श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः ११२
Ask AIतमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ।। २.११२.१ ।।
अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: ।तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ।। २.११२.२ ।।
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ।। २.११२.३ ।।
ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: ।भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ।। २.११२.४ ।।
कुले जात महाप्राज्ञ महावृत्त महायश: ।ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ।। २.११२.५ ।।
सदानृणमिमं रामं वयमिच्छामहे पितु: ।अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ।। २.११२.६ ।।
एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: ।राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ।। २.११२.७ ।।
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: ।राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ।। २.११२.८ ।।
स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया ।कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ।। २.११२.९ ।।
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ।। २.११२.१० ।।
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ।। २.११२.११ ।।
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: ।त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ।। २.११२.१२ ।।
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ।। २.११२.१३ ।।
इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा ।भृशं सम्प्रार्थयामास राममेव प्रियंवद: ।। २.११२.१४ ।।
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ।। २.११२.१५ ।।
आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या ।भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ।। २.११२.१६ ।।
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: ।सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ।। २.११२.१७ ।।
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ।। २.११२.१८ ।।
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ।। २.११२.१९ ।।
एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् ।तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ।। २.११२.२० ।।
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ।। २.११२.२१ ।।
सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च ।प्रायच्छत् सुमहातेजा भरताय महात्मने ।। २.११२.२२ ।।
स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ।। २.११२.२३ ।।
फलमूलाशनो वीर भवेयं रघुनन्दन ।तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ।। २.११२.२४ ।।
तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप ।चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ।। २.११२.२५ ।।
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ।। २.११२.२६ ।।
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।मया च सीतया चैव शप्तो ऽसि रघुसत्तम ।। २.११२.२७ ।।
इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ।। २.११२.२८ ।।
स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ।। २.११२.२९ ।।
अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ।। २.११२.३० ।।
तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: ।स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ।। २.११२.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततम: सर्ग: ।। ११२ ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.