Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः ३

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः ३

Ask AI

श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥

श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् ।व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥१-३-१॥

उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः ।प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥१-३-२॥

रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥१-३-३॥

हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् ।तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥१-३-४॥

स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने ।सत्यसन्धेन रामेण तत् सर्वं चान्ववैक्षत ॥१-३-५॥

ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः ।पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा ॥१-३-६॥

तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः ।अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः ॥१-३-७॥

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥१-३-८॥

स यथा कथितं पूर्वं नारदेन महात्मना ।रघुवंशस्य चरितं चकार भगवान् मुनिः ॥१-३-९॥

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥१-३-१०॥

नाना चित्राः कथाश्चान्या विश्वामित्रसहायने ।जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥१-३-११॥

रामरामविवादं च गुणान् दाशरथेस्तथा ।तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥१-३-१२॥

विघातं चाभिषेकस्य रामस्य च विवासनम् ।राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥१-३-१३॥

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।निषादाधिपसंवादं सूतोपावर्तनं तथा ॥१-३-१४॥

गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् ।भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥१-३-१५॥

वास्तुकर्म निवेशं च भरतागमनं तथा ।प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥१-३-१६॥

पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।दण्डकारण्यगमनं विराधस्य वधं तथा ॥१-३-१७॥

दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥१-३-१८॥

दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा ।शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥१-३-१९॥

वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥१-३-२०॥

राघवस्य विलापं च गृध्रराजनिबर्हणम् ।कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥१-३-२१॥

शबरीदर्शनं चैव फलमूलाशनं तथा ।प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥१-३-२२॥

ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् ।प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥१-३-२३॥

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्ताराविलापं समयं वर्षरात्रनिवासनम् ॥१-३-२४॥

कोपं राघवसिंहस्य बलानामुपसंग्रहम्दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥१-३-२५॥

अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥१-३-२६॥

पर्वतारोहणं चैव सागरस्यापि लङ्घनम्समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥१-३-२७॥

राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम्सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥१-३-२८॥

रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्आपानभूमिगमनमवरोधस्य दर्शनम् ॥१-३-२९॥

दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥१-३-३०॥

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥१-३-३१॥

मणिप्रदानं सीताया वृक्षभङ्गं तथैव चराक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥१-३-३२॥

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥१-३-३३॥

राघवाश्वासनं चैव मणिनिर्यातनं तथासंगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥१-३-३४॥

प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्विभीषणेन संसर्गं वधोपायनिवेदनम् ॥१-३-३५॥

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥१-३-३६॥

बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम्अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥१-३-३७॥

प्रेषणं वायुपुत्रस्य भरतेन समागमम्रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥१-३-३८॥

अनागतं च यत् किंचिद् रामस्य वसुधातलेतच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥१-३-३९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥१-३॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः २सर्गः ४

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu