Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Ayodhya Kanda
  6. सर्गः १०९

श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda

सर्गः १०९

Ask AI

जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: ।उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ।। २.१०९.१ ।।

भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ।। २.१०९.२ ।।

निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: ।मानं न लभते सत्सु भिन्नचारित्रदर्शन: ।। २.१०९.३ ।।

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ।। २.१०९.४ ।।

अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: ।लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ।। २.१०९.५ ।।

अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ।। २.१०९.६ ।।

कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: ।बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ।। २.१०९.७ ।।

कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ।। २.१०९.८ ।।

कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते ।यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ।। २.१०९.९ ।।

सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ।। २.१०९.१० ।।

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ।। २.१०९.११ ।।

उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: ।धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ।। २.१०९.१२ ।।

सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ।। २.१०९.१३ ।।

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ।। २.१०९.१४ ।।

एक: पालयते लोकमेक: पालयते कुलम् ।मज्जत्येको हि निरय एक: स्वर्गे महीयते ।। २.१०९.१५ ।।

सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ।। २.१०९.१६ ।।

नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: ।सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ।। २.१०९.१७ ।।

असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: ।नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ।। २.१०९.१८ ।।

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ।। २.१०९.१९ ।।

क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ।। २.१०९.२० ।।

कायेन कुरुते पापं मनसा सम्प्रधार्य च ।अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ।। २.१०९.२१ ।।

भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि ।स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ।। २.१०९.२२ ।।

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ।। २.१०९.२३ ।।

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ।। २.१०९.२४ ।।

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ।। २.१०९.२५ ।।

वनवासं वसन्नेवं शुचिर्नियतभोजन: ।मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ।। २.१०९.२६ ।।

सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ।। २.१०९.२७ ।।

कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ।। २.१०९.२८ ।।

शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: ।तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ।। २.१०९.२९ ।।

अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ।। २.१०९.३० ।।

सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ।। २.१०९.३१ ।।

तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: ।धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ।। २.१०९.३२ ।।

निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ।। २.१०९.३३ ।।

यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ।। २.१०९.३४ ।।

त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: ।जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ।। २.१०९.३५ ।।

धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: ।अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ।। २.१०९.३६ ।।

इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ।। २.१०९.३७ ।।

न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन।समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः।।२.१०९.३८।।

स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता ।निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ।। २.१०९.३९ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवोत्तरशततम: सर्ग: ।। १०९ ।।

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः १०८सर्गः ११०

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu