Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः २

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः २

Ask AI

श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वितीयः सर्गः ॥१-२॥

नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥१-२-१॥

यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा ।आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥

स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा ।जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥१-२-३॥

स तु तीरं समासाद्य तमसाया मुनिस्तदा ।शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥१-२-४॥

अकर्दममिदं तीर्थं भरद्वाज निशामय ।रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥१-२-५॥

न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥१-२-६॥

एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥१-२-७॥

स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥१-२-८॥

तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥१-२-९॥

तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः ।जघान वैरनिलयो निषादस्तस्य पश्यतः ॥१-२-१०॥

तं शोणितपरीताङ्गं चेष्टमानं महीतले ।भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥१-२-११॥

वियुक्ता पतिना तेन द्विजेन सहचारिणा ।ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥१-२-१२॥

तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् ।ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥१-२-१३॥

ततः करुणवेदित्वादधर्मोऽयमिति द्विजः ।निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥१-२-१४॥

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥१-२-१५॥

तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥१-२-१६॥

चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् ।शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः ॥१-२-१७॥

पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥१-२-१८॥

शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥१-२-१९॥

सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥१-२-२०॥

भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः ।कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥१-२-२१॥

स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥१-२-२२॥

आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः ।चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥१-२-२३॥

वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥१-२-२४॥

पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः ।प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥१-२-२५॥

अथोपविश्य भगवानासने परमार्चिते ।वाल्मीकये च ऋषये संदिदेशासनं ततः ॥१-२-२६॥

ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ।उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।॥१-२-२७॥

तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ।पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।॥१-२-२८॥

यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ॥१-२-२९॥

पुनरन्तर्गतमना भूत्वा शोकपरायणः ।तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ॥१-२-३०॥

श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा ।मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥१-२-३१॥

रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ।धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥

वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः ॥१-२-३३॥

रामस्य सहसौमित्रे राक्षसानां च सर्वशः ।वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः ॥१-२-३४॥

तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।न ते वागनृता काव्ये काचिदत्र भविष्यति ॥१-२-३५॥

कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥१-२-३६॥

तावद् रामायणकथा लोकेषु प्रचरिष्यति ।यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति ॥१-२-३७॥

तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।ततः सशिष्यो भगवान् र्मुनिर्विस्मयमाययौ ॥१-२-३८॥

तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ।मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥१-२-३९॥

समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥१-२-४०॥

तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥१-२-४१॥

उदारवृत्तार्थपदैर्मनोरमै-::स्तदास्य रामस्य चकार कीर्तिमान् ।समाक्षरैः श्लोकशतैर्यशस्विनो::यशस्करं काव्यमुदारदर्शनः ॥१-२-४२॥

तदुपगतसमाससंधियोगं::सममधुरोपनतार्थवाक्यबद्धम् ।रघुवरकरितं मुनिप्रणीतं::दशशिरसश्क वधं निशामयध्वम् ॥१-२-४३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥१-२॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः १सर्गः ३

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu