Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः ६

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः ६

Ask AI

श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥

तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः ।दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥१-६-१॥

इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी ।महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥१-६-२॥

बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः ।धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः ॥१-६-३॥

यथा मनुर्महातेजा लोकस्य परिरक्षिता ।तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥

तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता ।पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥१-६-५॥

तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥१-६-६॥

नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे ।कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥१-६-७॥

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः ॥१-६-८॥

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥१-६-९॥

नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते ॥१-६-१०॥

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥१-६-११॥

नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।कश्चिदासीदयोध्यायां न चार्वृत्तो न संकरः ॥१-६-१२॥

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥१-६-१३॥

नास्तिको नानृती वापि न कश्चिदबहुश्रुतः ।नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥१-६-१४॥

नाषडङ्गविदत्रास्ति नाव्रतो नासहस्रदः ।न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥१-६-१५॥

कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् ।द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥१-६-१६॥

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥१-६-१७॥

दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥१-६-१८॥

क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः ।शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः ॥१-६-१९॥

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥

योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥१-६-२१॥

काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥१-६-२२॥

विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥१-६-२३॥

ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ॥१-६-२४॥

भदैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥१-६-२५॥

नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः ।सा योजने द्वे च भूयः सत्यनामा प्रकाशते ।यस्यां दशरथो राजा वसञ्जगदपालयत् ॥१-६-२६॥

तां पुरीं स महातेजा राजा दशरथो महान् ।शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥

तां सत्यनामां दृढतोरणार्गलाम्::गृहैर्विचित्रैरुपशोभितां शिवाम् ।पुरीमयोध्यां नृसहस्रसंकुलां::शशास वै शक्रसमो महीपतिः ॥१-६-२८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥१-६॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ५सर्गः ७

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu