सहाग्निना ॥
26यत्रेन्द्रश् च वायुश् च सम्यञ्चो चरतः सह ।तं लोकं पुण्यं प्रज्ञेषं यत्र सेदिर् न विद्यते ॥
27अꣳशुना ते अꣳशुः पृच्यतां परुषा परुः ।गन्धस् ते सोमम् अवतु मदाय रसोऽअच्युतः ॥
28सिञ्चन्ति परि षिञ्चन्त्य् उत् सिञ्चन्ति पुनन्ति च ।सुरायै बभ्र्वै मदे किंत्वो वदति किंत्वः ॥
29धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ।इन्द्र प्रातर् जुषस्व नः ॥
30बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् ।येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥
31अध्वर्यो ऽ अद्रिभिः सुतꣳ सोमं पवित्र ऽ आ नय ।पुनीहीन्द्राय पातवे ॥
32यो भूतानाम् अधिपतिर् यस्मिंल्लोका ऽ अधि श्रिताः ।य ऽ ईशे महतो महाꣳस् तेन गृह्णामि त्वाम् अहं मयि गृह्णामि त्वाम् अहम् ॥
33उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णेऽ ।एष ते योनिर् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥
34प्राणपा मे ऽअपानपाश् चक्षुष्पाः श्रोत्रपाश् च मे ।वाचो मे विश्वभेषजो मनसो ऽसि विलायकः ॥
35अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुत्राम्णा कृतस्य ।उपहूत ऽउपहूतस्य भक्षयामि ॥
36समिद्ध ऽ इन्द्र ऽ उषसाम् अनीके पुरोरुचा पूर्वकृद् वावृधानः ।त्रिभिर् देवैस् त्रिꣳशता वज्रबाहुर् जघान वृत्रं वि दुरो ववार ॥
37नराशꣳसः प्रति शूरो मिमानस् तनूनपात् प्रति यज्ञस्य धाम ।गोभिर् वपावान् मधुना समञ्जन् हिरण्यैश् चन्द्री यजति प्रचेताः ॥
38ईडितो देवैर् हरिवाꣳ२ऽ अभिष्टिर् आजुह्वानो हविषा शर्धमानः ।पुरंदरो गोत्रभिद् वज्रबाहुर् आ यातु यज्ञम् उप नो जुषाणः ॥
39जुषाणो बर्हिर् हरिवान् न ऽ इन्द्रः प्राचीनꣳ सीदत् प्रदिशा पृथिव्याः ।उरुप्रथाः प्रथमानꣳ स्योनम् आदित्यैर् अक्तं वसुभिः सजोषाः ॥
40इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयः सुपत्नीः ।द्वारो देवीर् अभितो वि श्रयन्ताꣳ सुवीरा वीरं प्रथमाना महोभिः ॥
41उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरम् इन्द्रम् ।तन्तुं ततं पेशसा संवयन्ती देवानां देवं यजतः सुरुक्मे ॥
42दैव्या मिमाना मनुषः पुरुत्रा होताराव् इन्द्रं प्रथमा सुवाचा ।मूर्द्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर् हविषा वृधातः ॥
43तिस्रो देवीर् हविषा वर्धमाना ऽ इन्द्रं जुषाणा जनयो न पत्नीः ।अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥
44त्वष्टा दधच्छुष्मम् इन्द्राय वृष्णे ऽपाको ऽचिष्टुर् यशसे पुरूणि ।वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥
45वनस्पतिर् अवसृष्टो न पाशैस् त्मन्या समञ्जञ्छमिता न देवः ।इन्द्रस्य हव्यैर् जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन ॥
46स्तोकानां इन्दुं प्रति शूर ऽ इन्द्रो वृषायमाणो वृषभस् तुराषाट् ।घृतप्रुषा मनसा मोदमानाः स्वाहा देवा ऽ अमृता मादयन्ताम् ॥
47आ यात्व् इन्द्रो ऽवस ऽ उप न ऽ इह स्तुतः सधमादस्तु शूरः ।वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥
48आ न ऽ इन्द्रो दूराद् आ न ऽ आसाद् अभिष्टिकृद् अवसे यासद् उग्रः ।ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥
49आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च ।तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥
50त्रातारम् इन्द्रम् अवितारम् इन्द्रꣳ हवे-हवे सुहवꣳ शूरम् इन्द्रम् ।ह्वयामि शक्रं पुरुहूतम् इन्द्रꣳ स्वस्ति नो मघवा धात्व् इन्द्रः ॥
51इन्द्रः सुत्रामा स्ववाꣳ२ऽ अवोभिः सुमृडीको भवतु विश्ववेदाः ।बाधतां द्वेषो ऽ अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
52तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।स सुत्रामा स्ववाꣳ२ऽ इन्द्रो ऽ अस्मे आराच्चिद् द्वेषः सनुतर् युयोतु ॥
53आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः ।मा त्वा के चिन् नि यमन् विं ना पाशिनो ऽति धन्वेव ताꣳ२ऽ इहि ॥
54एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो ऽ अभ्य् अर्चन्त्य् अर्कैः ।स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः ॥
