Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः ९

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः ९

Ask AI

श्रीमद्वाल्मीकियरामायणे बालकाण्डे नवमः सर्गः ॥१-९॥

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥१-९-१॥

ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ।सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥१-९-२॥

ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति ।काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥

ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ।स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥१-९-४॥

नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥

लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ।तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥

अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ।एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥१-९-७॥

अङ्गेषु प्रथितो राजा भविष्यति महाबलः ।तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥

अनावृष्टिः सुघोरा वै सर्वलोकभयावहा ।अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥१-९-९॥

ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व ।भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥१-९-१०॥

समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ।इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥१-९-११॥

वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥१-९-१२॥

आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् ।विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् ।प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१-९-१३॥

तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥१-९-१४॥

ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥

ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः ।न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥१-९-१६॥

वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् ।आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥१-९-१७॥

एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः ।आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ॥१-९-१८॥

ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति ।सनत्कुमारकथितमेतावद् व्याहृतं मया ॥१-९-१९॥

अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत।यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम् ॥१-९-२०॥

इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥१-९॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ८सर्गः १०

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu