श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः ११३
Ask AIतत: शिरसि कृत्वा तु पादुके भरतस्तदा ।आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ।। २.११३.१ ।।
वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: ।अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ।। २.११३.२ ।।
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ।। २.११३.३ ।।
पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ।। २.११३.४ ।।
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ।। २.११३.५ ।।
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ।। २.११३.६ ।।
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।अपि कृत्यं कृतं तात रामेण च समागतम् ।। २.११३.७ ।।
एवमुक्त: स तु ततो भरद्वाजेन धीमता ।प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ।। २.११३.८ ।।
स याच्यमानो गुरुणा मया च दृढविक्रम: ।राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ।। २.११३.९ ।।
पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: ।चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ।। २.११३.१० ।।
एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह ।वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ।। २.११३.११ ।।
एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते ।अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ।। २.११३.१२ ।।
एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: ।पादुके अधिरुह्यैते मम राज्याय वै ददौ ।। २.११३.१३ ।।
निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ।। २.११३.१४ ।।
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ।। २.११३.१५ ।।
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ।। २.११३.१६ ।।
अमृत: स महाबाहु: पिता दशरथस्तव ।यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ।। २.११३.१७ ।।
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: ।आमतन्त्रयितुमारेभे चरणावुपगृह्य च ।। २.११३.१८ ।।
तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: ।भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ।। २.११३.१९ ।।
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: ।पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ।। २.११३.२० ।।
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ।। २.११३.२१ ।।
तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: ।शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ।। २.११३.२२ ।।
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ।। २.११३.२३ ।।
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ।। २.११३.२४ ।।
सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।निराकारा निरानन्दा दीना प्रतिहतस्वरा ।। २.११३.२५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग: ।। ११३ ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.