55समिद्धो ऽ अग्निर् अश्विना तप्तो घर्मो विराट् सुतः ।दुहे धेनुः सरस्वती सोमꣳ शुक्रम् इहेन्द्रियम् ॥
56तनूपा भिषजा सुते ऽश्विनोभा सरस्वती ।अध्वा रजाꣳसीन्द्रियम् इन्द्राय पथिभिर् वहान् ॥
57इन्द्रायेन्दुꣳ सरस्वती नराशꣳसेन नग्नहुम् ।अधाताम् अश्विना मधु भेषजं भिषजा सुते ॥
58आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।इडाभिर् अश्विनाव् इषꣳ समूर्जꣳ सꣳ रयिं दधुः ॥
59अश्विना नमुचेः सुतꣳ सोमꣳ शुक्रं परिस्रुता ।सरस्वती ताम् आभरद् बर्हिषेन्द्राय पातवे ॥
60कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः ।इन्द्रो न रोदसी ऽ उभे दुहे कामान्त् सरस्वती ॥
61उषासानक्ताश्विना दिवेन्द्रꣳ सायम् इन्द्रियैः ।संजानाने सुपेशसा सम् अञ्जाते सरस्वत्या ॥
62पातं नो ऽ अश्विना दिवा पाहि नक्तꣳ सरस्वति ।दैव्या होतारा भिषजा पाताम् इन्द्रꣳ सचा सुते ॥
63तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा ।तीव्रं परिस्रुता सोमम् इन्द्राय सुषुवुर् मदम् ॥
64अश्विना भेषजं मधु भेषजं नः सरस्वती ।इन्द्रे त्वष्टा यशः श्रियꣳ रूपꣳ-रूपम् अधुः सुते ॥
65ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता ।कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥
66गोभिर् न सोमम् अश्विना मासरेण परिस्रुता ।सम् अधातꣳ सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥
67अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती ।आ शुक्रम् आसुराद् वसु मघम् इन्द्राय जभ्रिरे ॥
68यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् ।स बिभेद वलं मघं नमुचाव् आसुरे सचा ॥
69तम् इन्द्रꣳ सचाश्विनोभा सरस्वती ।दधाना ऽ अभ्य् अनूषत हविषा यज्ञ ऽ इन्द्रियैः ॥
70य ऽ इन्द्र ऽ इन्द्रियं दधुः सविता वरुणो भगः ।स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥
71सविता वरुणो दधद् यजमानाय दाशुषे ।आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम् ॥
72वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् ।सुत्रामा यशसा बलं दधाना यज्ञम् आशत ॥
73अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् ।हविषेन्द्रꣳ सरस्वती यजमानम् अवर्द्धयन् ॥
74ता नासत्या सुपेशसा हिरण्यवर्तनी नरा ।सरस्वती हविष्मतीन्द्र कर्मसु नो ऽवत ॥
75ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम् ॥
76युवꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा ।विपिपानाः सरस्वतीन्द्रं कर्मस्व् आवत ॥
77पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः ।यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥
78यस्मिन्न् अश्वास ऽ ऋषभास ऽ उक्षणो वशा मेषा ऽ अवसृष्टास ऽ आहुताः ।कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥
79अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।वाजसनिꣳ रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
80अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् ।वाचेन्द्रो बलेनेन्द्राय दधुर् इन्द्रियम् ॥
81गोमद् ऊ षु णासत्या अश्वावद् यातम् अश्विना ।वर्ती रुद्रा नृपाय्यम् ॥
82न यत् परो नान्तरऽ आदधर्षद् वृषण्वसू ।दुःशꣳसो मर्त्यो रिपुः ॥
83ता न ऽ आ वोढम् अश्विना रयिं पिशङ्गसंदृशम् ।धिष्ण्या वरिवोविदम् ॥
84पावका नः सरस्वती वाजेभिर् वाजिनीवती ।यज्ञं वष्टु धियावसुः ॥
85चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।यज्ञं दधे सरस्वती ॥
86महो ऽ अर्णः सरस्वती प्र चेतयति केतुना ।धियो विश्वा वि राजति ॥
87इन्द्रा याहि चित्रभानो सुता ऽ इमे त्वायवः ।अण्वीभिस् तना पूतासः ॥
88इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।उप ब्रह्माणि वाघतः ॥
89इन्द्रा याहि तूतुजान ऽ उप ब्रह्माणि हरिवः ।सुते दधिष्व नश् चनः ॥
90अश्विना पिबतां मधु सरस्वत्या सजोषसा ।इन्द्रः सुत्रामा वृत्रहा जुषन्ताꣳ सोम्यं मधु ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.