श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda
सर्गः ५
Ask AIश्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चमः सर्गः ॥१-५॥
सर्वा पूर्वमियं येषामासीत् कृत्स्ना वसुंधरा ।प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥१-५-१॥
येषां स सगरो नाम सागरो येन खानितः ।षष्टिपुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥१-५-२॥
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥१-५-३॥
तदिदं वर्तयिष्यावः सर्वं निखिलमादितः ।धर्मकामार्थसहितं श्रोतव्यमनसूयता ॥१-५-४॥
कोसलो नाम मुदितः स्फीतो जनपदो महान् ।निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥१-५-५॥
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥१-५-६॥
आयता दश च द्वे च योजनानि महापुरी ।श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥१-५-७॥
राजमार्गेण महता सुविभक्तेन शोभिता ।मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥१-५-८॥
तां तु राजा दशरथो महाराष्ट्रविवर्धनः ।पुरीमावासयामास दिवि देवपतिर्यथा ॥१-५-९॥
कपाटतोरणवतीं सुविभक्तान्तरापणाम् ।सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ॥१-५-१०॥
सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥१-५-११॥
वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥१-५-१२॥
दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् ।वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥१-५-१३॥
सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥१-५-१४॥
प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम् ।कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥१-५-१५॥
चित्रामष्टापदाकारां वरनारीगणायुताम् ।सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥१-५-१६॥
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥१-५-१७॥
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥१-५-१८॥
विमानमिव सिद्धानां तपसाधिगतं दिवि ।सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥१-५-१९॥
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् ।शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥१-५-२०॥
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने ।हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥१-५-२१॥
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।पुरीमावासयामास राजा दशरथस्तदा ॥१-५-२२॥
तामग्निमद्भिर्गुणवद्भिरावृतां::द्विजोत्तमैर्वेदषडङ्गपारगैः ।सहस्रदैः सत्यरतैर्महात्मभि-::र्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥१-५-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥१-५॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.