Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः १

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः १

Ask AI

श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥

तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥

को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥

चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥१-१-३॥

आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः ।कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥

बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥१-१-७॥

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥१-१-८॥

बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः ।विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥१-१-९॥

महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥

समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥१-१-११॥

धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥

प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१-१-१३॥

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥

सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१-१-१५॥

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥

स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः ।समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१-१-१८॥

धनदेन समस्त्यागे सत्ये धर्म इवापरः ।तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥१-१-१९॥

ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥१-१-२०॥

यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः ।तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥

पूर्वं दत्तवरा देवी वरमेनमयाचत ।विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥

स सत्यवचनाद्राजा धर्मपाशेन संयतः ।विवासयामास सुतं रामं दशरथः प्रियम् ॥१-१-२३॥

स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥१-१-२४॥

तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-२५॥

भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥१-१-२६॥

जनकस्य कुले जाता देवमायेव निर्मिता ।सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥

सीताप्यनुगता रामं शशिनं रोहिणी यथा ।पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥

शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥

गुहेन सहितो रामो लक्ष्मणेन च सीतया ।ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-३१॥

देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् ।चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥१-१-३२॥

राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् ।गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥१-१-३३॥

नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः ।स जगाम वनं वीरो रामपादप्रसादकः ॥१-१-३४॥

गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥१-१-३५॥

त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥

न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः ।पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥

निवर्तयामास ततो भरतं भरताग्रजः ।स काममनवाप्यैव रामपादावुपस्पृशन् ॥१-१-३८॥

नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया ।गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥१-१-३९॥

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥

प्रविश्य तु महारण्यं रामो राजीवलोचनः ।विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥

सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-४२॥

खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ ।वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-४३॥

ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥१-१-४४॥

प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-४५॥

तेन तत्रैव वसता जनस्थाननिवासिनी ।विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१-१-४६॥

ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥१-१-४७॥

निजघान रणे रामस्तेषां चैव पदानुगान् ।वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥१-१-४८॥

रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-४९॥

सहायं वरयामास मारीचं नाम राक्षसम् ।वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥

न विरोधो बलवता क्षमो रावण तेन ते ।अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-५१॥

जगाम सहमारीचस्तस्याश्रमपदं तदा ।तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-५२॥

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥१-१-५३॥

राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ।ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥

मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥१-१-५५॥

तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।स चास्य कथयामास शबरीं धर्मचारिणीम् ॥१-१-५६॥

श्रमणां धर्मनिपुणामभिगच्छेति राघव ।सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-५७॥

शबर्या पूजितः सम्यग् रामो दशरथात्मजः ।पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥

हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥१-१-५९॥

आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः ।सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-६०॥

चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-६१॥

रामायावेदितं सर्वं प्रणयात् दुःखितेन च ।प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-६२॥

वालिनश्च बलं तत्र कथयामास वानरः ।सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-६३॥

राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥१-१-६४॥

उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः ।पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥१-१-६५॥

बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥

ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।किष्किन्धां रामसहितो जगाम च गुहां तदा ॥१-१-६७॥

ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥

अनुमान्य तदा तारां सुग्रीवेण समागतः ।निजघान च तत्रैनं शरेणैकेन राघवः ॥१-१-६९॥

ततः सुग्रीववचनात् हत्वा वालिनमाहवे ।सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥

स च सर्वान् समानीय वानरान् वानरर्षभः ।दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥

ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥

तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् ॥१-१-७३॥

निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥

पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥१-१-७५॥

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् ।मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥

ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् ।रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥

ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥१-१-७९॥

दर्शयामास चात्मानं समुद्रः सरितां पतिः ।समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥१-१-८०॥

तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥

तामुवाच ततो रामः परुषं जनसंसदि ।अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥१-१-८२॥

ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् ।कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥१-१-८३॥

सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ॥१-१-८४॥

अभ्यषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥

देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥

भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥१-१-८८॥

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥१-१-८९॥

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥१-१-९०॥

न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥

न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥१-१-९२॥

न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥१-१-९३॥

नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥१-१-९४॥

गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ।असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥१-१-९५॥

राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥

दशवर्षसहस्राणि दशवर्षशतानि च ।रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥१-१-९७॥

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥१-१-९८॥

एतदाख्यानमायुष्यं पठन् रामायणं नरः ।सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥

पठन् द्विजो वागृषभत्वमीयात् ।त् क्षत्रियो भूमिपतित्वमीयात् ॥वणिक् जनः पण्यफलत्वमीयात् ।जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥

इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः २

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu