Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Ayodhya Kanda
  6. सर्गः १११

श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda

सर्गः १११

Ask AI

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: ।अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ।। २.१११.१ ।।

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: ।आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ।। २.१११.२ ।।

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ।। २.१११.३ ।।

सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.४ ।।

इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा ।एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ।। २.१११.५ ।।

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.६ ।।

भरतस्य वच: कुर्वन् याचमानस्य राघव ।आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ।। २.१११.७ ।।

एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् ।प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ।। २.१११.८ ।।

यन्मातापितरौ वृत्तं तनये कुरुत: सदा ।न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ।। २.१११.९ ।।

यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।नित्यं च प्रियवादेन तथा संवर्द्धनेन च ।। २.१११.१० ।।

स हि राजा जनयिता पिता दशरथो मम ।आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ।। २.१११.११ ।।

एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् ।उवाच परमोदार: सूतं परमदुर्मना: ।। २.१११.१२ ।।

इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ।। २.१११.१३ ।।

अनाहारो निरालोको धनहीनो यथा द्विज: ।शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ।। २.१११.१४ ।।

स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: ।कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ।। २.१११.१५ ।।

तमुवाच महातेजा रामो राजर्षिसत्तम: ।किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ।। २.१११.१६ ।।

ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ।। २.१११.१७ ।।

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ।। २.१११.१८ ।।

आसीनस्त्वेव भरत: पौरजानपदं जनम् ।उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ।। २.१११.१९ ।।

ते तमूचुर्महात्मानं पौरजानपदा जना: ।काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ।। २.१११.२० ।।

एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति ।अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ।। २.१११.२१ ।।

तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ।। २.१११.२२ ।।

एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ।। २.१११.२३ ।।

अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ।। २.१११.२४ ।।

न याचे पितरं राज्यं नानुशासामि मातरम् ।आर्यं परमधर्मज्ञं नानुजानामि राघवम् ।। २.१११.२५ ।।

यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: ।अहमेव निवत्स्यामि चतुर्दश समा वने ।। २.१११.२६ ।।

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: ।उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ।। २.१११.२७ ।।

विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।न तल्लोपयितुं शक्यं मया वा भरतेन वा ।। २.१११.२८ ।।

अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: ।युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ।। २.१११.२९ ।।

जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ।। २.१११.३० ।।

अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: ।भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ।। २.१११.३१ ।।

वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।अनृतन्मोचयानेन पितरं तं महीपतिम् ।। २.१११.३२ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग: ।। १११ ।।

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ११०सर्गः ११२

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu