श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः ९४
Ask AIदीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: ।वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ।। २.९४.१ ।।
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ।। २.९४.२ ।।
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: ।मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ।। २.९४.३ ।।
पश्येममचलं भद्रे नानाद्विजगणायुतम् ।शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ।। २.९४.४ ।।
केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: ।पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ।। २.९४.५ ।।
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: ।विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ।। २.९४.६ ।।
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: ।अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ।। २.९४.७ ।।
आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: ।अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ।। २.९४.८ ।।
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ।। २.९४.९ ।।
पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: ।एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ।। २.९४.१० ।।
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ।। २.९४.११ ।।
शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ।। २.९४.१२ ।।
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ।। २.९४.१३ ।।
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ।। २.९४.१४ ।।
यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ।। २.९४.१५ ।।
बहुपुष्पफले रम्ये नानाद्विजगणायुते ।विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ।। २.९४.१६ ।।
अनेन वनवासेन मया प्राप्तं फलद्वयम् ।पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ।। २.९४.१७ ।।
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ।। २.९४.१८ ।।
इदमेवामृतं प्राहू राज्ञि राजर्षय: परे ।वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ।। २.९४.१९ ।।
शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: ।बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ।। २.९४.२० ।।
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ।। २.९४.२१ ।।
केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: ।केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ।। २.९४.२२ ।।
भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: ।चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ।। २.९४.२३ ।।
कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् ।कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ।। २.९४.२४ ।।
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: ।कामिभिर्वनिते पश्य फलानि विविधानि च ।। २.९४.२५ ।।
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ।। २.९४.२६ ।।
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ।। २.९४.२७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग: ।। ९४ ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.