Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः ४

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः ४

Ask AI

श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्थः सर्गः ॥१-४॥

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥१-४-१॥

चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥१-४-२॥

कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥१-४-३॥

तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥१-४-४॥

कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥१-४-५॥

स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।वेदोपबृंह्मणार्थाय तावग्राहयत प्रभुः ॥१-४-६॥

काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥१-४-७॥

पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥१-४-८॥

रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः ।वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥१-४-९॥

तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ ।भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥१-४-१०॥

रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ ।बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥१-४-११॥

तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् ।वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥१-४-१२॥

ऋषीणां च द्विजातीनां साधूनां च समागमे ।यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥१-४-१३॥

महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ।तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥१-४-१४॥

मध्ये सभं समीपस्थाविदं काव्यमगायताम् ।तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥१-४-१५॥

साधु साध्विति तावूचुः परं विस्मयमागताः ।ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥१-४-१६॥

प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ।अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥१-४-१७॥

चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ।प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥१-४-१८॥

सहितौ मधुरं रक्तं सम्पन्नं स्वरसंपदा ।एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥१-४-१९॥

संरक्ततरमत्यर्थं मधुरं तावगायताम् ।प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥१-४-२०॥

प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः ।अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥१-४-२१॥

कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः ।बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥१-४-२२॥

ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ।काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥१-४-२३॥

जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ।यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथा परः ॥१-४-२४॥

औदुम्बरीं ब्रुसीमन्यः स्वस्ति केचित् तदावदन् ।आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥१-४-२५॥

ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः ।आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥१-४-२६॥

परं कवीनामाधारं समाप्तं च यथाक्रमम् ।अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥१-४-२७॥

आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् ।प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥

रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ॥१-४-२९॥

पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ।आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥

उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः ।दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ ॥१-४-३१॥

उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ।श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ॥१-४-३२॥

विचित्रार्थपदं सम्यग्गायकौ समचोदयत् ।तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम् ॥१-४-३३॥

तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च ।श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि ॥१-४-३४॥

इमौ मुनी पार्थिवलक्षणान्वितौ ।::कुशीलवौ चैव महातपस्विनौ ।ममापि तद् भूतिकरं प्रचक्षते ।::महानुभावं चरितं निबोधत ॥१-४-३५॥

ततस्तु तौ रामवचः प्रचोदिता-::वगायतां मार्गविधानसम्पदा ।स चापि रामः परिषद्गतः शनै-र्बुभूषयासक्तमना बभूव ह ॥१-४-३६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥१-४॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ३सर्गः ५

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu