श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः ११०
Ask AIक्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह ।जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।। २.११०.१ ।।
निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।। २.११०.२ ।।
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह ।स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ।। २.११०.३ ।।
असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: ।आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ।। २.११०.४ ।।
तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ।। २.११०.५ ।।
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: ।स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ।। २.११०.६ ।।
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।। २.११०.७ ।।
इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: ।कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ।। २.११०.८ ।।
विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् ।बाणस्य तु महाबाहुरनरण्यो महायशा: ।। २.११०.९ ।।
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।अनरण्ये महाराजे तस्करो नापि कश्चन ।। २.११०.१० ।।
अनरण्यान्महाबाहु: पृथू राजा बभूव ह ।तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ।। २.११०.११ ।।
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: ।धुन्धुमारो महातेजा युवनाश्वो व्यजायत ।। २.११०.१२ ।।
युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत ।मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ।। २.११०.१३ ।।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् ।यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ।। २.११०.१४ ।।
भरतात्तु महाबाहोरसितो नाम जायत ।यस्यैते प्रतिराजान उदपद्यन्त शत्रव: ।हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ।। २.११०.१५ ।।
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: ।स च शैलवरे रम्ये बभूवाभिरतो मुनि: ।। २.११०.१६ ।।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: ।एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।। २.११०.१७ ।।
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: ।तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ।। २.११०.१८ ।।
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: ।धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ।। २.११०.१९ ।।
कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।तत: सा गृहमागम्य देवी पुत्रं व्यजायत ।। २.११०.२० ।।
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।गरेण सह तेनैव जात: स सगरो ऽभवत् ।। २.११०.२१ ।।
स राजा सगरो नाम य: समुद्रमखानयत् ।इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ।। २.११०.२२ ।।
असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् ।जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ।। २.११०.२३ ।।
अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् ।दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ।। २.११०.२४ ।।
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: ।ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ।। २.११०.२५ ।।
रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: ।कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ।। २.११०.२६ ।।
कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: ।यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ।। २.११०.२७ ।।
शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: ।सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ।। २.११०.२८ ।।
शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: ।प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ।। २.११०.२९ ।।
अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: ।नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ।। २.११०.३० ।।
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ।। २.११०.३१ ।।
तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: ।तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ।। २.११०.३२ ।।
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: ।पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ।। २.११०.३३ ।।
स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि ।प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ।। २.११०.३४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: ।। ११० ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.