Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः ७

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः ७

Ask AI

श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥

तस्यामात्या गुणैरासन्विक्ष्वाकोः सुमहात्मनः ।मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥१-७-१॥

अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥१-७-२॥

धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्र्वर्धनः ।अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥१-७-३॥

ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥१-७-४॥

सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः ।मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥१-७-५॥

एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः ।विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ॥१-७-६॥

श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥१-७-७॥

तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥१-७-८॥

तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा ।क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥१-७-९॥

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥१-७-१०॥

कोशसंग्रहणे युक्ता बलस्य च परिग्रहे ।अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥१-७-११॥

वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः।शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥१-७-१२॥

ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥

शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥१-७-१४॥

क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः ।प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत् ॥१-७-१५॥

सुवाससः सुवेशाश्च ते च सर्वे शुचिव्रताः ।हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥१-७-१६॥

गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः ।विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥१-७-१७॥

अभितो गुणवन्तश्च न चासन् गुणवर्जिताः ।सन्धिविग्रहतत्वज्ञाः प्रकृत्या सम्पदान्विताः ॥१-७-१८॥

मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥१-७-१९॥

ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ।उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥१-७-२०॥

अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् ।प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥१-७-२१॥

विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः ।स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥१-७-२२॥

नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।स शशास जगद् राजा दिवि देवपतिर्यथा ॥१-७-२३॥

तैर्मन्त्रिभिर्मन्त्रहितै निविष्टै-::र्वृतोऽनुरक्तैः कुशलैः समर्थैः ।स पार्थिवो दीप्तिमवाप युक्त-::स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥१-७-२४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ६सर्गः ८

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu