श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः ९६
Ask AIतां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ।। २.९६.१ ।।
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।एवमास्ते स धर्मात्मा सीतया सह राघव: ।। २.९६.२ ।।
तथा तत्रासतस्तस्य भरतस्योपयायिन: ।सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ।। २.९६.३ ।।
एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: ।अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ।। २.९६.४ ।।
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: ।तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ।। २.९६.५ ।।
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ।। २.९६.६ ।।
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ।। २.९६.७ ।।
गजयूथानि वा ऽरण्ये महिषा वा महावने ।वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ।। २.९६.८ ।।
राजा वा राजमात्रो वा मृगयामटते वने ।अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ।। २.९६.९ ।।
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ।। २.९६.१० ।।
स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् ।प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ।। २.९६.११ ।।
उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् ।रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ।। २.९६.१२ ।।
तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।शशंस सेनां रामाय वचनं चेदमब्रीत् ।। २.९६.१३ ।।
अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् ।सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ।। २.९६.१४ ।।
तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ।। २.९६.१५ ।।
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।दिधक्षन्निव तां सेनां रुषित: पावको यथा ।। २.९६.१६ ।।
सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ।। २.९६.१७ ।।
एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ।। २.९६.१८ ।।
भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ।। २.९६.१९ ।।
गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ।। २.९६.२० ।।
अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ।। २.९६.२१ ।।
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।त्वया राघव सम्प्राप्तं सीतया च मया तथा ।। २.९६.२२ ।।
यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ।। २.९६.२३ ।।
भरतस्य वधे दोषं नाहं पश्यामि राघव ।पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ।। २.९६.२४ ।।
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ।। २.९६.२५ ।।
अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ।। २.९६.२६ ।।
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।कलुषेणाद्य महता मेदिनी परिमुच्यताम् ।। २.९६.२७ ।।
अद्येमं संयतं क्रोधमसत्कारं च मानद ।मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ।। २.९६.२८ ।।
अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: ।भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ।। २.९६.२९ ।।
शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ।। २.९६.३० ।।
शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।ससैन्यं भरतं हत्वा भविष्यामि न संशय: ।। २.९६.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षण्णवतितम: सर्ग: ।। ९६ ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.