श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda
सर्गः ८
Ask AIश्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥
तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः ।सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥१-८-१॥
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥१-८-२॥
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥१-८-३॥
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम ।शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥१-८-४॥
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥१-८-५॥
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥१-८-६॥
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥१-८-७॥
मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् ।तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥१-८-८॥
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥१-८-९॥
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-८-११॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥१-८-१२॥
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥१-८-१३॥
अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः ।सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥१-८-१४॥
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ।सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-८-१५॥
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि ।शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥१-८-१६॥
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ।च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥१-८-१७॥
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥१-८-१८॥
तथा विधानं क्रियतां समर्थाः साधनेष्विति ।तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥१-८-१९॥
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते ।तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥१-८-२०॥
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥१-८-२१॥
ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् ।इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ।ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः ॥१-८-२३॥
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.