शुक्लयजुर्वेदः (वाजसनेयि-माध्यन्दिन-संहिता)
अध्यायः २४
Ask AIWhat is Adhyaya 24 of the Yajurveda about?
Lists of the animals of the horse sacrifice and the deity each belongs to.
1अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव ऽ आग्नेयो रराटे पुरस्तात् सारस्वती मेष्य् अधस्ताद्धन्वोर् आश्विनाव् अधोरामौ बाह्वोः सौमपौष्णः श्यामो नाभ्याꣳ सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर् वायव्यः श्वेतः पुच्छ ऽ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः ॥
2रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्या बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणाः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥
3शुद्धवालः सर्वशुद्धवालो मणिवालस् त ऽ आश्विनाः श्यॆतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा ऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥
4पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽद्ध्यालोहकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिसक्थस् त ऽ ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त ऽ उषस्याः ॥
5शिल्पा वैश्वदेव्यो रोहिण्यस् त्र्यवयो वाचे ऽविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥
6कृष्णग्रीवा ऽ आग्नेयाः शितिभ्रवो वसूनाꣳ रोहिता रुद्राणाꣳ श्वेता ऽ अवरोकिण ऽ आदित्यानां नभोरूपाः पार्जन्याः ॥
7उन्नत ऽ ऋषभो वामनस् त ऽ ऐन्द्रवैष्णवा ऽ उन्नतः शितिबाहुः शितिपृष्ठस् त ऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषा ऽ आग्निमारुताः श्यामाः पौष्णाः ॥
8एता ऽ ऐन्द्राग्ना द्विरूपा ऽ अग्नीषोमीया वामना ऽ अनड्वाह ऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यत एन्यो ऽ मैत्र्यः ॥
9कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्या ऽ अविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥
10कृष्णा भौमा धूम्रा ऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास् तारकाः ॥
11धूम्रान् वसन्ताया लभते श्वेतान् ग्रीष्माय कृष्णान् वर्षाभ्यो ऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय ॥
12त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा ऽ अनुष्टुभे तुर्यवाह ऽ उष्णिहे ॥
13पष्ठवाहो विराज ऽ उक्षाणो बृहत्या ऽ ऋषभाः ककुभे ऽनड्वाहः पङ्क्त्यै धेनवो ऽतिच्छन्दसे ॥
14कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्या ऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः ॥
15उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास् तूपराः ॥
16अग्नये ऽनीकवते प्रथमजान् आ लभते मरुद्भ्यः सांतपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधिभ्यो बष्किहान् मरुद्भ्यः क्रीडिभ्यः सꣳसृष्टान् मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् ॥
17उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः ॥
18धूम्रा बभ्रुनीकाशाः पितॄणाꣳ सोमवतां बभ्रवो बभ्रुनीकाशाः पितॄणां बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणाम् अग्निष्वात्तानां कृष्णाः पृषन्तस् त्रैयम्बकाः ॥
19उक्ताः संचरा ऽ एता शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः ॥
20वसन्ताय कपिञ्जलान् आ लभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥
21समुद्राय शिशुमारान् आलभते पर्जन्याय मण्डूकान् अद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रान् ॥
22सोमाय हꣳसान् आ लभते वायवे बलाका ऽ इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान् ॥
23अग्नये कुटरून् आ लभते वनस्पतिभ्य ऽ उलूकान् अग्नीषोमाभ्यां चाषान् अश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान् ॥
24सोमाय लबान् आ लभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः कुलीका देवजामिभ्यो ऽग्नये गृहपतये पारुष्णान् ॥
25अह्ने पारावतान् आ लभते रात्र्यै सीचापूर् अहोरात्रयोः संधिभ्यो जतूर् मासेभ्यो दात्यौहान्त् संवत्सराय महतः सुपर्णान् ॥
26भूम्या ऽ आखून् आ लभते ऽन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकान् अवान्तरदिशाभ्यः ॥
27वसुभ्य ऽ ऋश्यान् आ लभते रुद्रेभ्यः रुरून् आदित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त् साध्येभ्यः कुलुङ्गान् ॥
28ईशानाय परस्वत ऽ आ लभते मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयाꣳस् त्वष्ट्र ऽ उष्ट्रान् ॥
29प्रजापतये पुरुषान् हस्तिन ऽ आ लभते वाचे प्लुषीꣳश् चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः ॥
30प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिद् ऋषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥
31मयुः प्राजापत्य ऽ उलो हलिक्ष्णो वृषदꣳशस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस् ते त्वाष्ट्रा वाचे क्रुञ्चः ॥
32सोमाय कुलुङ्ग ऽ आरण्यो ऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोर् इन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस् ते ऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः ॥
33सौरी बलाका शार्गः सृजयः शयाण्डकस् ते मैत्राः सरस्वत्यै शारिः पुरुषवाक् श्वाविद् भौमी शार्दूलो वृकः पृदाकुस् ते मन्यवे सरस्वते शुकः पुरुषवाक् ॥
34सुपर्णः पार्जन्य ऽ आतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस् पतये पैङ्गराजो ऽलज ऽ आन्तरिक्षः प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः ॥
35पुरुषमृगश् चन्द्रमसो गोधा कालका दार्वाघाटस् ते वनस्पतीनां कृकवाकुः सावित्रो हꣳसो वातस्य नाक्रो मकरः कुलीपयस् ते ऽकूपारस्य ह्रियै शल्पकः ॥
36एण्य् अह्नो मण्डूको मूषिका तित्तिरिस् ते सर्पाणां लोपाश ऽ आश्विनः कृष्णो रात्र्या ऽ ऋक्षो जतूः सुषिलीका त ऽ इतरजनानां जहका वैष्णवी ॥
37अन्यवापो ऽर्धमासानाम् ऋश्यो मयूरः सुपर्णस् ते गन्धर्वाणाम् अपाम् उद्रो मासां कश्यपो रोहित् कुण्डृणाची गोलत्तिका ते ऽप्सरसां मृत्यवे ऽसितः ॥
38वर्षाहूर् ऋतूनाम् आखुः कशो मान्थालस् ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः कपोत ऽ उलूकः शशस् ते निर्ऋत्यै वरुणायारण्यो मेषः ॥
39श्वित्र ऽ आदित्यानाम् उष्ट्रो घृणीवान् वार्ध्रीणसस् ते मत्या ऽ अरण्याय सृमरो रुरू रौद्रः क्वयिः कुटरुर् दात्यौहस् ते वाजिनां कामाय पिकः ॥
40खड्गो वैश्वदेवः श्वा कृष्णः कर्णो गर्दभस् तरक्षुस् ते रक्षसाम् इन्द्राय सूकरः सिꣳहो मारुताः कृकलासः पिप्पका शकुनिस् ते शरव्यायै विश्वेषां देवानां पृषतः ॥
Yajurveda by the Vedic rishis; tradition holds that the Sun revealed the White Yajurveda to the sage Yajnavalkya. Sanskrit text of the Shukla Yajurveda, Vajasaneyi Madhyandina Samhita (40 adhyayas, 1,975 kandikas), as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Yajurveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.