श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः ९५
Ask AIअथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: ।अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ।। २.९५.१ ।।
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।विदेहराजस्य सुतां रामो राजीवलोचन: ।। २.९५.२ ।।
विचित्रपुलिनां रम्यां हंससारससेविताम् ।कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ।। २.९५.३ ।।
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: ।राजन्तीं राजराजस्य नलिनीमिव सर्वत: ।। २.९५.४ ।।
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ।। २.९५.५ ।।
जटाजिनधरा: काले वल्कलोत्तरवासस: ।ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ।। २.९५.६ ।।
आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: ।एते परे विशालाक्षि मुनय: संशितव्रता: ।। २.९५.७ ।।
मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: ।पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ।। २.९५.८ ।।
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ।। २.९५.९ ।।
निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ।। २.९५.१० ।।
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: ।अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ।। २.९५.११ ।।
दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ।। २.९५.१२ ।।
विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: ।नित्यविक्षोभितजलां विगाहस्व मया सह ।। २.९५.१३ ।।
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ।। २.९५.१४ ।।
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ।। २.९५.१५ ।।
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: ।त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ।। २.९५.१६ ।।
उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: ।नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ।। २.९५.१७ ।।
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: ।सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ।। २.९५.१८ ।।
इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् ।चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ।। २.९५.१९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ।। ९५।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.